< マタイの福音書 9 >

1 イエズス小舟に乗り、湖を渡りて己が町に至り給ひしに、
अनन्तरं यीशु र्नौकामारुह्य पुनः पारमागत्य निजग्रामम् आययौ।
2 折しも人々、牀に臥せる癱瘋者を差出だしければ、イエズス彼等の信仰を見て癱瘋者に曰ひけるは、子よ、頼もしかれ、汝の罪赦さる、と。
ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
3 折しも或律法學士等心の中に、彼は冒涜の言を吐けり、と謂ひしが、
तां कथां निशम्य कियन्त उपाध्याया मनःसु चिन्तितवन्त एष मनुज ईश्वरं निन्दति।
4 イエズス彼等の心を見抜きて曰ひけるは、汝等何ぞ心に惡き事を思ふや。
ततः स तेषाम् एतादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ?
5 汝の罪赦さると云ふと、起きて歩めと云ふと孰か易き。
तव पापमर्षणं जातं, यद्वा त्वमुत्थाय गच्छ, द्वयोरनयो र्वाक्ययोः किं वाक्यं वक्तुं सुगमं?
6 然て、人の子地に於て罪を赦すの権あることを汝等に知らせん、とて癱瘋者に向ひ、起きよ、牀を取りて己が家に往け、と曰ひしかば、
किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं आदाय गेहं गच्छ।
7 彼起きて家に往けり。
ततः स तत्क्षणाद् उत्थाय निजगेहं प्रस्थितवान्।
8 群衆之を見て畏れ、斯る権能を人に賜ひたる神に光榮を歸したり。
मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।
9 イエズス此處を出で給ふ時、マテオと名くる人の収税署に坐せるを見て、我に從へ、と曰ひしかば彼起ちて從へり。
अनन्तरं यीशुस्तत्स्थानाद् गच्छन् गच्छन् करसंग्रहस्थाने समुपविष्टं मथिनामानम् एकं मनुजं विलोक्य तं बभाषे, मम पश्चाद् आगच्छ, ततः स उत्थाय तस्य पश्चाद् वव्राज।
10 斯てイエズス其家に食に就き給ふ折しも、税吏罪人多く來りて、イエズス及弟子等と共に坐しければ、
ततः परं यीशौ गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा आगत्य तेन साकं तस्य शिष्यैश्च साकम् उपविविशुः।
11 ファリザイ人等見て弟子等に云ひけるは、汝等の師は何故税吏罪人と食を共にするぞ、と。
फिरूशिनस्तद् दृष्ट्वा तस्य शिष्यान् बभाषिरे, युष्माकं गुरुः किं निमित्तं करसंग्राहिभिः कलुषिभिश्च साकं भुंक्ते?
12 イエズス聞きて曰ひけるは、醫者を要するは健なる人に非ずして病める人なり。
यीशुस्तत् श्रुत्वा तान् प्रत्यवदत्, निरामयलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु सामयलोकानां प्रयोजनमास्ते।
13 汝等往きて「我が好むは憫なり、犠牲に非ず」とは何の謂なるかを學べ。夫我來りしは義人を召ぶ為に非ず、罪人を召ぶ為なり、と。
अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।
14 時にヨハネの弟子等、イエズスに近づきて云ひけるは、我等とファリザイ人とは屡断食するに、汝の弟子等は何故に断食せざるぞ。
अनन्तरं योहनः शिष्यास्तस्य समीपम् आगत्य कथयामासुः, फिरूशिनो वयञ्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः?
