< 使徒の働き 7 >

1 大祭司は、「そのとおりか。」と尋ねた。
ततः परं महायाजकः पृष्टवान्, एषा कथां किं सत्या?
2 そこでステパノは言った。「兄弟たち、父たちよ。聞いてください。私たちの父祖アブラハムが、カランに住む以前まだメソポタミヤにいたとき、栄光の神が彼に現われて、
ततः स प्रत्यवदत्, हे पितरो हे भ्रातरः सर्व्वे लाका मनांसि निधद्ध्वं।अस्माकं पूर्व्वपुरुष इब्राहीम् हारण्नगरे वासकरणात् पूर्व्वं यदा अराम्-नहरयिमदेशे आसीत् तदा तेजोमय ईश्वरो दर्शनं दत्वा
3 『あなたの土地とあなたの親族を離れ、わたしがあなたに示す地に行け。』と言われました。
तमवदत् त्वं स्वदेशज्ञातिमित्राणि परित्यज्य यं देशमहं दर्शयिष्यामि तं देशं व्रज।
4 そこで、アブラハムはカルデヤ人の地を出て、カランに住みました。そして、父の死後、神は彼をそこから今あなたがたの住んでいるこの地にお移しになりましたが、
अतः स कस्दीयदेशं विहाय हारण्नगरे न्यवसत्, तदनन्तरं तस्य पितरि मृते यत्र देशे यूयं निवसथ स एनं देशमागच्छत्।
5 ここでは、足の踏み場となるだけのものさえも、相続財産として彼にお与えになりませんでした。それでも、子どももなかった彼に対して、この地を彼とその子孫に財産として与えることを約束されたのです。
किन्त्वीश्वरस्तस्मै कमप्यधिकारम् अर्थाद् एकपदपरिमितां भूमिमपि नाददात्; तदा तस्य कोपि सन्तानो नासीत् तथापि सन्तानैः सार्द्धम् एतस्य देशस्याधिकारी त्वं भविष्यसीति तम्प्रत्यङ्गीकृतवान्।
6 また神は次のようなことを話されました。『彼の子孫は外国に移り住み、四百年間、奴隷にされ、虐待される。』
ईश्वर इत्थम् अपरमपि कथितवान् तव सन्तानाः परदेशे निवत्स्यन्ति ततस्तद्देशीयलोकाश्चतुःशतवत्सरान् यावत् तान् दासत्वे स्थापयित्वा तान् प्रति कुव्यवहारं करिष्यन्ति।
7 そして、こう言われました。『彼らを奴隷にする国民は、わたしがさばく。その後、彼らはのがれ出て、この所で、わたしを礼拝する。』
अपरम् ईश्वर एनां कथामपि कथितवान्, ये लोकास्तान् दासत्वे स्थापयिष्यन्ति ताल्लोकान् अहं दण्डयिष्यामि, ततः परं ते बहिर्गताः सन्तो माम् अत्र स्थाने सेविष्यन्ते।
8 また神は、アブラハムに割礼の契約をお与えになりました。こうして、彼にイサクが生まれました。彼は八日目にイサクに割礼を施しました。それから、イサクにヤコブが生まれ、ヤコブに十二人の族長が生まれました。
पश्चात् स तस्मै त्वक्छेदस्य नियमं दत्तवान्, अत इस्हाकनाम्नि इब्राहीम एकपुत्रे जाते, अष्टमदिने तस्य त्वक्छेदम् अकरोत्। तस्य इस्हाकः पुत्रो याकूब्, ततस्तस्य याकूबोऽस्माकं द्वादश पूर्व्वपुरुषा अजायन्त।
9 族長たちはヨセフをねたんで、彼をエジプトに売りとばしました。しかし、神は彼とともにおられ、
ते पूर्व्वपुरुषा ईर्ष्यया परिपूर्णा मिसरदेशं प्रेषयितुं यूषफं व्यक्रीणन्।
10 あらゆる患難から彼を救い出し、エジプト王パロの前で、恵みと知恵をお与えになったので、パロは彼をエジプトと王の家全体を治める大臣に任じました。
किन्त्वीश्वरस्तस्य सहायो भूत्वा सर्व्वस्या दुर्गते रक्षित्वा तस्मै बुद्धिं दत्त्वा मिसरदेशस्य राज्ञः फिरौणः प्रियपात्रं कृतवान् ततो राजा मिसरदेशस्य स्वीयसर्व्वपरिवारस्य च शासनपदं तस्मै दत्तवान्।
