< कलसिनः 3 >

1 यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं।
If then ye were raised together with Christ, seek the things that are above, where Christ is, seated on the right hand of God.
2 पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।
Set your mind on the things that are above, not on the things that are upon the earth.
3 यतो यूयं मृतवन्तो युष्माकं जीवितञ्च ख्रीष्टेन सार्द्धम् ईश्वरे गुप्तम् अस्ति।
For ye died, and your life is hid with Christ in God.
4 अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।
When Christ, [who is] our life, shall be manifested, then shall ye also with him be manifested in glory.
5 अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।
Mortify therefore your members which are upon the earth; fornication, uncleanness, passion, evil desire, and covetousness, the which is idolatry;
6 यत एतेभ्यः कर्म्मभ्य आज्ञालङ्घिनो लोकान् प्रतीश्वरस्य क्रोधो वर्त्तते।
for which things’ sake cometh the wrath of God upon the sons of disobedience;
7 पूर्व्वं यदा यूयं तान्युपाजीवत तदा यूयमपि तान्येवाचरत;
in the which ye also walked aforetime, when ye lived in these things.
8 किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।
But now put ye also away all these; anger, wrath, malice, railing, shameful speaking out of your mouth:
9 यूयं परस्परं मृषाकथां न वदत यतो यूयं स्वकर्म्मसहितं पुरातनपुरुषं त्यक्तवन्तः
lie not one to another; seeing that ye have put off the old man with his doings,
10 स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च।
and have put on the new man, which is being renewed unto knowledge after the image of him that created him:
11 तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।
where there cannot be Greek and Jew, circumcision and uncircumcision, barbarian, Scythian, bondman, freeman: but Christ is all, and in all.
12 अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।
Put on therefore, as God’s elect, holy and beloved, a heart of compassion, kindness, humility, meekness, longsuffering;
13 यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।
forbearing one another, and forgiving each other, if any man have a complaint against any; even as the Lord forgave you, so also do ye:
14 विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।
and above all these things [put on] love, which is the bond of perfectness.
15 यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।
And let the peace of Christ rule in your hearts, to the which also ye were called in one body; and be ye thankful.
16 ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
Let the word of Christ dwell in you richly in all wisdom; teaching and admonishing one another with psalms [and] hymns [and] spiritual songs, singing with grace in your hearts unto God.
17 वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।
And whatsoever ye do, in word or in deed, [do] all in the name of the Lord Jesus, giving thanks to God the Father through him.
18 हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते।
Wives, be in subjection to your husbands, as is fitting in the Lord.
19 हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं।
Husbands, love your wives, and be not bitter against them.
20 हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं।
Children, obey your parents in all things, for this is well-pleasing in the Lord.
21 हे पितरः, युष्माकं सन्ताना यत् कातरा न भवेयुस्तदर्थं तान् प्रति मा रोषयत।
Fathers, provoke not your children, that they be not discouraged.
22 हे दासाः, यूयं सर्व्वविषय ऐहिकप्रभूनाम् आज्ञाग्राहिणो भवत दृष्टिगोचरीयसेवया मानवेभ्यो रोचितुं मा यतध्वं किन्तु सरलान्तःकरणैः प्रभो र्भाीत्या कार्य्यं कुरुध्वं।
Servants, obey in all things them that are your masters according to the flesh; not with eyeservice, as men-pleasers, but in singleness of heart, fearing the Lord:
23 यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,
whatsoever ye do, work heartily, as unto the Lord, and not unto men;
24 यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।
knowing that from the Lord ye shall receive the recompense of the inheritance: ye serve the Lord Christ.
25 किन्तु यः कश्चिद् अनुचितं कर्म्म करोति स तस्यानुचितकर्म्मणः फलं लप्स्यते तत्र कोऽपि पक्षपातो न भविष्यति।
For he that doeth wrong shall receive again for the wrong that he hath done: and there is no respect of persons.

< कलसिनः 3 >