15 イエズス彼等に曰ひけるは、新郎の介添、豈新郎の己等と共に在る間に哀しむを得んや、然れど新郎の彼等より奪はるる日來らん、其時には断食せん。
तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।
16 生布の片を以て古き衣服を補ぐ人は非ず、其は其片衣服を割きて、破益大なればなり。
पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं छिनत्ति तच्छिद्रञ्च बहुकुत्सितं दृश्यते।
17 又新しき酒を古き皮嚢に盛る者はあらず、然せば皮嚢破れ酒流れて、嚢も亦廃らん、新しき酒は新しき皮嚢に盛り、斯て兩ながら保つなり、と。
अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।
18 イエズス是等の事を語り給へる折しも、一人の司近づき拝して云ひけるは、主よ、我女今死せり、然れど來りて彼に按手し給へ、然らば活きん、と。
अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।
19 イエズス起ちて是に從ひ給ひ、弟子等も從行きけるに、
तदानीं यीशुः शिष्यैः साकम् उत्थाय तस्य पश्चाद् वव्राज।
20 折しも血漏を患へること十二年なる女、後より近づきてイエズスの衣服の総に触れたり、
इत्यनन्तरे द्वादशवत्सरान् यावत् प्रदरामयेन शीर्णैका नारी तस्य पश्चाद् आगत्य तस्य वसनस्य ग्रन्थिं पस्पर्श;
21 其は其衣服に触れだにせば我痊えん、と心に思ひ居たればなり。
यस्मात् मया केवलं तस्य वसनं स्पृष्ट्वा स्वास्थ्यं प्राप्स्यते, सा नारीति मनसि निश्चितवती।
22 イエズス回顧りて之を見給ひ、女よ、頼もしかれ、汝の信仰汝を醫せり、と曰ふや、女、即時に痊えたり。
ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।
23 イエズス司の家に至り、笛手と囂げる群衆とを見て、
अपरं यीशुस्तस्याध्यक्षस्य गेहं गत्वा वादकप्रभृतीन् बहून् लोकान् शब्दायमानान् विलोक्य तान् अवदत्,
24 汝等退け、女は死したるに非ず、寝たるなり、と曰ひければ、人々彼を哂へり。
पन्थानं त्यज, कन्येयं नाम्रियत निद्रितास्ते; कथामेतां श्रुत्वा ते तमुपजहसुः।
25 群衆の出されし後、イエズス入りて其手を取り給ひしかば、女起きたり、
किन्तु सर्व्वेषु बहिष्कृतेषु सोऽभ्यन्तरं गत्वा कन्यायाः करं धृतवान्, तेन सोदतिष्ठत्;
26 斯て此名聲洽く其地に播れり。
ततस्तत्कर्म्मणो यशः कृत्स्नं तं देशं व्याप्तवत्।
27 イエズス此處を去り給ふに、二人の瞽者、ダヴィドの裔よ、我等を憐み給へ、と叫びつつ從ひしが、
ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचैराहूयन्तौ तत्पश्चाद् वव्रजतुः।
28 イエズス家に至り給ひし時、瞽者等近づきしかば、彼等に曰ひけるは、我之を汝等に為すことを得と信ずるか、と。彼等、主よ、然り、と答へければ、
ततो यीशौ गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्तौ, तदानीं स तौ पृष्टवान् कर्म्मैतत् कर्त्तुं मम सामर्थ्यम् आस्ते, युवां किमिति प्रतीथः? तदा तौ प्रत्यूचतुः, सत्यं प्रभो।
29 イエズス手を其目に触れて、其信仰の儘に汝等に成れ、と曰ふや、
तदानीं स तयो र्लोचनानि स्पृशन् बभाषे, युवयोः प्रतीत्यनुसाराद् युवयो र्मङ्गलं भूयात्। तेन तत्क्षणात् तयो र्नेत्राणि प्रसन्नान्यभवन्,
30 彼等の目開けたり。イエズス厳しく彼等を戒めて、人に知れざる様慎め、と曰ひしかど、
पश्चाद् यीशुस्तौ दृढमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।
31 彼等出て、洽く其地にイエズスの噂を言弘めたり。
किन्तु तौ प्रस्थाय तस्मिन् कृत्स्ने देशे तस्य कीर्त्तिं प्रकाशयामासतुः।
32 彼等の出でたる折しも、人々惡魔に憑かれたる一人の唖者をイエズスに差出ししかば、
अपरं तौ बहिर्यात एतस्मिन्नन्तरे मनुजा एकं भूतग्रस्तमूकं तस्य समीपम् आनीतवन्तः।
33 惡魔逐払はれて唖者言ひ、群衆感嘆して、斯る事は曾てイスラエルの中に顕れし事なし、と云ひしかど、
तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत;
34 ファリザイ人等は、彼が惡魔を逐払ふは惡魔の長に籍るなり、と云ひ居れり。
किन्तु फिरूशिनः कथयाञ्चक्रुः भूताधिपतिना स भूतान् त्याजयति।
35 第四款 イエズス及使徒等のガリレア布教 イエズス諸の町村を歴巡り、其會堂に教を説き、[天]國の福音を宣べ、且諸の病、諸の患を醫し居給ひしが、
ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।
36 群衆を見て、其難みて牧者なき羊の如く臥せるを憐み給へり。
अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,
37 然て弟子等に曰ひけるは、収穫は多けれども働く者は少し、
शस्यानि प्रचुराणि सन्ति, किन्तु छेत्तारः स्तोकाः।
38 故に働く者を其収穫に遣はさん事を、収穫の主に願へ、と。
क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।

< マタイの福音書 9 >