< マタイの福音書 27 >

1 夜明けになりて、凡ての祭司長・民の長老ら、イエスを殺さんと相 議り、
प्रभाते जाते प्रधानयाजकलोकप्राचीना यीशुं हन्तुं तत्प्रतिकूलं मन्त्रयित्वा
2 遂に之を縛り、曳きゆきて總督ピラトに付せり。
तं बद्व्वा नीत्वा पन्तीयपीलाताख्याधिपे समर्पयामासुः।
3 ここにイエスを賣りしユダ、その死に定められ給ひしを見て悔い、祭司長・長老らに、かの三十の銀をかへして言ふ、
ततो यीशोः परकरेव्वर्पयिता यिहूदास्तत्प्राणादण्डाज्ञां विदित्वा सन्तप्तमनाः प्रधानयाजकलोकप्राचीनानां समक्षं तास्त्रींशन्मुद्राः प्रतिदायावादीत्,
4 『われ罪なきの血を賣りて罪を犯したり』彼らいふ『われら何ぞ干らん、汝みづから當るべし』
एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।
5 彼その銀を聖所に投げすてて去り、ゆきて自ら縊れたり。
ततो यिहूदा मन्दिरमध्ये ता मुद्रा निक्षिप्य प्रस्थितवान् इत्वा च स्वयमात्मानमुद्बबन्ध।
6 祭司長らその銀をとりて言ふ『これは血の價なれば、宮の庫に納むるは可からず』
पश्चात् प्रधानयाजकास्ता मुद्रा आदाय कथितवन्तः, एता मुद्राः शोणितमूल्यं तस्माद् भाण्डागारे न निधातव्याः।
7 かくて相 議り、その銀をもて陶工の畑を買ひ、旅人らの墓地とせり。
अनन्तरं ते मन्त्रयित्वा विदेशिनां श्मशानस्थानाय ताभिः कुलालस्य क्षेत्रमक्रीणन्।
8 之によりて其の畑は、今に至るまで血の畑と稱へらる。
अतोऽद्यापि तत्स्थानं रक्तक्षेत्रं वदन्ति।
9 ここに預言者エレミヤによりて云はれたる言は成就したり。曰く『かくて彼ら値積られしもの、即ちイスラエルの子らが値積りし者の價の銀 三十をとりて、
इत्थं सति इस्रायेलीयसन्तानै र्यस्य मूल्यं निरुपितं, तस्य त्रिंशन्मुद्रामानं मूल्यं
10 陶工の畑の代に之を與へたり。主の我に命じ給ひし如し』
मां प्रति परमेश्वरस्यादेशात् तेभ्य आदीयत, तेन च कुलालस्य क्षेत्रं क्रीतमिति यद्वचनं यिरिमियभविष्यद्वादिना प्रोक्तं तत् तदासिध्यत्।
11 さてイエス、總督の前に立ち給ひしに、總督 問ひて言ふ『なんぢはユダヤ人の王なるか』イエス言ひ給ふ『なんぢの言ふが如し』
अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।
12 祭司長・長老ら訴ふれども、何をも答へ給はず。
किन्तु प्रधानयाजकप्राचीनैरभियुक्तेन तेन किमपि न प्रत्यवादि।
13 ここにピラト彼に言ふ『聞かぬか、彼らが汝に對して如何におほくの證據を立つるを』
ततः पीलातेन स उदितः, इमे त्वत्प्रतिकूलतः कति कति साक्ष्यं ददति, तत् त्वं न शृणोषि?
14 されど總督の甚く怪しむまで、一言をも答へ給はず。
तथापि स तेषामेकस्यापि वचस उत्तरं नोदितवान्; तेन सोऽधिपति र्महाचित्रं विदामास।
15 祭の時には、總督 群衆の望にまかせて、囚人 一人を之に赦す例あり。
अन्यच्च तन्महकालेऽधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति।
16 ここにバラバといふ隱れなき囚人あり。
तदानीं बरब्बानामा कश्चित् ख्यातबन्ध्यासीत्।
17 されば人々の集れる時、ピラト言ふ『なんぢら我が誰を赦さんことを願ふか。バラバなるか、キリストと稱ふるイエスなるか』
ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?