11 ところが、エジプトとカナンとの全地にききんが起こり、大きな災難が襲って来たので、私たちの先祖たちには、食物がなくなりました。
तस्मिन् समये मिसर-किनानदेशयो र्दुर्भिक्षहेतोरतिक्लिष्टत्वात् नः पूर्व्वपुरुषा भक्ष्यद्रव्यं नालभन्त।
12 しかし、ヤコブはエジプトに穀物があると聞いて、初めに私たちの先祖たちを遣わしました。
किन्तु मिसरदेशे शस्यानि सन्ति, याकूब् इमां वार्त्तां श्रुत्वा प्रथमम् अस्माकं पूर्व्वपुरुषान् मिसरं प्रेषितवान्।
13 二回目のとき、ヨセフは兄弟たちに、自分のことを打ち明け、ヨセフの家族のことがパロに明らかになりました。
ततो द्वितीयवारगमने यूषफ् स्वभ्रातृभिः परिचितोऽभवत्; यूषफो भ्रातरः फिरौण् राजेन परिचिता अभवन्।
14 そこで、ヨセフは人をやって、父ヤコブと七十五人の全親族を呼び寄せました。
अनन्तरं यूषफ् भ्रातृगणं प्रेष्य निजपितरं याकूबं निजान् पञ्चाधिकसप्ततिसंख्यकान् ज्ञातिजनांश्च समाहूतवान्।
15 ヤコブはエジプトに下り、そこで彼も私たちの先祖たちも死にました。
तस्माद् याकूब् मिसरदेशं गत्वा स्वयम् अस्माकं पूर्व्वपुरुषाश्च तस्मिन् स्थानेऽम्रियन्त।
16 そしてシケムに運ばれ、かねてアブラハムがいくらかの金でシケムのハモルの子から買っておいた墓に葬られました。
ततस्ते शिखिमं नीता यत् श्मशानम् इब्राहीम् मुद्रादत्वा शिखिमः पितु र्हमोरः पुत्रेभ्यः क्रीतवान् तत्श्मशाने स्थापयाञ्चक्रिरे।
17 神がアブラハムにお立てになった約束の時が近づくにしたがって、民はエジプトの中にふえ広がり、
ततः परम् ईश्वर इब्राहीमः सन्निधौ शपथं कृत्वा यां प्रतिज्ञां कृतवान् तस्याः प्रतिज्ञायाः फलनसमये निकटे सति इस्रायेल्लोका सिमरदेशे वर्द्धमाना बहुसंख्या अभवन्।
18 ヨセフのことを知らない別の王がエジプトの王位につくときまで続きました。
शेषे यूषफं यो न परिचिनोति तादृश एको नरपतिरुपस्थाय
19 この王は、私たちの同胞に対して策略を巡らし、私たちの先祖を苦しめて、幼子を捨てさせ、生かしておけないようにしました。
अस्माकं ज्ञातिभिः सार्द्धं धूर्त्ततां विधाय पूर्व्वपुरुषान् प्रति कुव्यवहरणपूर्व्वकं तेषां वंशनाशनाय तेषां नवजातान् शिशून् बहि र्निरक्षेपयत्।
20 このようなときに、モーセが生まれたのです。彼は神の目にかなった、かわいらしい子で、三か月の間、父の家で育てられましたが、
एतस्मिन् समये मूसा जज्ञे, स तु परमसुन्दरोऽभवत् तथा पितृगृहे मासत्रयपर्य्यन्तं पालितोऽभवत्।
21 ついに捨てられたのをパロの娘が拾い上げ、自分の子として育てたのです。
किन्तु तस्मिन् बहिर्निक्षिप्ते सति फिरौणराजस्य कन्या तम् उत्तोल्य नीत्वा दत्तकपुत्रं कृत्वा पालितवती।
22 モーセはエジプト人のあらゆる学問を教え込まれ、ことばにもわざにも力がありました。
तस्मात् स मूसा मिसरदेशीयायाः सर्व्वविद्यायाः पारदृष्वा सन् वाक्ये क्रियायाञ्च शक्तिमान् अभवत्।
23 四十歳になったころ、モーセはその兄弟であるイスラエル人を、顧みる心を起こしました。
स सम्पूर्णचत्वारिंशद्वत्सरवयस्को भूत्वा इस्रायेलीयवंशनिजभ्रातृन् साक्षात् कर्तुं मतिं चक्रे।
24 そして、同胞のひとりが虐待されているのを見て、その人をかばい、エジプト人を打ち倒して、乱暴されているその人の仕返しをしました。
