< १ करिन्थिनः 1 >

1 यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते
To the church of God in Corinth, to those who have been consecrated by union with Christ Jesus and called to become his people, and also to all, wherever they may be, who invoke the name of our Lord Jesus Christ – their Master and ours,
2 तं प्रतीश्वरस्येच्छयाहूतो यीशुख्रीष्टस्य प्रेरितः पौलः सोस्थिनिनामा भ्राता च पत्रं लिखति।
from Paul, who has been called to be an apostle of Jesus Christ by the will of God, and from Sosthenes, our fellow follower of the Lord.
3 अस्माकं पित्रेश्वरेण प्रभुना यीशुख्रीष्टेन च प्रसादः शान्तिश्च युष्मभ्यं दीयतां।
May God, our Father, and the Lord Jesus Christ bless you and give you peace.
4 ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि।
I always thank God for you. I thank him for the blessing bestowed on you in Christ Jesus.
5 ख्रीष्टसम्बन्धीयं साक्ष्यं युष्माकं मध्ये येन प्रकारेण सप्रमाणम् अभवत्
For through union with him you were enriched in every way – in your power to preach, and in your knowledge of the truth;
6 तेन यूयं ख्रीष्टात् सर्व्वविधवक्तृताज्ञानादीनि सर्व्वधनानि लब्धवन्तः।
and so became yourselves a confirmation of my testimony to the Christ.
7 ततोऽस्मत्प्रभो र्यीशुख्रीष्टस्य पुनरागमनं प्रतीक्षमाणानां युष्माकं कस्यापि वरस्याभावो न भवति।
There is no gift in which you are deficient, while waiting for our Lord Jesus Christ to be revealed.
8 अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।
And God himself will strengthen you to the end, so that at the day of our Lord Jesus Christ you may be found blameless.
9 य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।
God will not fail you, and it is he who called you into communion with his Son, Jesus Christ, our Lord.
10 हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।
But I appeal to you, my friends, by the name of our Lord Jesus Christ, to agree in what you profess, and not to allow divisions to exist among you, but to be united – of one mind and of one opinion.
11 हे मम भ्रातरो युष्मन्मध्ये विवादा जाता इति वार्त्तामहं क्लोय्याः परिजनै र्ज्ञापितः।
For I have been informed, my friends, by the members of Chloe’s household, that party feeling exists among you.
12 ममाभिप्रेतमिदं युष्माकं कश्चित् कश्चिद् वदति पौलस्य शिष्योऽहम् आपल्लोः शिष्योऽहं कैफाः शिष्योऽहं ख्रीष्टस्य शिष्योऽहमिति च।
I mean this: that every one of you says either “I follow Paul,” or “I Apollos,” or “I Cephas,” or “I Christ.”
13 ख्रीष्टस्य किं विभेदः कृतः? पौलः किं युष्मत्कृते क्रुशे हतः? पौलस्य नाम्ना वा यूयं किं मज्जिताः?
You have torn the Christ in pieces! Was it Paul who was crucified for you? Or were you baptized in the name of Paul?
14 क्रिष्पगायौ विना युष्माकं मध्येऽन्यः कोऽपि मया न मज्जित इति हेतोरहम् ईश्वरं धन्यं वदामि।
I am thankful that I did not baptize any of you except Crispus and Gaius,
15 एतेन मम नाम्ना मानवा मया मज्जिता इति वक्तुं केनापि न शक्यते।
so that no one can say that you were baptized in my name.
16 अपरं स्तिफानस्य परिजना मया मज्जितास्तदन्यः कश्चिद् यन्मया मज्जितस्तदहं न वेद्मि।
I baptized also the household of Stephanas. I do not know that I baptized anyone else.
17 ख्रीष्टेनाहं मज्जनार्थं न प्रेरितः किन्तु सुसंवादस्य प्रचारार्थमेव; सोऽपि वाक्पटुतया मया न प्रचारितव्यः, यतस्तथा प्रचारिते ख्रीष्टस्य क्रुशे मृत्युः फलहीनो भविष्यति।
My mission from Christ was not to baptize, but to tell the good news; not, however, in the language of philosophy, in case the cross of the Christ should be robbed of its meaning.
