< マルコの福音書 1 >

1 第一項 キリストの先駆者 神の御子イエズス、キリストの福音の始。
ईश्वरपुत्रस्य यीशुख्रीष्टस्य सुसंवादारम्भः।
2 預言者イザヤ[の書]に録して、「看よ我わが使を汝の面前に遣はさん、彼汝の前に汝の道を備ふべし。
भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते, पश्य स्वकीयदूतन्तु तवाग्रे प्रेषयाम्यहम्। गत्वा त्वदीयपन्थानं स हि परिष्करिष्यति।
3 荒野に呼はる人の聲ありて、曰く、汝等主の道を備へよ、其徑を直くせよ」とあるが如く、
"परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।" इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद्रवः॥
4 ヨハネ荒野に在りて洗し、且罪を赦されん為に、改心の洗禮を受けん事を宣教へしが、
सएव योहन् प्रान्तरे मज्जितवान् तथा पापमार्जननिमित्तं मनोव्यावर्त्तकमज्जनस्य कथाञ्च प्रचारितवान्।
5 ユデアの全地方及エルザレムの人、皆彼の許に出來り、己が罪を告白して、ヨルダン[河]にて彼に洗せられ居たりき。
ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः।
6 ヨハネは駱駝の毛織を着、腰に皮帯を締め、蝗と野蜜とを食し居りしが、宣教して云ひけるは、
अस्य योहनः परिधेयानि क्रमेलकलोमजानि, तस्य कटिबन्धनं चर्म्मजातम्, तस्य भक्ष्याणि च शूककीटा वन्यमधूनि चासन्।
7 我よりも力ある者我後に來り給ふ。我は屈みて、其履の紐を解くにも堪へず、
स प्रचारयन् कथयाञ्चक्रे, अहं नम्रीभूय यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि, तादृशो मत्तो गुरुतर एकः पुरुषो मत्पश्चादागच्छति।
8 我は水にて汝等を洗したれども、彼は聖霊にて汝等を洗し給ふべし、と。
अहं युष्मान् जले मज्जितवान् किन्तु स पवित्र आत्मानि संमज्जयिष्यति।
9 斯て當時イエズス、ガリレアのナザレトより來り、ヨルダン[河]にてヨハネに洗せられ給ひしが、
अपरञ्च तस्मिन्नेव काले गालील्प्रदेशस्य नासरद्ग्रामाद् यीशुरागत्य योहना यर्द्दननद्यां मज्जितोऽभूत्।
10 軈て水より上り給ふや、天開け、[聖]霊鳩の如く降りて、我上に止り給ふを見給へり。
स जलादुत्थितमात्रो मेघद्वारं मुक्तं कपोतवत् स्वस्योपरि अवरोहन्तमात्मानञ्च दृष्टवान्।
11 又天より聲して[曰く]、汝は我愛子なり、我汝に因りて心を安んぜり、と。
त्वं मम प्रियः पुत्रस्त्वय्येव मममहासन्तोष इयमाकाशीया वाणी बभूव।
12 [聖]霊直に彼を荒野に往かしめ給ひしが、
तस्मिन् काले आत्मा तं प्रान्तरमध्यं निनाय।
13 四十日四十夜荒野に在りて、サタンに試みられ、野獣と共に居給ひ、天使等彼に事へ居たり。
अथ स चत्वारिंशद्दिनानि तस्मिन् स्थाने वन्यपशुभिः सह तिष्ठन् शैताना परीक्षितः; पश्चात् स्वर्गीयदूतास्तं सिषेविरे।
14 第二項 キリストの宣教の初 ヨハネの囚はれし後、イエズス、ガリレアに至り、神の國の福音を宣傳へて、
अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,
15 曰ひけるは、期は満ちて神の國は近づけり、汝等改心して福音を信ぜよ、と。
कालः सम्पूर्ण ईश्वरराज्यञ्च समीपमागतं; अतोहेतो र्यूयं मनांसि व्यावर्त्तयध्वं सुसंवादे च विश्वासित।
16 斯てガリレアの湖辺を過ぎ給ふに、シモンと其兄弟アンデレアとが湖に網打てるを見て、――即ち漁師なりき――
तदनन्तरं स गालीलीयसमुद्रस्य तीरे गच्छन् शिमोन् तस्य भ्राता अन्द्रियनामा च इमौ द्वौ जनौ मत्स्यधारिणौ सागरमध्ये जालं प्रक्षिपन्तौ दृष्ट्वा ताववदत्,
17 イエズス彼等に向ひ、我に從へ、我汝等を人を漁る者と成らしめん、と曰ひしかば、
युवां मम पश्चादागच्छतं, युवामहं मनुष्यधारिणौ करिष्यामि।
18 彼等直に網を舍きて從へり。
ततस्तौ तत्क्षणमेव जालानि परित्यज्य तस्य पश्चात् जग्मतुः।
19 尚少しく進み給ひて、ゼベデオの子ヤコボと其兄弟ヨハネとが、亦船の中に網を補ひつつ居るを見て、
ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्।
20 直に彼等を召し給ひしに、彼等其父ゼベデオを、雇人と共に船に舍きて從へり。
ततस्तौ नौकायां वेतनभुग्भिः सहितं स्वपितरं विहाय तत्पश्चादीयतुः।
21 [一同]カファルナウムに入りしが、イエズス軈て安息日毎に會堂に入りて教へ給ひければ、
ततः परं कफर्नाहूम्नामकं नगरमुपस्थाय स विश्रामदिवसे भजनग्रहं प्रविश्य समुपदिदेश।