तेषां जनमेकं हिंसितं दृष्ट्वा तस्य सपक्षः सन् हिंसितजनम् उपकृत्य मिसरीयजनं जघान।
25 彼は、自分の手によって神が兄弟たちに救いを与えようとしておられることを、みなが理解してくれるものと思っていましたが、彼らは理解しませんでした。
तस्य हस्तेनेश्वरस्तान् उद्धरिष्यति तस्य भ्रातृगण इति ज्ञास्यति स इत्यनुमानं चकार, किन्तु ते न बुबुधिरे।
26 翌日彼は、兄弟たちが争っているところに現われ、和解させようとして、『あなたがたは、兄弟なのだ。それなのにどうしてお互いに傷つけ合っているのか。』と言いました。
तत्परे ऽहनि तेषाम् उभयो र्जनयो र्वाक्कलह उपस्थिते सति मूसाः समीपं गत्वा तयो र्मेलनं कर्त्तुं मतिं कृत्वा कथयामास, हे महाशयौ युवां भ्रातरौ परस्परम् अन्यायं कुतः कुरुथः?
27 すると、隣人を傷つけていた者が、モーセを押しのけてこう言いました。『だれがあなたを、私たちの支配者や裁判官にしたのか。
ततः समीपवासिनं प्रति यो जनोऽन्यायं चकार स तं दूरीकृत्य कथयामास, अस्माकमुपरि शास्तृत्वविचारयितृत्वपदयोः कस्त्वां नियुक्तवान्?
28 きのうエジプト人を殺したように、私も殺す気か。』
ह्यो यथा मिसरीयं हतवान् तथा किं मामपि हनिष्यसि?
29 このことばを聞いたモーセは、逃げてミデアンの地に身を寄せ、そこで男の子ふたりをもうけました。
तदा मूसा एतादृशीं कथां श्रुत्वा पलायनं चक्रे, ततो मिदियनदेशं गत्वा प्रवासी सन् तस्थौ, ततस्तत्र द्वौ पुत्रौ जज्ञाते।
30 四十年たったとき、御使いが、モーセに、シナイ山の荒野で柴の燃える炎の中に現われました。
अनन्तरं चत्वारिंशद्वत्सरेषु गतेषु सीनयपर्व्वतस्य प्रान्तरे प्रज्वलितस्तम्बस्य वह्निशिखायां परमेश्वरदूतस्तस्मै दर्शनं ददौ।
31 その光景を見たモーセは驚いて、それをよく見ようとして近寄ったとき、主の御声が聞こえました。
मूसास्तस्मिन् दर्शने विस्मयं मत्वा विशेषं ज्ञातुं निकटं गच्छति,
32 『わたしはあなたの先祖の神、アブラハム、イサク、ヤコブの神である。』そこで、モーセは震え上がり、見定める勇気もなくなりました。
एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव।
33 すると、主は彼にこう言われたのです。『あなたの足のくつを脱ぎなさい。あなたの立っている所は聖なる地である。
परमेश्वरस्तं जगाद, तव पादयोः पादुके मोचय यत्र तिष्ठसि सा पवित्रभूमिः।
34 わたしは、確かにエジプトにいるわたしの民の苦難を見、そのうめき声を聞いたので、彼らを救い出すために下って来た。さあ、行きなさい。わたしはあなたをエジプトに遣わそう。』
अहं मिसरदेशस्थानां निजलोकानां दुर्द्दशां नितान्तम् अपश्यं, तेषां कातर्य्योक्तिञ्च श्रुतवान् तस्मात् तान् उद्धर्त्तुम् अवरुह्यागमम्; इदानीम् आगच्छ मिसरदेशं त्वां प्रेषयामि।
35 『だれがあなたを支配者や裁判官にしたのか。』と言って人々が拒んだこのモーセを、神は柴の中で彼に現われた御使いの手によって、支配者また解放者としてお遣わしになったのです。
कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।
36 この人が、彼らを導き出し、エジプトの地で、紅海で、また四十年間荒野で、不思議なわざとしるしを行ないました。
स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय।
37 このモーセが、イスラエルの人々に、『神はあなたがたのために、私のようなひとりの預言者を、あなたがたの兄弟たちの中からお立てになる。』と言ったのです。
