< ལཱུཀཿ 1 >

1 པྲཐམཏོ ཡེ སཱཀྵིཎོ ཝཱཀྱཔྲཙཱརཀཱཤྩཱསན྄ ཏེ྅སྨཱཀཾ མདྷྱེ ཡདྱཏ྄ སཔྲམཱཎཾ ཝཱཀྱམརྤཡནྟི སྨ
प्रथमतो ये साक्षिणो वाक्यप्रचारकाश्चासन् तेऽस्माकं मध्ये यद्यत् सप्रमाणं वाक्यमर्पयन्ति स्म
2 ཏདནུསཱརཏོ྅ནྱེཔི བཧཝསྟདྭྲྀཏྟཱནྟཾ རཙཡིཏུཾ པྲཝྲྀཏྟཱཿ།
तदनुसारतोऽन्येपि बहवस्तद्वृत्तान्तं रचयितुं प्रवृत्ताः।
3 ཨཏཨེཝ ཧེ མཧཱམཧིམཐིཡཕིལ྄ ཏྭཾ ཡཱ ཡཱཿ ཀཐཱ ཨཤིཀྵྱཐཱསྟཱསཱཾ དྲྀཌྷཔྲམཱཎཱནི ཡཐཱ པྲཱཔྣོཥི
अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि
4 ཏདརྠཾ པྲཐམམཱརབྷྱ ཏཱནི སཪྻྭཱཎི ཛྙཱཏྭཱཧམཔི ཨནུཀྲམཱཏ྄ སཪྻྭཝྲྀཏྟཱནྟཱན྄ ཏུབྷྱཾ ལེཁིཏུཾ མཏིམཀཱརྵམ྄།
तदर्थं प्रथममारभ्य तानि सर्व्वाणि ज्ञात्वाहमपि अनुक्रमात् सर्व्ववृत्तान्तान् तुभ्यं लेखितुं मतिमकार्षम्।
5 ཡིཧཱུདཱདེཤཱིཡཧེརོདྣཱམཀེ རཱཛཏྭཾ ཀུཪྻྭཏི ཨབཱིཡཡཱཛཀསྱ པཪྻྱཱཡཱདྷིཀཱརཱི སིཁརིཡནཱམཀ ཨེཀོ ཡཱཛཀོ ཧཱརོཎཝཾཤོདྦྷཝཱ ཨིལཱིཤེཝཱཁྱཱ
यिहूदादेशीयहेरोद्नामके राजत्वं कुर्व्वति अबीययाजकस्य पर्य्यायाधिकारी सिखरियनामक एको याजको हारोणवंशोद्भवा इलीशेवाख्या
6 ཏསྱ ཛཱཡཱ དྭཱཝིམཽ ནིརྡོཥཽ པྲབྷོཿ སཪྻྭཱཛྙཱ ཝྱཝསྠཱཤྩ སཾམནྱ ཨཱིཤྭརདྲྀཥྚཽ དྷཱརྨྨིཀཱཝཱསྟཱམ྄།
तस्य जाया द्वाविमौ निर्दोषौ प्रभोः सर्व्वाज्ञा व्यवस्थाश्च संमन्य ईश्वरदृष्टौ धार्म्मिकावास्ताम्।
7 ཏཡོཿ སནྟཱན ཨེཀོཔི ནཱསཱིཏ྄, ཡཏ ཨིལཱིཤེཝཱ བནྡྷྱཱ ཏཽ དྭཱཝེཝ ཝྲྀདྡྷཱཝབྷཝཏཱམ྄།
तयोः सन्तान एकोपि नासीत्, यत इलीशेवा बन्ध्या तौ द्वावेव वृद्धावभवताम्।
8 ཡདཱ སྭཔཪྻྱཱནུཀྲམེཎ སིཁརིཡ ཨཱིཤྭཱསྱ སམཀྵཾ ཡཱཛཀཱིཡཾ ཀརྨྨ ཀརོཏི
यदा स्वपर्य्यानुक्रमेण सिखरिय ईश्वास्य समक्षं याजकीयं कर्म्म करोति
9 ཏདཱ ཡཛྙསྱ དིནཔརིཔཱཡྻཱ པརམེཤྭརསྱ མནྡིརེ པྲཝེཤཀཱལེ དྷཱུཔཛྭཱལནཾ ཀརྨྨ ཏསྱ ཀརཎཱིཡམཱསཱིཏ྄།
तदा यज्ञस्य दिनपरिपाय्या परमेश्वरस्य मन्दिरे प्रवेशकाले धूपज्वालनं कर्म्म तस्य करणीयमासीत्।
10 ཏདྡྷཱུཔཛྭཱལནཀཱལེ ལོཀནིཝཧེ པྲཱརྠནཱཾ ཀརྟུཾ བཧིསྟིཥྛཏི
तद्धूपज्वालनकाले लोकनिवहे प्रार्थनां कर्तुं बहिस्तिष्ठति
11 སཏི སིཁརིཡོ ཡསྱཱཾ ཝེདྱཱཾ དྷཱུཔཾ ཛྭཱལཡཏི ཏདྡཀྵིཎཔཱརྴྭེ པརམེཤྭརསྱ དཱུཏ ཨེཀ ཨུཔསྠིཏོ དརྴནཾ དདཽ།
सति सिखरियो यस्यां वेद्यां धूपं ज्वालयति तद्दक्षिणपार्श्वे परमेश्वरस्य दूत एक उपस्थितो दर्शनं ददौ।
