< ローマ人への手紙 10 >

1 兄弟よ、わが心のねがひ、神に對する祈は、彼らの救はれんことなり。
हे भ्रातर इस्रायेलीयलोका यत् परित्राणं प्राप्नुवन्ति तदहं मनसाभिलषन् ईश्वरस्य समीपे प्रार्थये।
2 われ彼らが神のために熱心なることを證す、されど其の熱心は知識によらざるなり。
यत ईश्वरे तेषां चेष्टा विद्यत इत्यत्राहं साक्ष्यस्मि; किन्तु तेषां सा चेष्टा सज्ञाना नहि,
3 それは神の義を知らず、己の義を立てんとして、神の義に服はざればなり。
यतस्त ईश्वरदत्तं पुण्यम् अविज्ञाय स्वकृतपुण्यं स्थापयितुम् चेष्टमाना ईश्वरदत्तस्य पुण्यस्य निघ्नत्वं न स्वीकुर्व्वन्ति।
4 キリストは凡て信ずる者の義とせられん爲に律法の終となり給へり。
ख्रीष्ट एकैकविश्वासिजनाय पुण्यं दातुं व्यवस्थायाः फलस्वरूपो भवति।
5 モーセは、律法による義をおこなふ人は之によりて生くべしと録したり。
व्यवस्थापालनेन यत् पुण्यं तत् मूसा वर्णयामास, यथा, यो जनस्तां पालयिष्यति स तद्द्वारा जीविष्यति।
6 されど信仰による義は斯くいふ『なんぢ心に「誰か天に昇らん」と言ふなかれ』と。
किन्तु प्रत्ययेन यत् पुण्यं तद् एतादृशं वाक्यं वदति, कः स्वर्गम् आरुह्य ख्रीष्टम् अवरोहयिष्यति?
7 これキリストを引下さんとするなり『また「たれか底なき所に下らん」と言ふなかれ』と。是キリストを死人の中より引上げんとするなり。 (Abyssos g12)
को वा प्रेतलोकम् अवरुह्य ख्रीष्टं मृतगणमध्याद् आनेष्यतीति वाक् मनसि त्वया न गदितव्या। (Abyssos g12)
8 さらば何と言ふか『御言はなんぢに近し、なんぢの口にあり、汝の心にあり』と。これ我らが宣ぶる信仰の言なり。
तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।
9 即ち、なんぢ口にてイエスを主と言ひあらはし、心にて神の之を死人の中より甦へらせ給ひしことを信ぜば、救はるべし。
वस्तुतः प्रभुं यीशुं यदि वदनेन स्वीकरोषि, तथेश्वरस्तं श्मशानाद् उदस्थापयद् इति यद्यन्तःकरणेन विश्वसिषि तर्हि परित्राणं लप्स्यसे।
10 それ人は心に信じて義とせられ、口に言ひあらはして救はるるなり。
यस्मात् पुण्यप्राप्त्यर्थम् अन्तःकरणेन विश्वसितव्यं परित्राणार्थञ्च वदनेन स्वीकर्त्तव्यं।
11 聖書にいふ『すべて彼を信ずる者は辱しめられじ』と。
शास्त्रे यादृशं लिखति विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते।
12 ユダヤ人とギリシヤ人との區別なし、同一の主は萬民の主にましまして、凡て呼び求むる者に對して豐なり。
इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति।
13 『すべて主の御名を呼び求むる者は救はるべし』とあればなり。
यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।
14 然れど未だ信ぜぬ者を爭で呼び求むることをせん、未だ聽かぬ者を爭で信ずることをせん、宣傳ふる者なくば爭で聽くことをせん。
यं ये जना न प्रत्यायन् ते तमुद्दिश्य कथं प्रार्थयिष्यन्ते? ये वा यस्याख्यानं कदापि न श्रुतवन्तस्ते तं कथं प्रत्येष्यन्ति? अपरं यदि प्रचारयितारो न तिष्ठन्ति तदा कथं ते श्रोष्यन्ति?
15 遣されずば爭で宣傳ふることをせん『ああ美しきかな、善き事を告ぐる者の足よ』と録されたる如し。
यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।
16 されど、みな福音に從ひしにはあらず、イザヤいふ『主よ、われらに聞きたる言を誰か信ぜし』
किन्तु ते सर्व्वे तं सुसंवादं न गृहीतवन्तः। यिशायियो यथा लिखितवान्। अस्मत्प्रचारिते वाक्ये विश्वासमकरोद्धि कः।
17 斯く信仰は聞くにより、聞くはキリストの言による。
अतएव श्रवणाद् विश्वास ऐश्वरवाक्यप्रचारात् श्रवणञ्च भवति।
18 されど我いふ、彼ら聞えざりしか、然らず『その聲は全地にゆきわたり、其の言は世界の極にまで及べり』
तर्ह्यहं ब्रवीमि तैः किं नाश्रावि? अवश्यम् अश्रावि, यस्मात् तेषां शब्दो महीं व्याप्नोद् वाक्यञ्च निखिलं जगत्।
19 我また言ふ、イスラエルは知らざりしか、先づモーセ言ふ『われ民ならぬ者をもて汝らに嫉を起させ、愚なる民をもて汝らを怒らせん』
अपरमपि वदामि, इस्रायेलीयलोकाः किम् एतां कथां न बुध्यन्ते? प्रथमतो मूसा इदं वाक्यं प्रोवाच, अहमुत्तापयिष्ये तान् अगण्यमानवैरपि। क्लेक्ष्यामि जातिम् एताञ्च प्रोन्मत्तभिन्नजातिभिः।
20 またイザヤ憚らずして言ふ『我を求めざる者に、われ見出され、我を尋ねざる者に我あらはれたり』
अपरञ्च यिशायियोऽतिशयाक्षोभेण कथयामास, यथा, अधि मां यैस्तु नाचेष्टि सम्प्राप्तस्तै र्जनैरहं। अधि मां यै र्न सम्पृष्टं विज्ञातस्तै र्जनैरहं॥
21 更にイスラエルに就きては『われ服はずして言ひさからふ民に、終日 手を伸べたり』と云へり。
किन्त्विस्रायेलीयलोकान् अधि कथयाञ्चकार, यैराज्ञालङ्घिभि र्लोकै र्विरुद्धं वाक्यमुच्यते। तान् प्रत्येव दिनं कृत्स्नं हस्तौ विस्तारयाम्यहं॥

< ローマ人への手紙 10 >