18 これピラト彼らのイエスを付ししは嫉に因ると知る故なり。
तैरीर्ष्यया स समर्पित इति स ज्ञातवान्।
19 彼なほ審判の座にをる時、その妻、人を遣して言はしむ『かの義人に係ることを爲な、我けふ夢の中にて彼の故にさまざま苦しめり』
अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।
20 祭司長・長老ら、群衆にバラバの赦されん事を請はしめ、イエスを亡さんことを勸む。
अनन्तरं प्रधानयाजकप्राचीना बरब्बां याचित्वादातुं यीशुञ्च हन्तुं सकललोकान् प्रावर्त्तयन्।
21 總督こたへて彼らに言ふ『二人の中いづれを我が赦さん事を願ふか』彼らいふ『バラバなり』
ततोऽधिपतिस्तान् पृष्टवान्, एतयोः कमहं मोचयिष्यामि? युष्माकं केच्छा? ते प्रोचु र्बरब्बां।
22 ピラト言ふ『さらばキリストと稱ふるイエスを我いかにすべきか』皆いふ『十字架につくべし』
तदा पीलातः पप्रच्छ, तर्हि यं ख्रीष्टं वदन्ति, तं यीशुं किं करिष्यामि? सर्व्वे कथयामासुः, स क्रुशेन विध्यतां।
23 ピラト言ふ『かれ何の惡事をなしたるか』彼ら烈しく叫びていふ『十字架につくべし』
ततोऽधिपतिरवादीत्, कुतः? किं तेनापराद्धं? किन्तु ते पुनरुचै र्जगदुः, स क्रुशेन विध्यतां।
24 ピラトは何の效なく反つて亂にならんとするを見て、水をとり群衆のまへに手を洗ひて言ふ『この人の血につきて我は罪なし、汝 等みづから當れ』
तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।
25 民みな答へて言ふ『其の血は、我らと我らの子孫とに歸すべし』
तदा सर्व्वाः प्रजाः प्रत्यवोचन्, तस्य शोणितपातापराधोऽस्माकम् अस्मत्सन्तानानाञ्चोपरि भवतु।
26 ここにピラト、バラバを彼らに赦し、イエスを鞭うちて、十字架につくる爲に付せり。
ततः स तेषां समीपे बरब्बां मोचयामास यीशुन्तु कषाभिराहत्य क्रुशेन वेधितुं समर्पयामास।
27 ここに總督の兵卒ども、イエスを官邸につれゆき、全 隊を御許に集め、
अनन्तरम् अधिपतेः सेना अधिपते र्गृहं यीशुमानीय तस्य समीपे सेनासमूहं संजगृहुः।
28 その衣をはぎて、緋色の上衣をきせ、
ततस्ते तस्य वसनं मोचयित्वा कृष्णलोहितवर्णवसनं परिधापयामासुः
29 茨の冠冕を編みて、その首に冠らせ、葦を右の手にもたせ、且その前に跪づき、嘲弄して言ふ『ユダヤ人の王、安かれ』
कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुखे जानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,
30 また之に唾し、かの葦をとりて其の首を叩く。
ततस्तस्य गात्रे निष्ठीवं दत्वा तेन वेत्रेण शिर आजघ्नुः।
31 かく嘲弄してのち、上衣を剥ぎて、故の衣をきせ、十字架につけんとて曳きゆく。
इत्थं तं तिरस्कृत्य तद् वसनं मोचयित्वा पुनर्निजवसनं परिधापयाञ्चक्रुः, तं क्रुशेन वेधितुं नीतवन्तः।
32 その出づる時、シモンといふクレネ人にあひしかば、強ひて之にイエスの十字架をおはしむ。
पश्चात्ते बहिर्भूय कुरीणीयं शिमोन्नामकमेकं विलोक्य क्रुशं वोढुं तमाददिरे।
33 かくてゴルゴタといふ處、即ち髑髏の地にいたり、