12 ཏཾ དྲྀཥྚྭཱ སིཁརིཡ ཨུདྭིཝིཛེ ཤཤངྐེ ཙ།
तं दृष्ट्वा सिखरिय उद्विविजे शशङ्के च।
13 ཏདཱ ས དཱུཏསྟཾ བབྷཱཥེ ཧེ སིཁརིཡ མཱ བྷཻསྟཝ པྲཱརྠནཱ གྲཱཧྱཱ ཛཱཏཱ ཏཝ བྷཱཪྻྱཱ ཨིལཱིཤེཝཱ པུཏྲཾ པྲསོཥྱཏེ ཏསྱ ནཱམ ཡོཧན྄ ཨིཏི ཀརིཥྱསི།
तदा स दूतस्तं बभाषे हे सिखरिय मा भैस्तव प्रार्थना ग्राह्या जाता तव भार्य्या इलीशेवा पुत्रं प्रसोष्यते तस्य नाम योेहन् इति करिष्यसि।
14 ཀིཉྩ ཏྭཾ སཱནནྡཿ སཧརྵཤྩ བྷཝིཥྱསི ཏསྱ ཛནྨནི བཧཝ ཨཱནནྡིཥྱནྟི ཙ།
किञ्च त्वं सानन्दः सहर्षश्च भविष्यसि तस्य जन्मनि बहव आनन्दिष्यन्ति च।
15 ཡཏོ ཧེཏོཿ ས པརམེཤྭརསྱ གོཙརེ མཧཱན྄ བྷཝིཥྱཏི ཏཐཱ དྲཱཀྵཱརསཾ སུརཱཾ ཝཱ ཀིམཔི ན པཱསྱཏི, ཨཔརཾ ཛནྨཱརབྷྱ པཝིཏྲེཎཱཏྨནཱ པརིཔཱུརྞཿ
यतो हेतोः स परमेश्वरस्य गोचरे महान् भविष्यति तथा द्राक्षारसं सुरां वा किमपि न पास्यति, अपरं जन्मारभ्य पवित्रेणात्मना परिपूर्णः
16 སན྄ ཨིསྲཱཡེལྭཾཤཱིཡཱན྄ ཨནེཀཱན྄ པྲབྷོཿ པརམེཤྭརསྱ མཱརྒམཱནེཥྱཏི།
सन् इस्रायेल्वंशीयान् अनेकान् प्रभोः परमेश्वरस्य मार्गमानेष्यति।
17 སནྟཱནཱན྄ པྲཏི པིཏྲྀཎཱཾ མནཱཾསི དྷརྨྨཛྙཱནཾ པྲཏྱནཱཛྙཱགྲཱཧིཎཤྩ པརཱཝརྟྟཡིཏུཾ, པྲབྷོཿ པརམེཤྭརསྱ སེཝཱརྠམ྄ ཨེཀཱཾ སཛྫིཏཛཱཏིཾ ཝིདྷཱཏུཉྩ ས ཨེལིཡརཱུཔཱཏྨཤཀྟིཔྲཱཔྟསྟསྱཱགྲེ གམིཥྱཏི།
सन्तानान् प्रति पितृणां मनांसि धर्म्मज्ञानं प्रत्यनाज्ञाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातुञ्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।
18 ཏདཱ སིཁརིཡོ དཱུཏམཝཱདཱིཏ྄ ཀཐམེཏད྄ ཝེཏྶྱཱམི? ཡཏོཧཾ ཝྲྀདྡྷོ མམ བྷཱཪྻྱཱ ཙ ཝྲྀདྡྷཱ།
तदा सिखरियो दूतमवादीत् कथमेतद् वेत्स्यामि? यतोहं वृद्धो मम भार्य्या च वृद्धा।
19 ཏཏོ དཱུཏཿ པྲཏྱུཝཱཙ པཤྱེཤྭརསྱ སཱཀྵཱདྭརྟྟཱི ཛིབྲཱཡེལྣཱམཱ དཱུཏོཧཾ ཏྭཡཱ སཧ ཀཐཱཾ གདིཏུཾ ཏུབྷྱམིམཱཾ ཤུབྷཝཱརྟྟཱཾ དཱཏུཉྩ པྲེཥིཏཿ།
ततो दूतः प्रत्युवाच पश्येश्वरस्य साक्षाद्वर्त्ती जिब्रायेल्नामा दूतोहं त्वया सह कथां गदितुं तुभ्यमिमां शुभवार्त्तां दातुञ्च प्रेषितः।
20 ཀིནྟུ མདཱིཡཾ ཝཱཀྱཾ ཀཱལེ ཕལིཥྱཏི ཏཏ྄ ཏྭཡཱ ན པྲཏཱིཏམ྄ ཨཏཿ ཀཱརཎཱད྄ ཡཱཝདེཝ ཏཱནི ན སེཏྶྱནྟི ཏཱཝཏ྄ ཏྭཾ ཝཀྟུཾམཤཀྟོ མཱུཀོ བྷཝ།