प्रभुः परमेश्वरो युष्माकं भ्रातृगणस्य मध्ये मादृशम् एकं भविष्यद्वक्तारम् उत्पादयिष्यति तस्य कथायां यूयं मनो निधास्यथ, यो जन इस्रायेलः सन्तानेभ्य एनां कथां कथयामास स एष मूसाः।
38 また、この人が、シナイ山で彼に語った御使いや私たちの先祖たちとともに、荒野の集会において、生けるみことばを授かり、あなたがたに与えたのです。
महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे।
39 ところが、私たちの先祖たちは彼に従うことを好まず、かえって彼を退け、エジプトをなつかしく思って、
अस्माकं पूर्व्वपुरुषास्तम् अमान्यं कत्वा स्वेभ्यो दूरीकृत्य मिसरदेशं परावृत्य गन्तुं मनोभिरभिलष्य हारोणं जगदुः,
40 『私たちに、先立って行く神々を作ってください。私たちをエジプトの地から導き出したモーセは、どうなったのかわかりませんから。』とアロンに言いました。
अस्माकम् अग्रेऽग्रे गन्तुुम् अस्मदर्थं देवगणं निर्म्माहि यतो यो मूसा अस्मान् मिसरदेशाद् बहिः कृत्वानीतवान् तस्य किं जातं तदस्माभि र्न ज्ञायते।
41 そのころ彼らは子牛を作り、この偶像に供え物をささげ、彼らの手で作った物を楽しんでいました。
तस्मिन् समये ते गोवत्साकृतिं प्रतिमां निर्म्माय तामुद्दिश्य नैवेद्यमुत्मृज्य स्वहस्तकृतवस्तुना आनन्दितवन्तः।
42 そこで、神は彼らに背を向け、彼らが天の星に仕えるままにされました。預言者たちの書に書いてあるとおりです。 『イスラエルの家よ。あなたがたは 荒野にいた四十年の間に、 ほふられた獣と供え物とを、 わたしにささげたことがあったか。
तस्माद् ईश्वरस्तेषां प्रति विमुखः सन् आकाशस्थं ज्योतिर्गणं पूजयितुं तेभ्योऽनुमतिं ददौ, यादृशं भविष्यद्वादिनां ग्रन्थेषु लिखितमास्ते, यथा, इस्रायेलीयवंशा रे चत्वारिंशत्समान् पुरा। महति प्रान्तरे संस्था यूयन्तु यानि च। बलिहोमादिकर्म्माणि कृतवन्तस्तु तानि किं। मां समुद्दिश्य युष्माभिः प्रकृतानीति नैव च।
43 あなたがたは、モロクの幕屋と ロンパの神の星をかついでいた。 それらは、あなたがたが拝むために 作った偶像ではないか。 それゆえ、わたしは、あなたがたを バビロンのかなたへ移す。』
किन्तु वो मोलकाख्यस्य देवस्य दूष्यमेव च। युष्माकं रिम्फनाख्याया देवतायाश्च तारका। एतयोरुभयो र्मूर्ती युष्माभिः परिपूजिते। अतो युष्मांस्तु बाबेलः पारं नेष्यामि निश्चितं।
44 私たちの先祖のためには、荒野にあかしの幕屋がありました。それは、見たとおりの形に造れとモーセに言われた方の命令どおりに、造られていました。
अपरञ्च यन्निदर्शनम् अपश्यस्तदनुसारेण दूष्यं निर्म्माहि यस्मिन् ईश्वरो मूसाम् एतद्वाक्यं बभाषे तत् तस्य निरूपितं साक्ष्यस्वरूपं दूष्यम् अस्माकं पूर्व्वपुरुषैः सह प्रान्तरे तस्थौ।
45 私たちの先祖は、この幕屋を次々に受け継いで、神が先祖たちの前から異邦人を追い払い、その領土を取らせてくださったときには、ヨシュアとともにそれを運び入れ、ついにダビデの時代となりました。
पश्चात् यिहोशूयेन सहितैस्तेषां वंशजातैरस्मत्पूर्व्वपुरुषैः स्वेषां सम्मुखाद् ईश्वरेण दूरीकृतानाम् अन्यदेशीयानां देशाधिकृतिकाले समानीतं तद् दूष्यं दायूदोधिकारं यावत् तत्र स्थान आसीत्।
46 ダビデは神の前に恵みをいただき、ヤコブの神のために御住まいを得たいと願い求めました。
