< ヨハネの黙示録 17 >

1 第五項 大いなるバビロネの處罰 然て七の器を持てる七の天使の一來りて我に謂ひけるは、來れ、我汝に示すに、多くの水の上に坐せる大淫婦の宣告を以てせん。
तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः,
2 地上の諸國王之と姦淫を行ひ、地に住める人々其淫亂の酒に酔ひたりき、と。
यस्या व्यभिचारमदेन च पृथिवीनिवासिनो मत्ता अभवन् तस्या बहुतोयेषूपविष्टाया महावेश्याया दण्डम् अहं त्वां दर्शयामि।
3 斯て我氣を奪はれ、彼天使に荒野に携へられて見たるに、緋色の獣に乗りたる一人の婦あり、獣は渾身冒涜の名を以て覆はれ、七の頭と十の角あり。
ततो ऽहम् आत्मनाविष्टस्तेन दूतेन प्रान्तरं नीतस्तत्र निन्दानामभिः परिपूर्णं सप्तशिरोभि र्दशशृङ्गैश्च विशिष्टं सिन्दूरवर्णं पशुमुपविष्टा योषिदेका मया दृष्टा।
4 婦は緋色、紫色の服を着し、金、寳石、眞珠を以て身を飾り、手には憎むべきものと其淫亂の穢とに満てる金の器あり。
सा नारी कृष्णलोहितवर्णं सिन्दूरवर्णञ्च परिच्छदं धारयति स्वर्णमणिमुक्ताभिश्च विभूषितास्ति तस्याः करे घृणार्हद्रव्यैः स्वव्यभिचारजातमलैश्च परिपूर्ण एकः सुवर्णमयः कंसो विद्यते।
5 其額には書記されたる名あり、曰く「奥義、大いなるバビロネ、地上の淫婦等と憎むべきこととの母」と。
तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणाञ्च माता महाबाबिलिति नाम लिखितम् आस्ते।
6 此婦を見るに、諸聖人の血及びイエズスの殉教者等の血に酔へる者なれば、我之を見て大いに驚けり。
मम दृष्टिगोचरस्था सा नारी पवित्रलोकानां रुधिरेण यीशोः साक्षिणां रुधिरेण च मत्तासीत् तस्या दर्शनात् ममातिशयम् आश्चर्य्यज्ञानं जातं।
7 天使我に謂ひけるは、何の故に驚くぞ、我此婦の奥義と、七の頭、十の角ありて之を乗せたる獣の奥義とを汝に語らん。
ततः स दूतो माम् अवदत् कुतस्तवाश्चर्य्यज्ञानं जायते? अस्या योषितस्तद्वाहनस्य सप्तशिरोभि र्दशशृङ्गैश्च युक्तस्य पशोश्च निगूढभावम् अहं त्वां ज्ञापयामि।
8 汝の見し獣は曾て有りしも今在らず、後には底なき淵より上りて亡に至らん。地上に住みて世の開闢より以後生命の名簿に名を記されざる人々は、曾て有りしも今は在らずして後に顕るべき、彼獣を見て驚き怪しまん。 (Abyssos g12)
त्वया दृष्टो ऽसौ पशुरासीत् नेदानीं वर्त्तते किन्तु रसातलात् तेनोदेतव्यं विनाशश्च गन्तव्यः। ततो येषां नामानि जगतः सृष्टिकालम् आरभ्य जीवनपुस्तके लिखितानि न विद्यन्ते ते पृथिवीनिवासिनो भूतम् अवर्त्तमानमुपस्थास्यन्तञ्च तं पशुं दृष्ट्वाश्चर्य्यं मंस्यन्ते। (Abyssos g12)
9 是に於てか知識と穎敏とを要す。七の頭は婦の坐せる七の山なり、又七人の國王なり。
अत्र ज्ञानयुक्तया बुद्ध्या प्रकाशितव्यं। तानि सप्तशिरांसि तस्या योषित उपवेशनस्थानस्वरूपाः सप्तगिरयः सप्त राजानश्च सन्ति।
10 五人は既に倒れて一人は存し、尚一人は未來らず、來りたらん時は暫し留るべし。
तेषां पञ्च पतिता एकश्च वर्त्तमानः शेषश्चाद्याप्यनुपस्थितः स यदोपस्थास्यति तदापि तेनाल्पकालं स्थातव्यं।
11 曾て有りしも今は在らざる獣は其第八番にして七人より出でて亡に至るなり。
यः पशुरासीत् किन्त्विदानीं न वर्त्तते स एवाष्टमः, स सप्तानाम् एको ऽस्ति विनाशं गमिष्यति च।
12 又汝の見し十の角は十人の國王にして、彼等は未國を得ざれども、獣の後に一時王の如き権威を受くべく、
त्वया दृष्टानि दशशृङ्गाण्यपि दश राजानः सन्तिः, अद्यापि तै राज्यं न प्राप्तं किन्तु मुहूर्त्तमेकं यावत् पशुना सार्द्धं ते राजान इव प्रभुत्वं प्राप्स्यन्ति।
13 彼等は同一の計略を為し、己が能力と権威とを獣に付さん。
त एकमन्त्रणा भविष्यन्ति स्वकीयशक्तिप्रभावौ पशवे दास्यन्ति च।
14 彼等は羔と戰ふべく、而して羔は彼等に勝ち給ふべし。彼は諸主の主、諸王の王に在して、之と共に居る人々は、召されし者、選まれし者、忠實なる者なればなり、と。
ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च।
15 天使又我に謂ひけるは、淫婦の坐せる處に汝が見し水は、是諸國、諸民、諸語なり。
अपरं स माम् अवदत् सा वेश्या यत्रोपविशति तानि तोयानि लोका जनता जातयो नानाभाषावादिनश्च सन्ति।
16 又獣に於て汝が見し十の角は、遂に彼淫婦を憎み、之を悩まし且裸ならしめ、其肉を喰ひ、火を以て彼を焼盡すべし。
त्वया दृष्टानि दश शृङ्गाणि पशुश्चेमे तां वेश्याम् ऋतीयिष्यन्ते दीनां नग्नाञ्च करिष्यन्ति तस्या मांसानि भोक्ष्यन्ते वह्निना तां दाहयिष्यन्ति च।
17 蓋神彼等に御旨を行ふ事と、同一の計略を為して神の御言悉く成就するまで、己が國を獣に付す事とを志さしめ給ひしなり。
यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातुञ्च तेषां मनांसीश्वरेण प्रवर्त्तितानि।
18 又汝が見し婦は、地上の國王を司る大都會なり、と。
अपरं त्वया दृष्टा योषित् सा महानगरी या पृथिव्या राज्ञाम् उपरि राजत्वं कुरुते।

< ヨハネの黙示録 17 >