किन्तु मदीयं वाक्यं काले फलिष्यति तत् त्वया न प्रतीतम् अतः कारणाद् यावदेव तानि न सेत्स्यन्ति तावत् त्वं वक्तुंमशक्तो मूको भव।
21 ཏདཱནཱིཾ ཡེ ཡེ ལོཀཱཿ སིཁརིཡམཔཻཀྵནྟ ཏེ མདྷྱེམནྡིརཾ ཏསྱ བཧུཝིལམྦཱད྄ ཨཱཤྩཪྻྱཾ མེནིརེ།
तदानीं ये ये लोकाः सिखरियमपैक्षन्त ते मध्येमन्दिरं तस्य बहुविलम्बाद् आश्चर्य्यं मेनिरे।
22 ས བཧིརཱགཏོ ཡདཱ ཀིམཔི ཝཱཀྱཾ ཝཀྟུམཤཀྟཿ སངྐེཏཾ ཀྲྀཏྭཱ ནིཿཤབྡསྟསྱཽ ཏདཱ མདྷྱེམནྡིརཾ ཀསྱཙིད྄ དརྴནཾ ཏེན པྲཱཔྟམ྄ ཨིཏི སཪྻྭེ བུབུདྷིརེ།
स बहिरागतो यदा किमपि वाक्यं वक्तुमशक्तः सङ्केतं कृत्वा निःशब्दस्तस्यौ तदा मध्येमन्दिरं कस्यचिद् दर्शनं तेन प्राप्तम् इति सर्व्वे बुबुधिरे।
23 ཨནནྟརཾ ཏསྱ སེཝནཔཪྻྱཱཡེ སམྤཱུརྞེ སཏི ས ནིཛགེཧཾ ཛགཱམ།
अनन्तरं तस्य सेवनपर्य्याये सम्पूर्णे सति स निजगेहं जगाम।
24 ཀཏིཔཡདིནེཥུ གཏེཥུ ཏསྱ བྷཱཪྻྱཱ ཨིལཱིཤེཝཱ གརྦྦྷཝཏཱི བབྷཱུཝ
कतिपयदिनेषु गतेषु तस्य भार्य्या इलीशेवा गर्ब्भवती बभूव
25 པཤྩཱཏ྄ སཱ པཉྩམཱསཱན྄ སཾགོཔྱཱཀཐཡཏ྄ ལོཀཱནཱཾ སམཀྵཾ མམཱཔམཱནཾ ཁཎྜཡིཏུཾ པརམེཤྭརོ མཡི དྲྀཥྚིཾ པཱཏཡིཏྭཱ ཀརྨྨེདྲྀཤཾ ཀྲྀཏཝཱན྄།
पश्चात् सा पञ्चमासान् संगोप्याकथयत् लोकानां समक्षं ममापमानं खण्डयितुं परमेश्वरो मयि दृष्टिं पातयित्वा कर्म्मेदृशं कृतवान्।
26 ཨཔརཉྩ ཏསྱཱ གརྦྦྷསྱ ཥཥྛེ མཱསེ ཛཱཏེ གཱལཱིལྤྲདེཤཱིཡནཱསརཏྤུརེ
अपरञ्च तस्या गर्ब्भस्य षष्ठे मासे जाते गालील्प्रदेशीयनासरत्पुरे
27 དཱཡཱུདོ ཝཾཤཱིཡཱཡ ཡཱུཥཕྣཱམྣེ པུརུཥཱཡ ཡཱ མརིཡམྣཱམཀུམཱརཱི ཝཱགྡཏྟཱསཱིཏ྄ ཏསྱཱཿ སམཱིཔཾ ཛིབྲཱཡེལ྄ དཱུཏ ཨཱིཤྭརེཎ པྲཧིཏཿ།
दायूदो वंशीयाय यूषफ्नाम्ने पुरुषाय या मरियम्नामकुमारी वाग्दत्तासीत् तस्याः समीपं जिब्रायेल् दूत ईश्वरेण प्रहितः।
28 ས གཏྭཱ ཛགཱད ཧེ ཨཱིཤྭརཱནུགྲྀཧཱིཏཀནྱེ ཏཝ ཤུབྷཾ བྷཱུཡཱཏ྄ པྲབྷུཿ པརམེཤྭརསྟཝ སཧཱཡོསྟི ནཱརཱིཎཱཾ མདྷྱེ ཏྭམེཝ དྷནྱཱ།
स गत्वा जगाद हे ईश्वरानुगृहीतकन्ये तव शुभं भूयात् प्रभुः परमेश्वरस्तव सहायोस्ति नारीणां मध्ये त्वमेव धन्या।
29 ཏདཱནཱིཾ སཱ ཏཾ དྲྀཥྚྭཱ ཏསྱ ཝཱཀྱཏ ཨུདྭིཛྱ ཀཱིདྲྀཤཾ བྷཱཥཎམིདམ྄ ཨིཏི མནསཱ ཙིནྟཡཱམཱས།
तदानीं सा तं दृष्ट्वा तस्य वाक्यत उद्विज्य कीदृशं भाषणमिदम् इति मनसा चिन्तयामास।