स दायूद् परमेश्वरस्यानुग्रहं प्राप्य याकूब् ईश्वरार्थम् एकं दूष्यं निर्म्मातुं ववाञ्छ;
47 けれども、神のために家を建てたのはソロモンでした。
किन्तु सुलेमान् तदर्थं मन्दिरम् एकं निर्म्मितवान्।
48 しかし、いと高き方は、手で造った家にはお住みになりません。預言者が語っているとおりです。
तथापि यः सर्व्वोपरिस्थः स कस्मिंश्चिद् हस्तकृते मन्दिरे निवसतीति नहि, भविष्यद्वादी कथामेतां कथयति, यथा,
49 『主は言われる。 天はわたしの王座、 地はわたしの足の足台である。 あなたがたは、どのような家を わたしのために建てようとするのか。 わたしの休む所とは、どこか。
परेशो वदति स्वर्गो राजसिंहासनं मम। मदीयं पादपीठञ्च पृथिवी भवति ध्रुवं। तर्हि यूयं कृते मे किं प्रनिर्म्मास्यथ मन्दिरं। विश्रामाय मदीयं वा स्थानं किं विद्यते त्विह।
50 わたしの手が、これらのものを みな、造ったのではないか。』
सर्व्वाण्येतानि वस्तूनि किं मे हस्तकृतानि न॥
51 かたくなで、心と耳とに割礼を受けていない人たち。あなたがたは、先祖たちと同様に、いつも聖霊に逆らっているのです。
हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।
52 あなたがたの先祖が迫害しなかった預言者がだれかあったでしょうか。彼らは、正しい方が来られることを前もって宣べた人たちを殺したが、今はあなたがたが、この正しい方を裏切る者、殺す者となりました。
युष्माकं पूर्व्वपुरुषाः कं भविष्यद्वादिनं नाताडयन्? ये तस्य धार्म्मिकस्य जनस्यागमनकथां कथितवन्तस्तान् अघ्नन् यूयम् अधूना विश्वासघातिनो भूत्वा तं धार्म्मिकं जनम् अहत।
53 あなたがたは、御使いたちによって定められた律法を受けたが、それを守ったことはありません。」
यूयं स्वर्गीयदूतगणेन व्यवस्थां प्राप्यापि तां नाचरथ।
54 人々はこれを聞いて、はらわたが煮え返る思いで、ステパノに向かって歯ぎしりした。
इमां कथां श्रुत्वा ते मनःसु बिद्धाः सन्तस्तं प्रति दन्तघर्षणम् अकुर्व्वन्।
55 しかし、聖霊に満たされていたステパノは、天を見つめ、神の栄光と、神の右に立っておられるイエスとを見て、
किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;
56 こう言った。「見なさい。天が開けて、人の子が神の右に立っておられるのが見えます。」
पश्य, मेघद्वारं मुक्तम् ईश्वरस्य दक्षिणे स्थितं मानवसुतञ्च पश्यामि।
57 人々は大声で叫びながら、耳をおおい、いっせいにステパノに殺到した。
तदा ते प्रोच्चैः शब्दं कृत्वा कर्णेष्वङ्गुली र्निधाय एकचित्तीभूय तम् आक्रमन्।
58 そして彼を町の外に追い出して、石で打ち殺した。証人たちは、自分たちの着物をサウロという青年の足もとに置いた。
पश्चात् तं नगराद् बहिः कृत्वा प्रस्तरैराघ्नन् साक्षिणो लाकाः शौलनाम्नो यूनश्चरणसन्निधौ निजवस्त्राणि स्थापितवन्तः।
59 こうして彼らがステパノに石を投げつけていると、ステパノは主を呼んで、こう言った。「主イエスよ。私の霊をお受けください。」
अनन्तरं हे प्रभो यीशे मदीयमात्मानं गृहाण स्तिफानस्येति प्रार्थनवाक्यवदनसमये ते तं प्रस्तरैराघ्नन्।
60 そして、ひざまずいて、大声でこう叫んだ。「主よ。この罪を彼らに負わせないでください。」こう言って、眠りについた。
तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।

< 使徒の働き 7 >