< ३ योहनः 1 >

1 प्राचीनो ऽहं सत्यमताद् यस्मिन् प्रीये तं प्रियतमं गायं प्रति पत्रं लिखामि।
The Elder to Gaius the beloved, whom I love in truth!
2 हे प्रिय, तवात्मा यादृक् शुभान्वितस्तादृक् सर्व्वविषये तव शुभं स्वास्थ्यञ्च भूयात्।
beloved, concerning all things I desire thee to prosper, and to be in health, even as thy soul doth prosper,
3 भ्रातृभिरागत्य तव सत्यमतस्यार्थतस्त्वं कीदृक् सत्यमतमाचरस्येतस्य साक्ष्ये दत्ते मम महानन्दो जातः।
for I rejoiced exceedingly, brethren coming and testifying of the truth in thee, even as thou in truth dost walk;
4 मम सन्तानाः सत्यमतमाचरन्तीतिवार्त्तातो मम य आनन्दो जायते ततो महत्तरो नास्ति।
greater than these things I have no joy, that I may hear of my children in truth walking.
5 हे प्रिय, भ्रातृन् प्रति विशेषतस्तान् विदेशिनो भृातृन् प्रति त्वया यद्यत् कृतं तत् सर्व्वं विश्वासिनो योग्यं।
Beloved, faithfully dost thou do whatever thou mayest work to the brethren and to the strangers,
6 ते च समितेः साक्षात् तव प्रम्नः प्रमाणं दत्तवन्तः, अपरम् ईश्वरयोग्यरूपेण तान् प्रस्थापयता त्वया सत्कर्म्म कारिष्यते।
who did testify of thy love before an assembly, whom thou wilt do well, having sent forward worthily of God,
7 यतस्ते तस्य नाम्ना यात्रां विधाय भिन्नजातीयेभ्यः किमपि न गृहीतवन्तः।
because for [His] name they went forth, nothing receiving from the nations;
8 तस्माद् वयं यत् सत्यमतस्य सहाया भवेम तदर्थमेतादृशा लोका अस्माभिरनुग्रहीतव्याः।
we, then, ought to receive such, that fellow-workers we may become to the truth.
9 समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।
I did write to the assembly, but he who is loving the first place among them — Diotrephes — doth not receive us;
10 अतो ऽहं यदोपस्थास्यामि तदा तेन यद्यत् क्रियते तत् सर्व्वं तं स्मारयिष्यामि, यतः स दुर्व्वाक्यैरस्मान् अपवदति, तेनापि तृप्तिं न गत्वा स्वयमपि भ्रातृन् नानुगृह्लाति ये चानुग्रहीतुमिच्छन्ति तान् समितितो ऽपि बहिष्करोति।
because of this, if I may come, I will cause him to remember his works that he doth, with evil words prating against us; and not content with these, neither doth he himself receive the brethren, and those intending he doth forbid, and out of the assembly he doth cast.
11 हे प्रिय, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।
Beloved, be not thou following that which is evil, but that which is good; he who is doing good, of God he is, and he who is doing evil hath not seen God;
12 दीमीत्रियस्य पक्षे सर्व्वैः साक्ष्यम् अदायि विशेषतः सत्यमतेनापि, वयमपि तत्पक्षे साक्ष्यं दद्मः, अस्माकञ्च साक्ष्यं सत्यमेवेति यूयं जानीथ।
to Demetrius testimony hath been given by all, and by the truth itself, and we also — we do testify, and ye have known that our testimony is true.
13 त्वां प्रति मया बहूनि लेखितव्यानि किन्तु मसीलेखनीभ्यां लेखितुं नेच्छामि।
Many things I had to write, but I do not wish through ink and pen to write to thee,
14 अचिरेण त्वां द्रक्ष्यामीति मम प्रत्याशास्ते तदावां सम्मुखीभूय परस्परं सम्भाषिष्यावहे। तव शान्ति र्भूयात्। अस्माकं मित्राणि त्वां नमस्कारं ज्ञापयन्ति त्वमप्येकैकस्य नाम प्रोच्य मित्रेभ्यो नमस्कुरु। इति।
and I hope straightway to see thee, and mouth to mouth we shall speak. Peace to thee! salute thee do the friends; be saluting the friends by name.

< ३ योहनः 1 >