30 ཏཏོ དཱུཏོ྅ཝདཏ྄ ཧེ མརིཡམ྄ བྷཡཾ མཱཀཱརྵཱིཿ, ཏྭཡི པརམེཤྭརསྱཱནུགྲཧོསྟི།
ततो दूतोऽवदत् हे मरियम् भयं माकार्षीः, त्वयि परमेश्वरस्यानुग्रहोस्ति।
31 པཤྱ ཏྭཾ གརྦྦྷཾ དྷྲྀཏྭཱ པུཏྲཾ པྲསོཥྱསེ ཏསྱ ནཱམ ཡཱིཤུརིཏི ཀརིཥྱསི།
पश्य त्वं गर्ब्भं धृत्वा पुत्रं प्रसोष्यसे तस्य नाम यीशुरिति करिष्यसि।
32 ས མཧཱན྄ བྷཝིཥྱཏི ཏཐཱ སཪྻྭེབྷྱཿ ཤྲེཥྛསྱ པུཏྲ ཨིཏི ཁྱཱསྱཏི; ཨཔརཾ པྲབྷུཿ པརམེཤྭརསྟསྱ པིཏུརྡཱཡཱུདཿ སིཾཧཱསནཾ ཏསྨཻ དཱསྱཏི;
स महान् भविष्यति तथा सर्व्वेभ्यः श्रेष्ठस्य पुत्र इति ख्यास्यति; अपरं प्रभुः परमेश्वरस्तस्य पितुर्दायूदः सिंहासनं तस्मै दास्यति;
33 ཏཐཱ ས ཡཱཀཱུབོ ཝཾཤོཔརི སཪྻྭདཱ རཱཛཏྭཾ ཀརིཥྱཏི, ཏསྱ རཱཛཏྭསྱཱནྟོ ན བྷཝིཥྱཏི། (aiōn g165)
तथा स याकूबो वंशोपरि सर्व्वदा राजत्वं करिष्यति, तस्य राजत्वस्यान्तो न भविष्यति। (aiōn g165)
34 ཏདཱ མརིཡམ྄ ཏཾ དཱུཏཾ བབྷཱཥེ ནཱཧཾ པུརུཥསངྒཾ ཀརོམི ཏརྷི ཀཐམེཏཏ྄ སམྦྷཝིཥྱཏི?
तदा मरियम् तं दूतं बभाषे नाहं पुरुषसङ्गं करोमि तर्हि कथमेतत् सम्भविष्यति?
35 ཏཏོ དཱུཏོ྅ཀཐཡཏ྄ པཝིཏྲ ཨཱཏྨཱ ཏྭཱམཱཤྲཱཡིཥྱཏི ཏཐཱ སཪྻྭཤྲེཥྛསྱ ཤཀྟིསྟཝོཔརི ཚཱཡཱཾ ཀརིཥྱཏི ཏཏོ ཧེཏོསྟཝ གརྦྦྷཱད྄ ཡཿ པཝིཏྲབཱལཀོ ཛནིཥྱཏེ ས ཨཱིཤྭརཔུཏྲ ཨིཏི ཁྱཱཏིཾ པྲཱཔྶྱཏི།
ततो दूतोऽकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स ईश्वरपुत्र इति ख्यातिं प्राप्स्यति।
36 ཨཔརཉྩ པཤྱ ཏཝ ཛྙཱཏིརིལཱིཤེཝཱ ཡཱཾ སཪྻྭེ བནྡྷྱཱམཝདན྄ ཨིདཱནཱིཾ སཱ ཝཱརྡྡྷཀྱེ སནྟཱནམེཀཾ གརྦྦྷེ྅དྷཱརཡཏ྄ ཏསྱ ཥཥྛམཱསོབྷཱུཏ྄།
अपरञ्च पश्य तव ज्ञातिरिलीशेवा यां सर्व्वे बन्ध्यामवदन् इदानीं सा वार्द्धक्ये सन्तानमेकं गर्ब्भेऽधारयत् तस्य षष्ठमासोभूत्।
37 ཀིམཔི ཀརྨྨ ནཱསཱདྷྱམ྄ ཨཱིཤྭརསྱ།
किमपि कर्म्म नासाध्यम् ईश्वरस्य।
38 ཏདཱ མརིཡམ྄ ཛགཱད, པཤྱ པྲབྷེརཧཾ དཱསཱི མཧྱཾ ཏཝ ཝཱཀྱཱནུསཱརེཎ སཪྻྭམེཏད྄ གྷཊཏཱམ྄; ཨནནཏརཾ དཱུཏསྟསྱཱཿ སམཱིཔཱཏ྄ པྲཏསྠེ།
तदा मरियम् जगाद, पश्य प्रभेरहं दासी मह्यं तव वाक्यानुसारेण सर्व्वमेतद् घटताम्; अननतरं दूतस्तस्याः समीपात् प्रतस्थे।
39 ཨཐ ཀཏིཔཡདིནཱཏ྄ པརཾ མརིཡམ྄ ཏསྨཱཏ྄ པཪྻྭཏམཡཔྲདེཤཱིཡཡིཧཱུདཱཡཱ ནགརམེཀཾ ཤཱིགྷྲཾ གཏྭཱ