22 人其教に驚き居たり。其は律法學士等の如くせずして、権威ある者の如くに教へ給へばなり。
तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश।
23 然るに惡鬼に憑かれたる人、其會堂に在りしが、呼はりて、
अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके
24 云ひけるは、ナザレトのイエズスよ、我等汝と何の関係かあらん、我等を亡ぼさんとて來り給へるか、我汝の誰なるかを知れり、即ち神の聖なる者なり、と。
भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।
25 イエズス之を責めて、汝黙して其人より出でよ、と曰ひしに、
तदा यीशुस्तं तर्जयित्वा जगाद तूष्णीं भव इतो बहिर्भव च।
26 汚鬼其人を抅攣けさせ、聲高く叫びつつ出去れり。
ततः सोऽपवित्रभूतस्तं सम्पीड्य अत्युचैश्चीत्कृत्य निर्जगाम।
27 斯て人皆恐入りて、是は何事ぞ、何等の新しき教ぞ。彼は権威を以て汚鬼等にすら命じ給へば、彼等之に從ふよ、と互に僉議するに至りければ、
तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।
28 イエズスの名聲、忽ガリレアの全地方に播がれり。
तदा तस्य यशो गालीलश्चतुर्दिक्स्थसर्व्वदेशान् व्याप्नोत्।
29 彼等軈て會堂を出で、ヤコボヨハネと共に、シモンとアンデレアとの家に至りしが、
अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः।
30 シモンの姑、熱を患ひて臥し居ければ、直に其事をイエズスに白したるに、
तदा पितरस्य श्वश्रूर्ज्वरपीडिता शय्यायामास्त इति ते तं झटिति विज्ञापयाञ्चक्रुः।
31 近づきて其手を取り、之を起し給ひしかば、熱立所に去りて彼婦彼等に給仕したり。
ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।
32 夕暮に至り日没りて後、人々病める者及惡魔に憑かれたる者を、悉くイエズスの許に齎し、
अथास्तं गते रवौ सन्ध्याकाले सति लोकास्तत्समीपं सर्व्वान् रोगिणो भूतधृतांश्च समानिन्युः।
33 街の人挙りて門に集り居たりしが、
सर्व्वे नागरिका लोका द्वारि संमिलिताश्च।
34 イエズス様々の病を患へる人を多く醫し、又惡魔を多く逐出して、言ふことを許し給はざりき、其は彼等イエズスを知ればなり。
ततः स नानाविधरोगिणो बहून् मनुजानरोगिणश्चकार तथा बहून् भूतान् त्याजयाञ्चकार तान् भूतान् किमपि वाक्यं वक्तुं निषिषेध च यतोहेतोस्ते तमजानन्।
35 イエズス未明に起出で、寂しき處に至りて祈り居給へるを、
अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे।
36 シモン及共に居りし人々後を慕ひ行きて、
अनन्तरं शिमोन् तत्सङ्गिनश्च तस्य पश्चाद् गतवन्तः।
37 是に遇ひしかば、人皆汝を尋ぬ、と云ひしに、
तदुद्देशं प्राप्य तमवदन् सर्व्वे लोकास्त्वां मृगयन्ते।
38 イエズス彼等に曰ひけるは、我等比鄰の村落市街へ往かん、彼處にも亦宣教すべし、我は是が為に來りたればなり、と。
तदा सोऽकथयत् आगच्छत वयं समीपस्थानि नगराणि यामः, यतोऽहं तत्र कथां प्रचारयितुं बहिरागमम्।
39 斯て處々の會堂及ガリレア一般に宣教し、且惡魔を逐払ひ居給へり。
अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च।
40 時に一個の癩病者イエズスの許に來り、跪きて願ひ云ひけるは、思召ならば我を潔くする事を得給ふ、と。
अनन्तरमेकः कुष्ठी समागत्य तत्सम्मुखे जानुपातं विनयञ्च कृत्वा कथितवान् यदि भवान् इच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
41 イエズス之を憫み給ひ、手を伸べ、是に触れて曰ひけるは、我意なり、潔くなれ、と。
ततः कृपालु र्यीशुः करौ प्रसार्य्य तं स्पष्ट्वा कथयामास
42 之を曰ふや、癩病直に彼を去りて彼潔くなれり。
ममेच्छा विद्यते त्वं परिष्कृतो भव। एतत्कथायाः कथनमात्रात् स कुष्ठी रोगान्मुक्तः परिष्कृतोऽभवत्।
43 イエズス之を戒め給ひ、
तदा स तं विसृजन् गाढमादिश्य जगाद
44 汝慎みて人に語ること勿れ、但往きて己を司祭に見せ、潔くなりたる為に、彼等への證據として、モイゼの命ぜしものを献げよ、と曰ひて、直に彼を去らしめ給へり。
सावधानो भव कथामिमां कमपि मा वद; स्वात्मानं याजकं दर्शय, लोकेभ्यः स्वपरिष्कृतेः प्रमाणदानाय मूसानिर्णीतं यद्दानं तदुत्सृजस्व च।
45 然れども彼出でて其事を語り、言弘め始めしかば、イエズス最早顕然に町に入り難く成りて、外の寂しき處に居給ひしが、人々八方より其許に集ひ來り居たり。
किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।

< マルコの福音書 1 >