< テモテへの手紙第一 2 >

1 第二項 祭典に就きて守るべき規則 然れば我が第一に勧むるは、衆人の為、
मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः,
2 帝王等及び総て上位に在る人々の為に、懇願し、祈祷し、請願し、且感謝せられん事なり。是は我等が全き敬虔と正直とに於て、安らかに静なる生活を営まん為なり、
सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।
3 斯の如きは善事にして我救主にて在す神の御前に嘉納せらるればなり。
यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,
4 即ち神は一切の人の救はれ、眞理を知るに至らん事を望み給ふ。
स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति।
5 蓋神は唯一に在し、神と人との仲裁者も亦唯一なり。是人たるキリスト、イエズスに在して、
यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः
6 衆人の為に己を贖として捧げ給ひ、時至りて其證據ありしなり。
स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं,
7 我は之が為に立てられて宣教者たり、且使徒たり、――我は眞を言ひて僞らず――信仰と眞理とに於る異邦人の教師たり。
तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।
8 然れば我は、男子が何れの處に於ても潔き手を挙げて怒なく争なく祈らん事を望む。
अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।
9 婦人も亦斯の如くして相應の衣服を着け、己を飾るに羞耻心と節制とを以てし、縮し髪、黄金、眞珠、高價の衣服を以てせず、
तद्वत् नार्य्योऽपि सलज्जाः संयतमनसश्च सत्यो योग्यमाच्छादनं परिदधतु किञ्च केशसंस्कारैः कणकमुक्ताभि र्महार्घ्यपरिच्छदैश्चात्मभूषणं न कुर्व्वत्यः
10 敬虔を約束せる婦人に相當する如く善業を以てすべし。
स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां।
11 婦人は全く服從して静に學ぶべし。
नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां।
12 我は婦人の教ふる事、又男子を司る事を許さず、静にすべきなり。
नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं।
13 蓋アダンは前に造られ、エワは其後なり。
यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव।
14 又アダンは惑はされず、婦は惑はされて罪に陥れり。
किञ्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव।
15 然れども信仰と愛と聖徳と節制とに止らば、子女を挙ぐる事によりて救かるべし。
तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति।

< テモテへの手紙第一 2 >