अथ कतिपयदिनात् परं मरियम् तस्मात् पर्व्वतमयप्रदेशीययिहूदाया नगरमेकं शीघ्रं गत्वा
40 སིཁརིཡཡཱཛཀསྱ གྲྀཧཾ པྲཝིཤྱ ཏསྱ ཛཱཡཱམ྄ ཨིལཱིཤེཝཱཾ སམྦོདྷྱཱཝདཏ྄།
सिखरिययाजकस्य गृहं प्रविश्य तस्य जायाम् इलीशेवां सम्बोध्यावदत्।
41 ཏཏོ མརིཡམཿ སམྦོདྷནཝཱཀྱེ ཨིལཱིཤེཝཱཡཱཿ ཀརྞཡོཿ པྲཝིཥྚམཱཏྲེ སཏི ཏསྱཱ གརྦྦྷསྠབཱལཀོ ནནརྟྟ། ཏཏ ཨིལཱིཤེཝཱ པཝིཏྲེཎཱཏྨནཱ པརིཔཱུརྞཱ སཏཱི
ततो मरियमः सम्बोधनवाक्ये इलीशेवायाः कर्णयोः प्रविष्टमात्रे सति तस्या गर्ब्भस्थबालको ननर्त्त। तत इलीशेवा पवित्रेणात्मना परिपूर्णा सती
42 པྲོཙྩཻརྒདིཏུམཱརེབྷེ, ཡོཥིཏཱཾ མདྷྱེ ཏྭམེཝ དྷནྱཱ, ཏཝ གརྦྦྷསྠཿ ཤིཤུཤྩ དྷནྱཿ།
प्रोच्चैर्गदितुमारेभे, योषितां मध्ये त्वमेव धन्या, तव गर्ब्भस्थः शिशुश्च धन्यः।
43 ཏྭཾ པྲབྷོརྨཱཏཱ, མམ ནིཝེཤནེ ཏྭཡཱ ཙརཎཱཝརྤིཏཽ, མམཱདྱ སཽབྷཱགྱམེཏཏ྄།
त्वं प्रभोर्माता, मम निवेशने त्वया चरणावर्पितौ, ममाद्य सौभाग्यमेतत्।
44 པཤྱ ཏཝ ཝཱཀྱེ མམ ཀརྞཡོཿ པྲཝིཥྚམཱཏྲེ སཏི མམོདརསྠཿ ཤིཤུརཱནནྡཱན྄ ནནརྟྟ།
पश्य तव वाक्ये मम कर्णयोः प्रविष्टमात्रे सति ममोदरस्थः शिशुरानन्दान् ननर्त्त।
45 ཡཱ སྟྲཱི ཝྱཤྭསཱིཏ྄ སཱ དྷནྱཱ, ཡཏོ ཧེཏོསྟཱཾ པྲཏི པརམེཤྭརོཀྟཾ ཝཱཀྱཾ སཪྻྭཾ སིདྡྷཾ བྷཝིཥྱཏི།
या स्त्री व्यश्वसीत् सा धन्या, यतो हेतोस्तां प्रति परमेश्वरोक्तं वाक्यं सर्व्वं सिद्धं भविष्यति।
46 ཏདཱནཱིཾ མརིཡམ྄ ཛགཱད། དྷནྱཝཱདཾ པརེཤསྱ ཀརོཏི མཱམཀཾ མནཿ།
तदानीं मरियम् जगाद। धन्यवादं परेशस्य करोति मामकं मनः।
47 མམཱཏྨཱ ཏཱརཀེཤེ ཙ སམུལླཱསཾ པྲགཙྪཏི།
ममात्मा तारकेशे च समुल्लासं प्रगच्छति।
48 ཨཀརོཏ྄ ས པྲབྷུ རྡུཥྚིཾ སྭདཱསྱཱ དུརྒཏིཾ པྲཏི། པཤྱཱདྱཱརབྷྱ མཱཾ དྷནྱཱཾ ཝཀྵྱནྟི པུརུཥཱཿ སདཱ།
अकरोत् स प्रभु र्दुष्टिं स्वदास्या दुर्गतिं प्रति। पश्याद्यारभ्य मां धन्यां वक्ष्यन्ति पुरुषाः सदा।
49 ཡཿ སཪྻྭཤཀྟིམཱན྄ ཡསྱ ནཱམཱཔི ཙ པཝིཏྲཀཾ། ས ཨེཝ སུམཧཏྐརྨྨ ཀྲྀཏཝཱན྄ མནྣིམིཏྟཀཾ།
यः सर्व्वशक्तिमान् यस्य नामापि च पवित्रकं। स एव सुमहत्कर्म्म कृतवान् मन्निमित्तकं।
50 ཡེ བིབྷྱཏི ཛནཱསྟསྨཱཏ྄ ཏེཥཱཾ སནྟཱནཔཾཀྟིཥུ། ཨནུཀམྤཱ ཏདཱིཡཱ ཙ སཪྻྭདཻཝ སུཏིཥྛཏི།
ये बिभ्यति जनास्तस्मात् तेषां सन्तानपंक्तिषु। अनुकम्पा तदीया च सर्व्वदैव सुतिष्ठति।
