< 使徒の働き 23 >

1 パウロ議員の方を熟視めて云ひけるは、兄弟たる人々よ、我今日に至るまで、良心を盡して神の御前に事へたり、と。
सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।
2 是に於て司祭長アナニア、立添へる人々に、パウロの口を打てと命ぜしかば、
अनेन हनानीयनामा महायाजकस्तं कपोले चपेटेनाहन्तुं समीपस्थलोकान् आदिष्टवान्।
3 パウロ之に謂ひけるは、白塗の壁よ、神は汝を打ち給はん、汝律法の儘に我を審かんとて坐しながら、律法に反して命じて我を打たしむるか、と。
तदा पौलस्तमवदत्, हे बहिष्परिष्कृत, ईश्वरस्त्वां प्रहर्त्तुम् उद्यतोस्ति, यतो व्यवस्थानुसारेण विचारयितुम् उपविश्य व्यवस्थां लङ्घित्वा मां प्रहर्त्तुम् आज्ञापयसि।
4 立會へる人々、汝神の大司祭を詛ふや、と云ひしに、
ततो निकटस्था लोका अकथयन्, त्वं किम् ईश्वरस्य महायाजकं निन्दसि?
5 パウロ云ひけるは、兄弟等よ、我其大司祭なる事を知らざりき。蓋録して「汝が民の君を詛ふこと勿れ」とあり、と。
ततः पौलः प्रतिभाषितवान् हे भ्रातृगण महायाजक एष इति न बुद्धं मया तदन्यच्च स्वलोकानाम् अधिपतिं प्रति दुर्व्वाक्यं मा कथय, एतादृशी लिपिरस्ति।
6 パウロ議員の一部はサドカイ人なるに、一部はファリザイ人なる事を知りて、議會に呼はりけるは、兄弟たる人々よ、我はファリザイ人の子にして、ファリザイ人なるが、死人の復活の希望の為に裁判せらるるなり、と。
अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।
7 斯く云ひしかば、ファリザイ人とサドカイ人との間に激論起りて、會衆分裂せり。
इति कथायां कथितायां फिरूशिसिदूकिनोः परस्परं भिन्नवाक्यत्वात् सभाया मध्ये द्वौ संघौ जातौ।
8 其はサドカイ人は復活も天使も霊も無しと言ふを、ファリザイ人は孰れも有りと主張すればなり。
यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति।
9 然て凄じき叫喚となりて、ファリザイ人中の或者等立争ひて云ひけるは、我等此人に何等の惡をも認めず、若霊又は天使ありて彼に語りたらんには如何、とて、
ततः परस्परम् अतिशयकोलाहले समुपस्थिते फिरूशिनां पक्षीयाः सभास्था अध्यापकाः प्रतिपक्षा उत्तिष्ठन्तो ऽकथयन्, एतस्य मानवस्य कमपि दोषं न पश्यामः; यदि कश्चिद् आत्मा वा कश्चिद् दूत एनं प्रत्यादिशत् तर्हि वयम् ईश्वरस्य प्रातिकूल्येन न योत्स्यामः।
10 激しき争ひとなりしかば、千夫長パウロが彼等に引裂かれん事を恐れて、兵卒に命じ、下りて彼等の中よりパウロを奪取り、営内に牽入れしめたり。
तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।
11 次夜、主忽ちパウロの傍に現れて曰ひけるは、励め、蓋エルザレムに於て我を證したるが如く、ロマに於ても證せざるべからず、と。
रात्रो प्रभुस्तस्य समीपे तिष्ठन् कथितवान् हे पौल निर्भयो भव यथा यिरूशालम्नगरे मयि साक्ष्यं दत्तवान् तथा रोमानगरेपि त्वया दातव्यम्।
12 夜明けて、或ユデア人等相集り、誓ひてパウロを殺すまでは飲食すまじと言へり。
