< マタイの福音書 8 >

1 第三款 ガリレアに於る種々の奇蹟 イエズス山を下り給ひしに、群衆夥しく從ひしが、
यदा स पर्व्वताद् अवारोहत् तदा बहवो मानवास्तत्पश्चाद् वव्रजुः।
2 折しも、一人の癩病者來り、拝して云ひけるは、主よ、思召ならば我を潔くすることを得給ふ、と。
एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
3 イエズス、手を伸べて彼に触れ、我意なり潔くなれ、と曰ひければ、其癩病直に潔くなれり。
ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।
4 イエズス之に曰ひけるは、慎みて人に語る勿れ、但往きて己を司祭に見せ、彼等への證據として、モイゼの命ぜし禮物を献げよ、と。
ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
5 斯てイエズスカファルナウムに入り給ひしが、百夫長近づきて、
तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,
6 願ひて云ひけるは、主よ、我僕癱瘋にて家に臥し、甚く苦しめり、と。
हे प्रभो, मदीय एको दासः पक्षाघातव्याधिना भृशं व्यथितः, सतु शयनीय आस्ते।
7 イエズス、我往きて其を醫さん、と曰ひしかば、
तदानीं यीशुस्तस्मै कथितवान्, अहं गत्वा तं निरामयं करिष्यामि।
8 百夫長答へて云ひけるは、主よ、我は不肖にして、主の我屋根の下に入り給ふに足らず、唯一言にて命じ給へ、然らば我僕痊えん。
ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वाङ्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति।
9 蓋我も人の権下に立つ者ながら、部下に兵卒ありて、此に往けと云へば往き、彼に來れ[と云へば]來り、又我僕に是を為せ[と云へば]為すなり、と。
यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।
10 イエズス之を聞きて感嘆し、從へる者に曰ひけるは、我誠に汝等に告ぐ、イスラエルの中にても、斯程の信仰に遇ひし事なし。
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
11 我汝等に告ぐ、多くの人東西より來りて、アブラハムイザアクヤコブと共に天國に坐せん、
अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;
12 然れど國の子等は外の暗に逐出されん、其處には痛哭と切歯とあらん、と。
किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।
13 斯てイエズス百夫長に向ひ、往け、汝の信ぜし如く汝に成れ、と曰ひければ僕即時に痊えたり。
ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो मङ्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।
14 イエズスペトロの家に入り給ひて、彼が姑の熱を病みて臥せるを見、
अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षाञ्चक्रे।
15 其手に触れ給ひしかば、熱其身を去り、起きて彼等に給仕したり。
ततस्तेन तस्याः करस्य स्पृष्टतवात् ज्वरस्तां तत्याज, तदा सा समुत्थाय तान् सिषेवे।
16 日暮れて後、人々惡魔に憑かれたる者を多く差出ししが、イエズス惡魔を一言にて逐払い、病者をも悉く醫し給へり。
अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;
17 是預言者イザヤによりて云はれし事の成就せん為なり、曰く「彼は我等の患を受け、我等の病を負ひ給へり」と。
तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।
18 イエズス周圍に群衆の夥しきを見て、湖の彼方へ往かん事を命じ給ひしかば、
अनन्तरं यीशुश्चतुर्दिक्षु जननिवहं विलोक्य तटिन्याः पारं यातुं शिष्यान् आदिदेश।
19 一人の律法學士近づきて、師よ、何處へ往き給ふとも我は從はん、と云ひしに、
तदानीम् एक उपाध्याय आगत्य कथितवान्, हे गुरो, भवान् यत्र यास्यति तत्राहमपि भवतः पश्चाद् यास्यामि।
20 イエズス是に曰ひけるは、狐は穴あり空の鳥は巣あり、然れど人の子は枕する處なし、と。
ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
21 又弟子の一人、主よ、我が先往きて父を葬る事を允し給へ、と云ひしに、
अनन्तरम् अपर एकः शिष्यस्तं बभाषे, हे प्रभो, प्रथमतो मम पितरं श्मशाने निधातुं गमनार्थं माम् अनुमन्यस्व।
22 イエズス曰ひけるは、我に從へ、死人をして其死人を葬らしめよ、と。
ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।
23 イエズス小舟に乗り給ひ、弟子等之に從ひしが、
अनन्तरं तस्मिन् नावमारूढे तस्य शिष्यास्तत्पश्चात् जग्मुः।
24 折しも湖に大なる暴嵐起りて、小舟涛に蔽はるる程なるに、イエズスは眠り居給へり。
पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
25 弟子等近づきて之を起し、主よ、我等を救ひ給へ、我等亡ぶ、と云ひければ、
तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।
26 イエズス彼等に曰ひけるは、何ぞ怖るるや、信仰薄き者よ、と。即起て風と湖とを戒め給ひしに、大凪となれり。
तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।
27 斯て人々感嘆して、是は何人ぞや、風も湖も是に從ふよ、と云へり。
अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।
28 イエズス湖の彼方なるゲラサ人の地に至り給ひしに、惡魔に憑かれたる者二人、墓より出でて迎へ來れり。豫てより其猛き事甚しく、誰も其途を過ぎ得ざる程なりしが、
अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्वौ भूतग्रस्तमनुजौ श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्तौ, तावेतादृशौ प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।
29 忽叫びて云ひけるは、神の御子イエズスよ、我等と汝と何の関係かあらん、期未至らざるに、我等を苦しめんとて此處に來り給へるか、と。
तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
30 然るに彼等を距る事遠からぬ處に、多くの豚の群物喰ひ居ければ、
तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्।
31 惡魔等イエズスに願ひて云ひけるは、若我等を此處より逐払い給はば、豚の群の中に遣り給へ、と。
ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।
32 イエズス彼等に、往け、と曰ひしかば、彼等出でて豚に憑き、見る見る群皆遽しく、崖より湖に飛入りて水に死せり。
तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।
33 牧者等逃げて町に至り、一切の事と惡魔に憑かれたりし人々の事とを吹聴せしかば、
ततो वराहरक्षकाः पलायमाना मध्येनगरं तौ भूतग्रस्तौ प्रति यद्यद् अघटत, ताः सर्व्ववार्त्ता अवदन्।
34 直に町挙りてイエズスを出迎へ、是を見るや其境を過ぎ給はん事を乞へり。
ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः तञ्च विलोक्य प्रार्थयाञ्चक्रिरे भवान् अस्माकं सीमातो यातु।

< マタイの福音書 8 >