< ヤコブの手紙 3 >

1 第三項 濫に人を教へんとする事。及び眞偽の知識。 我兄弟等よ、多人數教師と成る事勿れ、我等が一層厳しき審判を受くるは汝等の知る所にして、
हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।
2 我等は皆多くの事に就きて愆つものなればなり。人若言によりて愆つ事なくば是完全なる人にして、亦其全身を銜にて制むるを得べし。
यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति।
3 夫馬を從へんとして、銜を其口に施せば、我等は其全身を馭す。
पश्यत वयम् अश्वान् वशीकर्त्तुं तेषां वक्त्रेषु खलीनान् निधाय तेषां कृत्स्नं शरीरम् अनुवर्त्तयामः।
4 又船を看よ、假令其船大いにして強き風に襲わるるも、最小き舵によりて操る者の欲する所に向けらる、
पश्यत ये पोता अतीव बृहदाकाराः प्रचण्डवातैश्च चालितास्तेऽपि कर्णधारस्य मनोऽभिमताद् अतिक्षुद्रेण कर्णेन वाञ्छितं स्थानं प्रत्यनुवर्त्तन्ते।
5 斯の如く舌も小き局部ながら、其誇る所は大いなり。如何ばかりの小き火が、如何ばかりの大いなる林を焼くかを看よや。
तद्वद् रसनापि क्षुद्रतराङ्गं सन्ती दर्पवाक्यानि भाषते। पश्य कीदृङ्महारण्यं दह्यते ऽल्पेन वह्निना।
6 舌も亦火なり、不義の世界なり。舌は我等が五體の中に備はりて全身を穢し、地獄の火を以て燃され、我等が一生の車輪を焼く。 (Geenna g1067)
रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च। (Geenna g1067)
7 蓋一切の獣、鳥、爬蟲、海に在る種族は制せられ、又實に人性によりて制せられたり。
पशुपक्ष्युरोगजलचराणां सर्व्वेषां स्वभावो दमयितुं शक्यते मानुषिकस्वभावेन दमयाञ्चक्रे च।
8 然れども舌は一人も之を制する事能はず、定まりなき惡にして死毒に充てり。
किन्तु मानवानां केनापि जिह्वा दमयितुं न शक्यते सा न निवार्य्यम् अनिष्टं हलाहलविषेण पूर्णा च।
9 我等は舌を以て父にて在す神を祝し奉り、又之を以て神に象りて造られたる人を詛ひ、
तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः।
10 祝福と詛と同じ口より出づ。我兄弟等よ、是然あるべきに非ず、
एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।
11 豈同じ穴より水の甘きものと苦きものとを流す泉あらんや。
प्रस्रवणः किम् एकस्मात् छिद्रात् मिष्टं तिक्तञ्च तोयं निर्गमयति?
12 我兄弟等よ、如何ぞ無花果が葡萄を生じ、葡萄が無花果を生ずるを得んや。斯の如く塩水の泉も亦淡水を出すこと能はず。
हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।
13 汝等の中に智識ありて敏捷なる者ありや、其人は宜しく善き生活により、知識に出づる温和を以て行を示すべし。
युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।
14 然れど汝等若苦き妬を懐きて争ふ心あらば誇る事勿れ、眞理に反して僞る事勿れ。
किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।
15 是斯る知識は天より降れるものに非ずして地に属するもの、肉慾より出づるもの、惡魔より來るものなればなり。
तादृशं ज्ञानम् ऊर्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिकञ्च।
16 蓋妬と争とある處には、亂と一切の惡業とあり。
यतो हेतोरीर्ष्या विवादेच्छा च यत्र वेद्येते तत्रैव कलहः सर्व्वं दुष्कृतञ्च विद्यते।
17 上よりの知識は第一に操、次に穏便温和にして勧を容れ易く、(善に與し)矜恤と好果とに満ち、是非せず、表裏なきものなり。
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
18 義の果は平和を為せる人々に於て、平和の中に撒かるるなり。
शान्त्याचारिभिः शान्त्या धर्म्मफलं रोप्यते।

< ヤコブの手紙 3 >