दिने समुपस्थिते सति कियन्तो यिहूदीयलोका एकमन्त्रणाः सन्तः पौलं न हत्वा भोजनपाने करिष्याम इति शपथेन स्वान् अबध्नन्।
13 此企に與りし者四十人以上なりしが、
चत्वारिंशज्जनेभ्योऽधिका लोका इति पणम् अकुर्व्वन्।
14 司祭長と長老等との許に至りて云ひけるは、我等大願を立てて、パウロを殺すまでは何をも口に入れじと誓へり。
ते महायाजकानां प्राचीनलोकानाञ्च समीपं गत्वा कथयन्, वयं पौलं न हत्वा किमपि न भोक्ष्यामहे दृढेनानेन शपथेन बद्ध्वा अभवाम।
15 然れば、パウロの事情を尚詳しく知らんとする如くにして、彼を汝等の前に出頭せしむる様、千夫長に報知せよ、我等其近づかざる中に之を殺さんと覚悟せり、と。
अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् कञ्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो ऽस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम।
16 パウロが姉妹の子、此惡計を聞きて、行きて兵営の内に入りパウロに之を告げしかば、
तदा पौलस्य भागिनेयस्तेषामिति मन्त्रणां विज्ञाय दुर्गं गत्वा तां वार्त्तां पौलम् उक्तवान्।
17 パウロ一人の百夫長を呼びて云ひけるは、請ふ此青年を千夫長の許に携へ往け、其は彼に告ぐべき事あればなり、と。
तस्मात् पौल एकं शतसेनापतिम् आहूय वाक्यमिदम् भाषितवान् सहस्रसेनापतेः समीपेऽस्य युवमनुष्यस्य किञ्चिन्निवेदनम् आस्ते, तस्मात् तत्सविधम् एनं नय।
18 百夫長携へて之を千夫長の許に導き、然て云ひけるは、囚人パウロ我に請ふに、汝に語るべき事ある此青年を汝の許に導かん事を以てせり、と。
ततः स तमादाय सहस्रसेनापतेः समीपम् उपस्थाय कथितवान्, भवतः समीपेऽस्य किमपि निवेदनमास्ते तस्मात् बन्दिः पौलो मामाहूय भवतः समीपम् एनम् आनेतुं प्रार्थितवान्।
19 千夫長青年の手を取りて別所に連行き、我に語るべき事とは何事ぞ、と問ひしかば、
तदा सहस्रसेनापतिस्तस्य हस्तं धृत्वा निर्जनस्थानं नीत्वा पृष्ठवान् तव किं निवेदनं? तत् कथय।
20 彼云ひけるは、ユデア人申合せて、パウロの事情を尚確に尋問せんとする如くにして、明日パウロを議會に出頭せしめん事を汝に申出でんとす、
ततः सोकथयत्, यिहूदीयलाकाः पौले कमपि विशेषविचारं छलं कृत्वा तं सभां नेतुं भवतः समीपे निवेदयितुं अमन्त्रयन्।
21 然れど彼等を信ずること勿れ、其は彼等の中四十人以上の者等、彼を殺すまでは飲食せずと誓ひ、今既に準備して、汝の約束を待ちつつあればなり、と。
किन्तु मवता तन्न स्वीकर्त्तव्यं यतस्तेषां मध्येवर्त्तिनश्चत्वारिंशज्जनेभ्यो ऽधिकलोका एकमन्त्रणा भूत्वा पौलं न हत्वा भोजनं पानञ्च न करिष्याम इति शपथेन बद्धाः सन्तो घातका इव सज्जिता इदानीं केवलं भवतो ऽनुमतिम् अपेक्षन्ते।
22 千夫長、此事を我に告げたりと誰にも語ること勿れ、と戒めて青年を返し、
यामिमां कथां त्वं निवेदितवान् तां कस्मैचिदपि मा कथयेत्युक्त्वा सहस्रसेनापतिस्तं युवानं विसृष्टवान्।
