< 使徒の働き 28 >

1 こうして救われてから、私たちは、ここがマルタと呼ばれる島であることを知った。
इत्थं सर्व्वेषु रक्षां प्राप्तेषु तत्रत्योपद्वीपस्य नाम मिलीतेति ते ज्ञातवन्तः।
2 島の人々は私たちに非常に親切にしてくれた。おりから雨が降りだして寒かったので、彼らは火をたいて私たちみなをもてなしてくれた。
असभ्यलोका यथेष्टम् अनुकम्पां कृत्वा वर्त्तमानवृष्टेः शीताच्च वह्निं प्रज्ज्वाल्यास्माकम् आतिथ्यम् अकुर्व्वन्।
3 パウロがひとかかえの柴をたばねて火にくべると、熱気のために、一匹のまむしがはい出して来て、彼の手に取りついた。
किन्तु पौल इन्धनानि संगृह्य यदा तस्मिन् अग्रौ निरक्षिपत्, तदा वह्नेः प्रतापात् एकः कृष्णसर्पो निर्गत्य तस्य हस्ते द्रष्टवान्।
4 島の人々は、この生き物がパウロの手から下がっているのを見て、「この人はきっと人殺しだ。海からはのがれたが、正義の女神はこの人を生かしてはおかないのだ。」と互いに話し合った。
तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।
5 しかし、パウロは、その生き物を火の中に振り落として、何の害も受けなかった。
किन्तु स हस्तं विधुन्वन् तं सर्पम् अग्निमध्ये निक्षिप्य कामपि पीडां नाप्तवान्।
6 島の人々は、彼が今にも、はれ上がって来るか、または、倒れて急死するだろうと待っていた。しかし、いくら待っても、彼に少しも変わった様子が見えないので、彼らは考えを変えて、「この人は神さまだ。」と言いだした。
ततो विषज्वालया एतस्य शरीरं स्फीतं भविष्यति यद्वा हठादयं प्राणान् त्यक्ष्यतीति निश्चित्य लोका बहुक्षणानि यावत् तद् द्रष्टुं स्थितवन्तः किन्तु तस्य कस्याश्चिद् विपदोऽघटनात् ते तद्विपरीतं विज्ञाय भाषितवन्त एष कश्चिद् देवो भवेत्।
7 さて、その場所の近くに、島の首長でポプリオという人の領地があった。彼はそこに私たちを招待して、三日間手厚くもてなしてくれた。
पुब्लियनामा जन एकस्तस्योपद्वीपस्याधिपतिरासीत् तत्र तस्य भूम्यादि च स्थितं। स जनोऽस्मान् निजगृहं नीत्वा सौजन्यं प्रकाश्य दिनत्रयं यावद् अस्माकं आतिथ्यम् अकरोत्।
8 たまたまポプリオの父が、熱病と下痢とで床に着いていた。そこでパウロは、その人のもとに行き、祈ってから、彼の上に手を置いて直してやった。
तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्।
9 このことがあってから、島のほかの病人たちも来て、直してもらった。
इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्।
10 それで彼らは、私たちを非常に尊敬し、私たちが出帆するときには、私たちに必要な品々を用意してくれた。
तस्मात्तेऽस्माकम् अतीव सत्कारं कृतवन्तः, विशेषतः प्रस्थानसमये प्रयोजनीयानि नानद्रव्याणि दत्तवन्तः।
11 三か月後に、私たちは、この島で冬を過ごしていた、船首にデオスクロイの飾りのある、アレキサンドリヤの船で出帆した。
इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।
12 シラクサに寄港して、三日間とどまり、
ततः प्रथमतः सुराकूसनगरम् उपस्थाय तत्र त्रीणि दिनानि स्थितवन्तः।
13 そこから回って、レギオンに着いた。一日たつと、南風が吹き始めたので、二日目にはポテオリに入港した。
तस्माद् आवृत्य रीगियनगरम् उपस्थिताः दिनैकस्मात् परं दक्षिणवयौ सानुकूल्ये सति परस्मिन् दिवसे पतियलीनगरम् उपातिष्ठाम।
14 ここで、私たちは兄弟たちに会い、勧められるままに彼らのところに七日間滞在した。こうして、私たちはローマに到着した。
ततोऽस्मासु तत्रत्यं भ्रातृगणं प्राप्तेषु ते स्वैः सार्द्धम् अस्मान् सप्त दिनानि स्थापयितुम् अयतन्त, इत्थं वयं रोमानगरम् प्रत्यगच्छाम।
15 私たちのことを聞いた兄弟たちは、ローマからアピオ・ポロとトレス・タベルネまで出迎えに来てくれた。パウロは彼らに会って、神に感謝し、勇気づけられた。
तस्मात् तत्रत्याः भ्रातरोऽस्माकम् आगमनवार्त्तां श्रुत्वा आप्पियफरं त्रिष्टावर्णीञ्च यावद् अग्रेसराः सन्तोस्मान् साक्षात् कर्त्तुम् आगमन्; तेषां दर्शनात् पौल ईश्वरं धन्यं वदन् आश्वासम् आप्तवान्।
16 私たちがローマにはいると、パウロは番兵付きで自分だけの家に住むことが許された。
अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्।
