< ヨハネの手紙第三 1 >

1 長老は至愛なるガイオ、即ち我が眞に愛せる者に[書簡を贈る]。
प्राचीनो ऽहं सत्यमताद् यस्मिन् प्रीये तं प्रियतमं गायं प्रति पत्रं लिखामि।
2 至愛なる者よ、我汝が魂の榮ゆる如くに萬事に於て榮え、且壮健ならん事を祈る。
हे प्रिय, तवात्मा यादृक् शुभान्वितस्तादृक् सर्व्वविषये तव शुभं स्वास्थ्यञ्च भूयात्।
3 或兄弟等來りて、汝の忠實、即ち汝が如何に忠實に歩めるかを證したれば、我甚だ喜べり。
भ्रातृभिरागत्य तव सत्यमतस्यार्थतस्त्वं कीदृक् सत्यमतमाचरस्येतस्य साक्ष्ये दत्ते मम महानन्दो जातः।
4 我に取りて、我子等の忠實に歩めるを聞くに優れる喜びはあらず。
मम सन्तानाः सत्यमतमाचरन्तीतिवार्त्तातो मम य आनन्दो जायते ततो महत्तरो नास्ति।
5 至愛なる者よ、汝は兄弟等、而も旅人に對して、何事を為すにも忠實に之を為せり。彼等は教會の前に於て汝の愛情を證せしが、
हे प्रिय, भ्रातृन् प्रति विशेषतस्तान् विदेशिनो भृातृन् प्रति त्वया यद्यत् कृतं तत् सर्व्वं विश्वासिनो योग्यं।
6 汝が尚神に相應はしからん様、彼等の旅行を扶けんは然るべき事なり。
ते च समितेः साक्षात् तव प्रम्नः प्रमाणं दत्तवन्तः, अपरम् ईश्वरयोग्यरूपेण तान् प्रस्थापयता त्वया सत्कर्म्म कारिष्यते।
7 其は彼等は神の御名の為に出立して、何物をも異教人に受けざればなり。
यतस्ते तस्य नाम्ना यात्रां विधाय भिन्नजातीयेभ्यः किमपि न गृहीतवन्तः।
8 故に我等は眞理と協力せん為に、宜しく斯の如き人を接待すべきなり。
तस्माद् वयं यत् सत्यमतस्य सहाया भवेम तदर्थमेतादृशा लोका अस्माभिरनुग्रहीतव्याः।
9 我教會に宛てて一筆書贈れり、然れど其中に頭立つ事を好めるデオトレフェス我等を承容れざるなり。
समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।
10 故に我が至りたらん時、其為す所の業を其心に喚起さんとす。即ち彼は我等を惡口して、而も足らざるものの如く、自ら兄弟等を承容れず、併せて承容れんとする人々を禁め、且教會より追出すなり。
अतो ऽहं यदोपस्थास्यामि तदा तेन यद्यत् क्रियते तत् सर्व्वं तं स्मारयिष्यामि, यतः स दुर्व्वाक्यैरस्मान् अपवदति, तेनापि तृप्तिं न गत्वा स्वयमपि भ्रातृन् नानुगृह्लाति ये चानुग्रहीतुमिच्छन्ति तान् समितितो ऽपि बहिष्करोति।
11 至愛なる者よ、汝は惡に倣はずして善に倣へ、善を為す人は神よりのものなり。惡を為す人は神を見奉りし事なし。
हे प्रिय, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।
12 デメトリオは衆人にも實際にも證明せられ、我等も亦之が為に證明す、而して我等の證明の眞實なるは汝等之を知れり。
दीमीत्रियस्य पक्षे सर्व्वैः साक्ष्यम् अदायि विशेषतः सत्यमतेनापि, वयमपि तत्पक्षे साक्ष्यं दद्मः, अस्माकञ्च साक्ष्यं सत्यमेवेति यूयं जानीथ।
13 汝に書贈るべきことは多かりしかども、我は墨筆を以て書贈るを好まず。
त्वां प्रति मया बहूनि लेखितव्यानि किन्तु मसीलेखनीभ्यां लेखितुं नेच्छामि।
14 願はくは不日汝を見て、我等口づから相語らん。汝に平安あれかし。友人等は汝に宜しくと言へり。友人等に、各名を斥して宜しく傳へよ。
अचिरेण त्वां द्रक्ष्यामीति मम प्रत्याशास्ते तदावां सम्मुखीभूय परस्परं सम्भाषिष्यावहे। तव शान्ति र्भूयात्। अस्माकं मित्राणि त्वां नमस्कारं ज्ञापयन्ति त्वमप्येकैकस्य नाम प्रोच्य मित्रेभ्यो नमस्कुरु। इति।

< ヨハネの手紙第三 1 >