अनन्तरं गुल्गल्ताम् अर्थात् शिरस्कपालनामकस्थानमु पस्थाय ते यीशवे पित्तमिश्रिताम्लरसं पातुं ददुः,
34 苦味を混ぜたる葡萄酒を飮ませんとしたるに、嘗めて、飮まんとし給はず。
किन्तु स तमास्वाद्य न पपौ।
35 彼らイエスを十字架につけてのち、籤をひきて其の衣をわかち、
तदानीं ते तं क्रुशेन संविध्य तस्य वसनानि गुटिकापातेन विभज्य जगृहुः, तस्मात्, विभजन्तेऽधरीयं मे ते मनुष्याः परस्परं। मदुत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च॥यदेतद्वचनं भविष्यद्वादिभिरुक्तमासीत्, तदा तद् असिध्यत्,
36 且そこに坐して、イエスを守る。
पश्चात् ते तत्रोपविश्य तद्रक्षणकर्व्वणि नियुक्तास्तस्थुः।
37 その首の上に『これはユダヤ人の王イエスなり』と記したる罪標を置きたり。
अपरम् एष यिहूदीयानां राजा यीशुरित्यपवादलिपिपत्रं तच्छिरस ऊर्द्व्वे योजयामासुः।
38 ここにイエスとともに二人の強盜、十字架につけられ、一人はその右に、一人はその左におかる。
ततस्तस्य वामे दक्षिणे च द्वौ चैरौ तेन साकं क्रुशेन विविधुः।
39 往來の者どもイエスを譏り、首を振りていふ、
तदा पान्था निजशिरो लाडयित्वा तं निन्दन्तो जगदुः,
40 『宮を毀ちて三日のうちに建つる者よ、もし神の子ならば己を救へ、十字架より下りよ』
हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।
41 祭司長らもまた同じく、學者・長老らとともに嘲弄して言ふ、
प्रधानयाजकाध्यापकप्राचीनाश्च तथा तिरस्कृत्य जगदुः,
42 『人を救ひて己を救ふこと能はず。彼はイスラエルの王なり、いま十字架より下りよかし、さらば我ら彼を信ぜん。
सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।
43 彼は神に依り頼めり、神かれを愛しまば今すくひ給ふべし「我は神の子なり」と云へり』
स ईश्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।
44 ともに十字架につけられたる強盜どもも、同じ事をもてイエスを罵れり。
यौ स्तेनौ साकं तेन क्रुशेन विद्धौ तौ तद्वदेव तं निनिन्दतुः।
45 晝の十二 時より地の上あまねく暗くなりて、三時に及ぶ。
तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,
46 三時ごろイエス大聲に叫びて『エリ、エリ、レマ、サバクタニ』と言ひ給ふ。わが神、わが神、なんぞ我を見 棄て給ひしとの意なり。
तृतीययामे "एली एली लामा शिवक्तनी", अर्थात् मदीश्वर मदीश्वर कुतो मामत्याक्षीः? यीशुरुच्चैरिति जगाद।
47 そこに立つ者のうち或 人々これを聞きて『彼はエリヤを呼ぶなり』と言ふ。
तदा तत्र स्थिताः केचित् तत् श्रुत्वा बभाषिरे, अयम् एलियमाहूयति।
48 直ちにその中の一人はしりゆきて海綿をとり、酸き葡萄酒を含ませ、葦につけてイエスに飮ましむ。
तेषां मध्याद् एकः शीघ्रं गत्वा स्पञ्जं गृहीत्वा तत्राम्लरसं दत्त्वा नलेन पातुं तस्मै ददौ।
49 その他の者ども言ふ『まて、エリヤ來りて彼を救ふや否や、我ら之を見ん』
इतरेऽकथयन् तिष्ठत, तं रक्षितुम् एलिय आयाति नवेति पश्यामः।
50 イエス再び大聲に呼はりて息 絶えたまふ。