51 སྭབཱཧུབལཏསྟེན པྲཱཀཱཤྱཏ པརཱཀྲམཿ། མནཿཀུམནྟྲཎཱསཱརྡྡྷཾ ཝིཀཱིཪྻྱནྟེ྅བྷིམཱནིནཿ།
स्वबाहुबलतस्तेन प्राकाश्यत पराक्रमः। मनःकुमन्त्रणासार्द्धं विकीर्य्यन्तेऽभिमानिनः।
52 སིཾཧཱསནགཏཱལློཀཱན྄ བལིནཤྩཱཝརོཧྱ སཿ། པདེཥཱུཙྩེཥུ ལོཀཱཾསྟུ ཀྵུདྲཱན྄ སཾསྠཱཔཡཏྱཔི།
सिंहासनगताल्लोकान् बलिनश्चावरोह्य सः। पदेषूच्चेषु लोकांस्तु क्षुद्रान् संस्थापयत्यपि।
53 ཀྵུདྷིཏཱན྄ མཱནཝཱན྄ དྲཝྱཻརུཏྟམཻཿ པརིཏརྤྱ སཿ། སཀལཱན྄ དྷནིནོ ལོཀཱན྄ ཝིསྲྀཛེད྄ རིཀྟཧསྟཀཱན྄།
क्षुधितान् मानवान् द्रव्यैरुत्तमैः परितर्प्य सः। सकलान् धनिनो लोकान् विसृजेद् रिक्तहस्तकान्।
54 ཨིབྲཱཧཱིམི ཙ ཏདྭཾཤེ ཡཱ དཡཱསྟི སདཻཝ ཏཱཾ། སྨྲྀཏྭཱ པུརཱ པིཏྲྀཎཱཾ ནོ ཡཐཱ སཱཀྵཱཏ྄ པྲཏིཤྲུཏཾ། (aiōn g165)
इब्राहीमि च तद्वंशे या दयास्ति सदैव तां। स्मृत्वा पुरा पितृणां नो यथा साक्षात् प्रतिश्रुतं। (aiōn g165)
55 ཨིསྲཱཡེལྶེཝཀསྟེན ཏཐོཔཀྲིཡཏེ སྭཡཾ༎
इस्रायेल्सेवकस्तेन तथोपक्रियते स्वयं॥
56 ཨནནྟརཾ མརིཡམ྄ པྲཱཡེཎ མཱསཏྲཡམ྄ ཨིལཱིཤེཝཡཱ སཧོཥིཏྭཱ ཝྱཱགྷུཡྻ ནིཛནིཝེཤནཾ ཡཡཽ།
अनन्तरं मरियम् प्रायेण मासत्रयम् इलीशेवया सहोषित्वा व्याघुय्य निजनिवेशनं ययौ।
57 ཏདནནྟརམ྄ ཨིལཱིཤེཝཱཡཱཿ པྲསཝཀཱལ ཨུཔསྠིཏེ སཏི སཱ པུཏྲཾ པྲཱསོཥྚ།
तदनन्तरम् इलीशेवायाः प्रसवकाल उपस्थिते सति सा पुत्रं प्रासोष्ट।
58 ཏཏཿ པརམེཤྭརསྟསྱཱཾ མཧཱནུགྲཧཾ ཀྲྀཏཝཱན྄ ཨེཏཏ྄ ཤྲུཏྭཱ སམཱིཔཝཱསིནཿ ཀུཊུམྦཱཤྩཱགཏྱ ཏཡཱ སཧ མུམུདིརེ།
ततः परमेश्वरस्तस्यां महानुग्रहं कृतवान् एतत् श्रुत्वा समीपवासिनः कुटुम्बाश्चागत्य तया सह मुमुदिरे।
59 ཏཐཱཥྚམེ དིནེ ཏེ བཱལཀསྱ ཏྭཙཾ ཚེཏྟུམ྄ ཨེཏྱ ཏསྱ པིཏྲྀནཱམཱནུརཱུཔཾ ཏནྣཱམ སིཁརིཡ ཨིཏི ཀརྟྟུམཱིཥུཿ།
तथाष्टमे दिने ते बालकस्य त्वचं छेत्तुम् एत्य तस्य पितृनामानुरूपं तन्नाम सिखरिय इति कर्त्तुमीषुः।
60 ཀིནྟུ ཏསྱ མཱཏཱཀཐཡཏ྄ ཏནྣ, ནཱམཱསྱ ཡོཧན྄ ཨིཏི ཀརྟྟཝྱམ྄།
किन्तु तस्य माताकथयत् तन्न, नामास्य योहन् इति कर्त्तव्यम्।
61 ཏདཱ ཏེ ཝྱཱཧརན྄ ཏཝ ཝཾཤམདྷྱེ ནཱམེདྲྀཤཾ ཀསྱཱཔི ནཱསྟི།
तदा ते व्याहरन् तव वंशमध्ये नामेदृशं कस्यापि नास्ति।
62 ཏཏཿ པརཾ ཏསྱ པིཏརཾ སིཁརིཡཾ པྲཏི སངྐེཏྱ པཔྲཙྪུཿ ཤིཤོཿ ཀིཾ ནཱམ ཀཱརིཥྱཏེ?
