< マルコの福音書 16 >

1 安息日過ぎて後マグダレナ、マリアとヤコボの母マリアとサロメと往きて、イエズスに塗らんとて香料を買ひ、
अथ विश्रामवारे गते मग्दलीनी मरियम् याकूबमाता मरियम् शालोमी चेमास्तं मर्द्दयितुं सुगन्धिद्रव्याणि क्रीत्वा
2 一週の首の日に、朝早く出でて日既に昇れる頃墓に至り、
सप्ताहप्रथमदिनेऽतिप्रत्यूषे सूर्य्योदयकाले श्मशानमुपगताः।
3 誰か我等の為に墓の入口より石を転ばし退くべき、と互いに云ひ居りしが、
किन्तु श्मशानद्वारपाषाणोऽतिबृहन् तं कोऽपसारयिष्यतीति ताः परस्परं गदन्ति!
4 目を翔げて見れば、石は既に取除きてあり、其は甚だ巨いなるものなりき。
एतर्हि निरीक्ष्य पाषाणो द्वारो ऽपसारित इति ददृशुः।
5 斯て墓に入るに及びて、右の方に白き衣服を着たる少年の坐せるを見て、驚怖れしかば、
पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः।
6 彼婦人達に云ひけるは、怖るること勿れ。汝等は十字架に釘けられ給ひしナザレトのイエズスを尋ぬれども、彼は復活し給ひて、此處には在さず。其置かれ給ひし處を見よ。
सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।
7 但往きて、其弟子等とペテロとに至り、彼は汝等に先ちてガリレアに往き給ひ、曾て汝等に曰ひし如く、汝等彼處にて彼を見ん、と告げよ、と。
किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।
8 婦人等怖れ戰きつつ墳より逃出でしが、恐怖の為に何事をも人に語らざりき。
ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च।
9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) 然てイエズスは一週の首の日の朝復活し給ひて、先マグダレナ、マリアに現れ給ひしが、是曾て七個の惡魔を其身より逐出されし婦なり。
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।
10 彼往きて、イエズスと偕に在りし人々の哀哭きつつあるに告げしかど、
ततः सा गत्वा शोकरोदनकृद्भ्योऽनुगतलोकेभ्यस्तां वार्त्तां कथयामास।
11 彼等之を聞きて、イエズスが活きて此婦に見え給ひし事を信ぜざりき。
किन्तु यीशुः पुनर्जीवन् तस्यै दर्शनं दत्तवानिति श्रुत्वा ते न प्रत्ययन्।
12 其後彼等の中の二人、田舎に往かんとして歩む途中、イエズス異なる姿にて現れ給ひしを、
पश्चात् तेषां द्वायो र्ग्रामयानकाले यीशुरन्यवेशं धृत्वा ताभ्यां दर्शन ददौ!
13 彼等往きて他の人々に告げしかど、亦之をも信ぜざりき。
तावपि गत्वान्यशिष्येभ्यस्तां कथां कथयाञ्चक्रतुः किन्तु तयोः कथामपि ते न प्रत्ययन्।
14 最後にイエズス、彼十一人の會食せるに現れ給ひ、己が復活し給へるを見たる人々の言を信ぜざりしを以て、彼等の不信仰と、心の頑固なる事を咎め給へり。
शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।
15 斯て之に曰ひけるは、汝等、全世界に往きて、凡ての被造物に福音を宣べよ。
अथ तानाचख्यौ यूयं सर्व्वजगद् गत्वा सर्व्वजनान् प्रति सुसंवादं प्रचारयत।
16 信じ且洗せらるる人は救はれ、信ぜざる人は罪に定められん。
तत्र यः कश्चिद् विश्वस्य मज्जितो भवेत् स परित्रास्यते किन्तु यो न विश्वसिष्यति स दण्डयिष्यते।
17 然て信ずる人々には是等の徴伴はん、即ち彼等は我名によりて惡魔を逐払ひ、新しき言語を話し、
किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।
18 蛇を捕へ、死毒を飲むも身に害なく、病人に按手せば其病癒えん、と。
अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च।
19 彼等に語り給ひて後、主イエズス天に上げられ給ひて、神の右に坐し給ふ。
अथ प्रभुस्तानित्यादिश्य स्वर्गं नीतः सन् परमेश्वरस्य दक्षिण उपविवेश।
20 弟子等は出立して、徧く教を宣べしが、主力を加へ給ひて、伴へる徴によりて言を證し給ひたりき。
ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।

< マルコの福音書 16 >