यीशुः पुनरुचैराहूय प्राणान् जहौ।
51 視よ、聖所の幕、上より下まで裂けて二つとなり、また地震ひ、磐さけ、
ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,
52 墓ひらけて、眠りたる聖徒の屍體おほく活きかへり、
भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्,
53 イエスの復活ののち墓をいで、聖なる都に入りて、多くの人に現れたり。
श्मशानाद् वहिर्भूय तदुत्थानात् परं पुण्यपुरं गत्वा बहुजनान् दर्शयामासुः।
54 百卒長および之と共にイエスを守りゐたる者ども、地震とその有りし事とを見て甚く懼れ『實に彼は神の子なりき』と言へり。
यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।
55 その處にて遙に望みゐたる多くの女あり、イエスに事へてガリラヤより從ひ來りし者どもなり。
या बहुयोषितो यीशुं सेवमाना गालीलस्तत्पश्चादागतास्तासां मध्ये
56 その中には、マグダラのマリヤ、ヤコブとヨセフとの母マリヤ、及びゼベダイの子らの母などもゐたり。
मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।
57 日 暮れて、ヨセフと云ふアリマタヤの富める人きたる。彼もイエスの弟子なるが、
सन्ध्यायां सत्यम् अरिमथियानगरस्य यूषफ्नामा धनी मनुजो यीशोः शिष्यत्वात्
58 ピラトに往きてイエスの屍體を請ふ。ここにピラト之を付すことを命ず。
पीलातस्य समीपं गत्वा यीशोः कायं ययाचे, तेन पीलातः कायं दातुम् आदिदेश।
59 ヨセフ屍體をとりて淨き亞麻 布につつみ、
यूषफ् तत्कायं नीत्वा शुचिवस्त्रेणाच्छाद्य
60 岩にほりたる己が新しき墓に納め、墓の入口に大なる石を轉しおきて去りぬ。
स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।
61 其處にはマグダラのマリヤと他のマリヤと墓に向ひて坐しゐたり。
किन्तु मग्दलीनी मरियम् अन्यमरियम् एते स्त्रियौ तत्र श्मशानसम्मुख उपविविशतुः।
62 あくる日、即ち準備 日の翌日、祭司長らとパリサイ人らとピラトの許に集りて言ふ、
तदनन्तरं निस्तारोत्सवस्यायोजनदिनात् परेऽहनि प्रधानयाजकाः फिरूशिनश्च मिलित्वा पीलातमुपागत्याकथयन्,
63 『主よ、かの惑すもの生き居りし時「われ三日の後に甦へらん」と言ひしを、我ら思ひいだせり。
हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं;
64 されば命じて三日に至るまで墓を固めしめ給へ、恐らくはその弟子ら來りて之を盜み、「彼は死人の中より甦へれり」と民に言はん。然らば後の惑は前のよりも甚だしからん』
तस्मात् तृतीयदिनं यावत् तत् श्मशानं रक्षितुमादिशतु, नोचेत् तच्छिष्या यामिन्यामागत्य तं हृत्वा लोकान् वदिष्यन्ति, स श्मशानादुदतिष्ठत्, तथा सति प्रथमभ्रान्तेः शेषीयभ्रान्ति र्महती भविष्यति।
65 ピラト言ふ『なんぢらに番兵あり、往きて力 限り固めよ』
तदा पीलात अवादीत्, युष्माकं समीपे रक्षिगण आस्ते, यूयं गत्वा यथा साध्यं रक्षयत।
66 乃ち彼らゆきて石に封印し、番兵を置きて墓を固めたり。
ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।

< マタイの福音書 27 >