ततः परं तस्य पितरं सिखरियं प्रति सङ्केत्य पप्रच्छुः शिशोः किं नाम कारिष्यते?
63 ཏཏཿ ས ཕལཀམེཀཾ ཡཱཙིཏྭཱ ལིལེཁ ཏསྱ ནཱམ ཡོཧན྄ བྷཝིཥྱཏི། ཏསྨཱཏ྄ སཪྻྭེ ཨཱཤྩཪྻྱཾ མེནིརེ།
ततः स फलकमेकं याचित्वा लिलेख तस्य नाम योहन् भविष्यति। तस्मात् सर्व्वे आश्चर्य्यं मेनिरे।
64 ཏཏྐྵཎཾ སིཁརིཡསྱ ཛིཧྭཱཛཱཌྱེ྅པགཏེ ས མུཁཾ ཝྱཱདཱཡ སྤཥྚཝརྞམུཙྩཱཪྻྱ ཨཱིཤྭརསྱ གུཎཱནུཝཱདཾ ཙཀཱར།
तत्क्षणं सिखरियस्य जिह्वाजाड्येऽपगते स मुखं व्यादाय स्पष्टवर्णमुच्चार्य्य ईश्वरस्य गुणानुवादं चकार।
65 ཏསྨཱཙྩཏུརྡིཀྶྠཱཿ སམཱིཔཝཱསིལོཀཱ བྷཱིཏཱ ཨེཝམེཏཱཿ སཪྻྭཱཿ ཀཐཱ ཡིཧཱུདཱཡཱཿ པཪྻྭཏམཡཔྲདེཤསྱ སཪྻྭཏྲ པྲཙཱརིཏཱཿ།
तस्माच्चतुर्दिक्स्थाः समीपवासिलोका भीता एवमेताः सर्व्वाः कथा यिहूदायाः पर्व्वतमयप्रदेशस्य सर्व्वत्र प्रचारिताः।
66 ཏསྨཱཏ྄ ཤྲོཏཱརོ མནཿསུ སྠཱཔཡིཏྭཱ ཀཐཡཱམྦབྷཱུཝུཿ ཀཱིདྲྀཤོཡཾ བཱལོ བྷཝིཥྱཏི? ཨཐ པརམེཤྭརསྟསྱ སཧཱཡོབྷཱུཏ྄།
तस्मात् श्रोतारो मनःसु स्थापयित्वा कथयाम्बभूवुः कीदृशोयं बालो भविष्यति? अथ परमेश्वरस्तस्य सहायोभूत्।
67 ཏདཱ ཡོཧནཿ པིཏཱ སིཁརིཡཿ པཝིཏྲེཎཱཏྨནཱ པརིཔཱུརྞཿ སན྄ ཨེཏཱདྲྀཤཾ བྷཝིཥྱདྭཱཀྱཾ ཀཐཡཱམཱས།
तदा योहनः पिता सिखरियः पवित्रेणात्मना परिपूर्णः सन् एतादृशं भविष्यद्वाक्यं कथयामास।
68 ཨིསྲཱཡེལཿ པྲབྷུ ཪྻསྟུ ས དྷནྱཿ པརམེཤྭརཿ། ཨནུགྲྀཧྱ ནིཛཱལློཀཱན྄ ས ཨེཝ པརིམོཙཡེཏ྄།
इस्रायेलः प्रभु र्यस्तु स धन्यः परमेश्वरः। अनुगृह्य निजाल्लोकान् स एव परिमोचयेत्।
69 ཝིཔཀྵཛནཧསྟེབྷྱོ ཡཐཱ མོཙྱཱམཧེ ཝཡཾ། ཡཱཝཛྫཱིཝཉྩ དྷརྨྨེཎ སཱརལྱེན ཙ ནིརྦྷཡཱཿ།
विपक्षजनहस्तेभ्यो यथा मोच्यामहे वयं। यावज्जीवञ्च धर्म्मेण सारल्येन च निर्भयाः।
70 སེཝཱམཧཻ ཏམེཝཻཀམ྄ ཨེཏཏྐཱརཎམེཝ ཙ། སྭཀཱིཡཾ སུཔཝིཏྲཉྩ སཾསྨྲྀཏྱ ནིཡམཾ སདཱ།
सेवामहै तमेवैकम् एतत्कारणमेव च। स्वकीयं सुपवित्रञ्च संस्मृत्य नियमं सदा।
71 ཀྲྀཔཡཱ པུརུཥཱན྄ པཱུཪྻྭཱན྄ ནིཀཥཱརྠཱཏྟུ ནཿ པིཏུཿ། ཨིབྲཱཧཱིམཿ སམཱིཔེ ཡཾ ཤཔཐཾ ཀྲྀཏཝཱན྄ པུརཱ།