18 यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।
The message of the cross is indeed mere folly to those who are on the path to ruin, but to us who are on the path of salvation it is the power of God.
19 तस्मादित्थं लिखितमास्ते, ज्ञानवतान्तु यत् ज्ञानं तन्मया नाशयिष्यते। विलोपयिष्यते तद्वद् बुद्धि र्बद्धिमतां मया॥
For scripture says – “I will bring the philosophy of the philosophers to naught, and the shrewdness of the shrewd I will bring to nothing.”
20 ज्ञानी कुत्र? शास्त्री वा कुत्र? इहलोकस्य विचारतत्परो वा कुत्र? इहलोकस्य ज्ञानं किमीश्वरेण मोहीकृतं नहि? (aiōn g165)
Where is the philosopher? Where the teacher of the Law? Where the disputant of today? Has not God shown the world’s philosophy to be folly? (aiōn g165)
21 ईश्वरस्य ज्ञानाद् इहलोकस्य मानवाः स्वज्ञानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्।
For since the world, in God’s wisdom, did not by its philosophy learn to know God, God saw fit, by the “folly” of our proclamation, to save those who believe in Christ!
22 यिहूदीयलोका लक्षणानि दिदृक्षन्ति भिन्नदेशीयलोकास्तु विद्यां मृगयन्ते,
While Jews ask for miraculous signs, and Greeks study philosophy,
23 वयञ्च क्रुशे हतं ख्रीष्टं प्रचारयामः। तस्य प्रचारो यिहूदीयै र्विघ्न इव भिन्नदेशीयैश्च प्रलाप इव मन्यते,
we are proclaiming Christ crucified! – to the Jews an obstacle, to the Gentiles mere folly,
24 किन्तु यिहूदीयानां भिन्नदेशीयानाञ्च मध्ये ये आहूतास्तेषु स ख्रीष्ट ईश्वरीयशक्तिरिवेश्वरीयज्ञानमिव च प्रकाशते।
but to those who have received the call, whether Jews or Greeks, Christ, the power of God and the wisdom of God!
25 यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं ज्ञानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव।
For God’s “folly” is wiser than people, and God’s “weakness” is stronger than people.
26 हे भ्रातरः, आहूतयुष्मद्गणो यष्माभिरालोक्यतां तन्मध्ये सांसारिकज्ञानेन ज्ञानवन्तः पराक्रमिणो वा कुलीना वा बहवो न विद्यन्ते।
Look at the facts of your call, friends. There are not many among you who are wise, as people reckon wisdom, not many who are influential, not many who are high-born;
27 यत ईश्वरो ज्ञानवतस्त्रपयितुं मूर्खलोकान् रोचितवान् बलानि च त्रपयितुम् ईश्वरो दुर्ब्बलान् रोचितवान्।
but God chose what the world counts foolish to put its wise to shame, and God chose what the world counts weak to put its strong to shame,
28 तथा वर्त्तमानलोकान् संस्थितिभ्रष्टान् कर्त्तुम् ईश्वरो जगतोऽपकृष्टान् हेयान् अवर्त्तमानांश्चाभिरोचितवान्।
and God chose what the world counts poor and insignificant – things that to it are unreal – to bring its “realities” to nothing,
29 तत ईश्वरस्य साक्षात् केनाप्यात्मश्लाघा न कर्त्तव्या।
so that in his presence no one should boast.
30 यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।
But you, by your union with Christ Jesus, belong to God; and Christ, by God’s will, became not only our wisdom, but also our righteousness, holiness, and deliverance,
31 अतएव यद्वद् लिखितमास्ते तद्वत्, यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।
so that – in the words of scripture – “Whoever boasts should boast of the Lord!”

< १ करिन्थिनः 1 >