23 然て二人の百夫長を呼びて云ひけるは、汝等カイザリアに向けて、兵卒二百人、騎兵七十人、槍持二百人を夜の九時より仕立てさせ、
अनन्तरं सहस्रसेनापति र्द्वौ शतसेनापती आहूयेदम् आदिशत्, युवां रात्रौ प्रहरैकावशिष्टायां सत्यां कैसरियानगरं यातुं पदातिसैन्यानां द्वे शते घोटकारोहिसैन्यानां सप्ततिं शक्तिधारिसैन्यानां द्वे शते च जनान् सज्जितान् कुरुतं।
24 又馬を備へてパウロを乗らしめ、無事に総督フェリクスの許へ伴ひ行かしめよ、と。
पौलम् आरोहयितुं फीलिक्षाधिपतेः समीपं निर्व्विघ्नं नेतुञ्च वाहनानि समुपस्थापयतं।
25 是ユデア人がパウロを捕へて殺す事あらば、己賄賂を受けたる如く、後に至りて讒訴せられん事を恐れし故なり。
अपरं स पत्रं लिखित्वा दत्तवान् तल्लिखितमेतत्,
26 然て書添へたる書簡の文左の如し、
महामहिमश्रीयुक्तफीलिक्षाधिपतये क्लौदियलुषियस्य नमस्कारः।
27 クロウヂオ、ルジア、最尊き総督フェリクスに挨拶す。此人ユデア人に捕へられて既に殺されんとせしを、我其ロマ人たる事を聞き、軍隊を牽往きて救出したるが、
यिहूदीयलोकाः पूर्व्वम् एनं मानवं धृत्वा स्वहस्तै र्हन्तुम् उद्यता एतस्मिन्नन्तरे ससैन्योहं तत्रोपस्थाय एष जनो रोमीय इति विज्ञाय तं रक्षितवान्।
28 彼等の之を咎むる所以を知らんと欲して、之を其議會に召連れたるに、
किन्निमित्तं ते तमपवदन्ते तज्ज्ञातुं तेषा सभां तमानायितवान्।
29 我は其訴へらるる所が彼等の律法に関する問題たるを認めて、聊も死刑若くは入獄に當る罪あるを認めず、
ततस्तेषां व्यवस्थाया विरुद्धया कयाचन कथया सोऽपवादितोऽभवत्, किन्तु स शृङ्खलबन्धनार्हो वा प्राणनाशार्हो भवतीदृशः कोप्यपराधो मयास्य न दृष्टः।
30 加之彼等之を害せんとする企ありと告げられたれば、之を汝の許に送り、告訴人にも、汝の法廷に起訴せよ、と告示せり、汝健康なれ、と。
तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्।
31 然れば兵卒等は命令に從ひ、パウロを携へて夜中にアンチパトリに連行き、
सैन्यगण आज्ञानुसारेण पौलं गृहीत्वा तस्यां रजन्याम् आन्तिपात्रिनगरम् आनयत्।
32 明日は騎兵を殘して之に伴はしめ、然て己等は兵営に返りしが、
परेऽहनि तेन सह यातुं घोटकारूढसैन्यगणं स्थापयित्वा परावृत्य दुर्गं गतवान्।
33 騎兵はカイザリアに至り、総督に添書を渡して、パウロをも其前に立たしめたり。
ततः परे घोटकारोहिसैन्यगणः कैसरियानगरम् उपस्थाय तत्पत्रम् अधिपतेः करे समर्प्य तस्य समीपे पौलम् उपस्थापितवान्।
34 総督添書を読みて、本國は何國ぞ、と問ひ、其シリシア州なる由を聞きしかば、
तदाधिपतिस्तत्पत्रं पठित्वा पृष्ठवान् एष किम्प्रदेशीयो जनः? स किलिकियाप्रदेशीय एको जन इति ज्ञात्वा कथितवान्,
35 汝の告訴人來りて後汝に聞くべし、と云ひて、命じてパウロをヘロデの邸内に護らしめたり。
तवापवादकगण आगते तव कथां श्रोष्यामि। हेरोद्राजगृहे तं स्थापयितुम् आदिष्टवान्।

< 使徒の働き 23 >