कृपया पुरुषान् पूर्व्वान् निकषार्थात्तु नः पितुः। इब्राहीमः समीपे यं शपथं कृतवान् पुरा।
72 ཏམེཝ སཕལཾ ཀརྟྟཾ ཏཐཱ ཤཏྲུགཎསྱ ཙ། ཨྲྀཏཱིཡཱཀཱརིཎཤྩཻཝ ཀརེབྷྱོ རཀྵཎཱཡ ནཿ།
तमेव सफलं कर्त्तं तथा शत्रुगणस्य च। ऋृतीयाकारिणश्चैव करेभ्यो रक्षणाय नः।
73 སྲྀཥྚེཿ པྲཐམཏཿ སྭཱིཡཻཿ པཝིཏྲཻ རྦྷཱཝིཝཱདིབྷིཿ། (aiōn g165)
सृष्टेः प्रथमतः स्वीयैः पवित्रै र्भाविवादिभिः। (aiōn g165)
74 ཡཐོཀྟཝཱན྄ ཏཐཱ སྭསྱ དཱཡཱུདཿ སེཝཀསྱ ཏུ།
यथोक्तवान् तथा स्वस्य दायूदः सेवकस्य तु।
75 ཝཾཤེ ཏྲཱཏཱརམེཀཾ ས སམུཏྤཱདིཏཝཱན྄ སྭཡམ྄།
वंशे त्रातारमेकं स समुत्पादितवान् स्वयम्।
76 ཨཏོ ཧེ བཱལཀ ཏྭནྟུ སཪྻྭེབྷྱཿ ཤྲེཥྛ ཨེཝ ཡཿ། ཏསྱཻཝ བྷཱཝིཝཱདཱིཏི པྲཝིཁྱཱཏོ བྷཝིཥྱསི། ཨསྨཱཀཾ ཙརཎཱན྄ ཀྵེམེ མཱརྒེ ཙཱལཡིཏུཾ སདཱ། ཨེཝཾ དྷྭཱནྟེ྅རྠཏོ མྲྀཏྱོཤྪཱཡཱཡཱཾ ཡེ ཏུ མཱནཝཱཿ།
अतो हे बालक त्वन्तु सर्व्वेभ्यः श्रेष्ठ एव यः। तस्यैव भाविवादीति प्रविख्यातो भविष्यसि। अस्माकं चरणान् क्षेमे मार्गे चालयितुं सदा। एवं ध्वान्तेऽर्थतो मृत्योश्छायायां ये तु मानवाः।
77 ཨུཔཝིཥྚཱསྟུ ཏཱནེཝ པྲཀཱཤཡིཏུམེཝ ཧི། ཀྲྀཏྭཱ མཧཱནུཀམྤཱཾ ཧི ཡཱམེཝ པརམེཤྭརཿ།
उपविष्टास्तु तानेव प्रकाशयितुमेव हि। कृत्वा महानुकम्पां हि यामेव परमेश्वरः।
78 ཨཱུརྡྭྭཱཏ྄ སཱུཪྻྱམུདཱཡྻཻཝཱསྨབྷྱཾ པྲཱདཱཏྟུ དརྴནཾ། ཏཡཱནུཀམྤཡཱ སྭསྱ ལོཀཱནཱཾ པཱཔམོཙནེ།
ऊर्द्व्वात् सूर्य्यमुदाय्यैवास्मभ्यं प्रादात्तु दर्शनं। तयानुकम्पया स्वस्य लोकानां पापमोचने।
79 པརིཏྲཱཎསྱ ཏེབྷྱོ ཧི ཛྙཱནཝིཤྲཱཎནཱཡ ཙ། པྲབྷོ རྨཱརྒཾ པརིཥྐརྟྟུཾ ཏསྱཱགྲཱཡཱི བྷཝིཥྱསི༎
परित्राणस्य तेभ्यो हि ज्ञानविश्राणनाय च। प्रभो र्मार्गं परिष्कर्त्तुं तस्याग्रायी भविष्यसि॥
80 ཨཐ བཱལཀཿ ཤརཱིརེཎ བུདྡྷྱཱ ཙ ཝརྡྡྷིཏུམཱརེབྷེ; ཨཔརཉྩ ས ཨིསྲཱཡེལོ ཝཾཤཱིཡལོཀཱནཱཾ སམཱིཔེ ཡཱཝནྣ པྲཀཊཱིབྷཱུཏསྟཱསྟཱཝཏ྄ པྲཱནྟརེ ནྱཝསཏ྄།
अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपरञ्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।

< ལཱུཀཿ 1 >