< ヤコブの手紙 1 >

1 神及び我主イエズス、キリストの僕ヤコボ、離散せる十二族に挨拶す。
ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति।
2 第一項 患難及び誘惑に於る忍耐を勧む 我兄弟等よ、汝等種々の試に陥りたる時は、之を最も喜ぶべき事と思へ。
हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।
3 其は汝等の信仰の試は、忍耐を生ずるを知ればなり。
यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ।
4 然れど汝等が完全無缺にして、何事も乏しき所なからん為に、忍耐は完全なる業を為さざるべからず。
तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।
5 汝等の中に知識を要する人あらば、誰をも咎めめ給はずして吝なく賜ふ神に願ひ奉るべし、然らば與へられん。
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
6 但疑ふ事なく信仰を以て願はざるべからず、蓋疑ふ者は風に動かされて、漂へる海の波に似たれば、
किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति।
7 斯る人は主より何物をも受けんと期する事勿れ、
तादृशो मानवः प्रभोः किञ्चित् प्राप्स्यतीति न मन्यतां।
8 是二心ある人にして、其凡ての道に於て定まり無ければなり。
द्विमना लोकः सर्व्वगतिषु चञ्चलो भवति।
9 兄弟の卑き者は其高められしを大いに喜ぶべく、
यो भ्राता नम्रः स निजोन्नत्या श्लाघतां।
10 富める者は、己が卑きによりて喜ぶべし。是将に草の花の如くに過ぎんとすればなり。
यश्च धनवान् स निजनम्रतया श्लाघतांयतः स तृणपुष्पवत् क्षयं गमिष्यति।
11 夫日出でて焦くれば、草は枯れて其花は落ち、其面の美しさは失せたり。富める者の其道に於て凋むべき事も亦斯の如し。
यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।
12 試を忍ぶ人は福なり、其は鍛錬を経て後、神の己を愛奉る人々に約し給ひし生命の冠を得べければなり。
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
13 誰も誘はるるに當りて、神より誘はると謂ふべからず。蓋神は惡に誘はれ給ふ事能はざれば、誰をも誘ひ給ふ事なし。
ईश्वरो मां परीक्षत इति परीक्षासमये कोऽपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते।
14 各の誘はるるは、己の慾に惹かれ惑はされてなり、
किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति।
15 斯て慾の孕むや罪を産み、罪の全うせらるるや死を生ず。
तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।
16 然れば我至愛なる兄弟等よ、過つ事勿れ、
हे मम प्रियभ्रातरः, यूयं न भ्राम्यत।
17 総て善き賜と完全なる恵とは上よりして、變更なく回転の影なき光の父より降る。
यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
18 蓋被造物の初穂の如きものたらしめん為に、御心よりして眞理の言を以て我等を生み給ひしなり。
तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास।
19 第二項 活動する信仰の必要 我至愛なる兄弟等よ、汝等は知れり、人総て聞くに疾く、語るに遅かるべし。
अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।
20 其は人の怒は神の義を為さざればなり。
यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।
21 然れば汝等一切の穢らはしき事と、夥しき惡事とを脱棄て、汝等に植ゑられて汝等の霊魂を救ふべき御言を穏に承容れよ。
अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
22 斯て汝等自ら欺きて聴聞者たるに止らず、言の實行者と成れ。
अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।
23 蓋人もし言の聴聞者にして實行者に非ずば、鏡に寫して生來の顔を見る人に似たるべし。
यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः।
24 即ち己が姿を見て退くや、直に其如何に在りしかを忘る。
आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति।
25 然れども自由の完全なる律法を鑑みて之に止る者は、忘れ勝ちなる聴聞者と成らずして業の實行者と成る。斯る人は、其為す所に由りて福なるべし。
किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।
26 人若自ら宗教家なりと思ひつつ、其舌を制せずして己が心を欺かば、其宗教は無益なり。
अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।
27 父にて在す神の御前に潔くして穢れなき宗教は、孤児寡婦を其困難に當りて訪問し、自ら守りて世間に穢されざる事是なり。
क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।

< ヤコブの手紙 1 >