17 三日の後、パウロはユダヤ人のおもだった人たちを呼び集め、彼らが集まったときに、こう言った。「兄弟たち。私は、私の国民に対しても、先祖の慣習に対しても、何一つそむくことはしていないのに、エルサレムで囚人としてローマ人の手に渡されました。
दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।
18 ローマ人は私を取り調べましたが、私を死刑にする理由が何もなかったので、私を釈放しようと思ったのです。
रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;
19 ところが、ユダヤ人たちが反対したため、私はやむなくカイザルに上訴しました。それは、私の同胞を訴えようとしたのではありません。
किन्तु यिहूदिलोकानाम् आपत्त्या मया कैसरराजस्य समीपे विचारस्य प्रार्थना कर्त्तव्या जाता नोचेत् निजदेशीयलोकान् प्रति मम कोप्यभियोगो नास्ति।
20 このようなわけで、私は、あなたがたに会ってお話ししようと思い、お招きしました。私はイスラエルの望みのためにこの鎖につながれているのです。」
एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितुञ्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शुङ्खलेन बद्धोऽभवम्।
21 すると、彼らはこう言った。「私たちは、あなたのことについて、ユダヤから何の知らせも受けておりません。また、当地に来た兄弟たちの中で、あなたについて悪いことを告げたり、話したりした者はおりません。
तदा ते तम् अवादिषुः, यिहूदीयदेशाद् वयं त्वामधि किमपि पत्रं न प्राप्ता ये भ्रातरः समायातास्तेषां कोपि तव कामपि वार्त्तां नावदत् अभद्रमपि नाकथयच्च।
22 私たちは、あなたが考えておられることを、直接あなたから聞くのがよいと思っています。この宗派については、至る所で非難があることを私たちは知っているからです。」
तव मतं किमिति वयं त्वत्तः श्रोतुमिच्छामः। यद् इदं नवीनं मतमुत्थितं तत् सर्व्वत्र सर्व्वेषां निकटे निन्दितं जातम इति वयं जानीमः।
23 そこで、彼らは日を定めて、さらに大ぜいでパウロの宿にやって来た。彼は朝から晩まで語り続けた。神の国のことをあかしし、また、モーセの律法と預言者たちの書によって、イエスのことについて彼らを説得しようとした。
तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्।
24 ある人々は彼の語る事を信じたが、ある人々は信じようとしなかった。
केचित्तु तस्य कथां प्रत्यायन् केचित्तु न प्रत्यायन्;
25 こうして、彼らは、お互いの意見が一致せずに帰りかけたので、パウロは一言、次のように言った。「聖霊が預言者イザヤを通してあなたがたの先祖に語られたことは、まさにそのとおりでした。
एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा,
26 『この民のところに行って、告げよ。 あなたがたは確かに聞きはするが、 決して悟らない。 確かに見てはいるが、決してわからない。
"उपगत्य जनानेतान् त्वं भाषस्व वचस्त्विदं। कर्णैः श्रोष्यथ यूयं हि किन्तु यूयं न भोत्स्यथ। नेत्रै र्द्रक्ष्यथ यूयञ्च ज्ञातुं यूयं न शक्ष्यथ।
27 この民の心は鈍くなり、 その耳は遠く、 その目はつぶっているからである。 それは、彼らがその目で見、 その耳で聞き、 その心で悟って、立ち返り、 わたしにいやされることのないためである。』
ते मानुषा यथा नेत्रैः परिपश्यन्ति नैव हि। कर्णैः र्यथा न शृण्वन्ति बुध्यन्ते न च मानसैः। व्यावर्त्तयत्सु चित्तानि काले कुत्रापि तेषु वै। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां सन्ति स्थूला हि बुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः॥
28 ですから、承知しておいてください。神のこの救いは、異邦人に送られました。彼らは、耳を傾けるでしょう。」
अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत।
29 こうしてパウロは満二年の間、自費で借りた家に住み、たずねて来る人たちをみな迎えて、
एतादृश्यां कथायां कथितायां सत्यां यिहूदिनः परस्परं बहुविचारं कुर्व्वन्तो गतवन्तः।
इत्थं पौलः सम्पूर्णं वत्सरद्वयं यावद् भाटकीये वासगृहे वसन् ये लोकास्तस्य सन्निधिम् आगच्छन्ति तान् सर्व्वानेव परिगृह्लन्,
31 大胆に、少しも妨げられることなく、神の国を宣べ伝え、主イエス・キリストのことを教えた。
निर्विघ्नम् अतिशयनिःक्षोभम् ईश्वरीयराजत्वस्य कथां प्रचारयन् प्रभौ यीशौ ख्रीष्टे कथाः समुपादिशत्। इति॥

< 使徒の働き 28 >