< Matthew 22 >

1 Yeshua answered and spoke to them again in parables, saying,
अनन्तरं यीशुः पुनरपि दृष्टान्तेन तान् अवादीत्,
2 “The Kingdom of Heaven is like a certain king, who made a wedding feast for his son,
स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्,
3 and sent out his servants to call those who were invited to the wedding feast, but they would not come.
किन्तु ते समागन्तुं नेष्टवन्तः।
4 Again he sent out other servants, saying, ‘Tell those who are invited, “Behold, I have prepared my dinner. My cattle and my fatlings are killed, and all things are ready. Come to the wedding feast!”’
ततो राजा पुनरपि दासानन्यान् इत्युक्त्वा प्रेषयामास, निमन्त्रितान् वदत, पश्यत, मम भेज्यमासादितमास्ते, निजव्टषादिपुष्टजन्तून् मारयित्वा सर्व्वं खाद्यद्रव्यमासादितवान्, यूयं विवाहमागच्छत।
5 But they made light of it, and went their ways, one to his own farm, another to his merchandise;
तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः।
6 and the rest grabbed his servants, treated them shamefully, and killed them.
अन्ये लोकास्तस्य दासेयान् धृत्वा दौरात्म्यं व्यवहृत्य तानवधिषुः।
7 When the king heard that, he was angry, and sent his armies, destroyed those murderers, and burnt their city.
अनन्तरं स नृपतिस्तां वार्त्तां श्रुत्वा क्रुध्यन् सैन्यानि प्रहित्य तान् घातकान् हत्वा तेषां नगरं दाहयामास।
8 “Then he said to his servants, ‘The wedding is ready, but those who were invited weren’t worthy.
ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।
9 Go therefore to the intersections of the highways, and as many as you may find, invite to the wedding feast.’
तस्माद् यूयं राजमार्गं गत्वा यावतो मनुजान् पश्यत, तावतएव विवाहीयभोज्याय निमन्त्रयत।
10 Those servants went out into the highways and gathered together as many as they found, both bad and good. The wedding was filled with guests.
तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततोऽभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत।
11 “But when the king came in to see the guests, he saw there a man who didn’t have on wedding clothing,
तदानीं स राजा सर्व्वानभ्यागतान् द्रष्टुम् अभ्यन्तरमागतवान्; तदा तत्र विवाहीयवसनहीनमेकं जनं वीक्ष्य तं जगाद्,
12 and he said to him, ‘Friend, how did you come in here not wearing wedding clothing?’ He was speechless.
हे मित्र, त्वं विवाहीयवसनं विना कथमत्र प्रविष्टवान्? तेन स निरुत्तरो बभूव।
13 Then the king said to the servants, ‘Bind him hand and foot, take him away, and throw him into the outer darkness. That is where the weeping and grinding of teeth will be.’
तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षणञ्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।
14 For many are called, but few chosen.”
इत्थं बहव आहूता अल्पे मनोभिमताः।
15 Then the Pharisees went and took counsel how they might entrap him in his talk.
अनन्तरं फिरूशिनः प्रगत्य यथा संलापेन तम् उन्माथे पातयेयुस्तथा मन्त्रयित्वा
16 They sent their disciples to him, along with the Herodians, saying, “Rabbi, we know that you are honest, and teach the way of God in truth, no matter whom you teach; for you aren’t partial to anyone.
हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।
17 Tell us therefore, what do you think? Is it lawful to pay taxes to Caesar, or not?”
अतः कैसरभूपाय करोऽस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।
18 But Yeshua perceived their wickedness, and said, “Why do you test me, you hypocrites?
ततो यीशुस्तेषां खलतां विज्ञाय कथितवान्, रे कपटिनः युयं कुतो मां परिक्षध्वे?
19 Show me the tax money.” They brought to him a denarius.
तत्करदानस्य मुद्रां मां दर्शयत। तदानीं तैस्तस्य समीपं मुद्राचतुर्थभाग आनीते
20 He asked them, “Whose is this image and inscription?”
स तान् पप्रच्छ, अत्र कस्येयं मूर्त्ति र्नाम चास्ते? ते जगदुः, कैसरभूपस्य।
21 They said to him, “Caesar’s.” Then he said to them, “Give therefore to Caesar the things that are Caesar’s, and to God the things that are God’s.”
ततः स उक्तवान, कैसरस्य यत् तत् कैसराय दत्त, ईश्वरस्य यत् तद् ईश्वराय दत्त।
22 When they heard it, they marvelled, and left him and went away.
इति वाक्यं निशम्य ते विस्मयं विज्ञाय तं विहाय चलितवन्तः।
23 On that day Sadducees (those who say that there is no resurrection) came to him. They asked him,
तस्मिन्नहनि सिदूकिनोऽर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेारन्तिकम् आगत्य पप्रच्छुः,
24 saying, “Rabbi, Moses said, ‘If a man dies, having no children, his brother shall marry his wife and raise up offspring for his brother.’
हे गुरो, कश्चिन्मनुजश्चेत् निःसन्तानः सन् प्राणान् त्यजति, तर्हि तस्य भ्राता तस्य जायां व्युह्य भ्रातुः सन्तानम् उत्पादयिष्यतीति मूसा आदिष्टवान्।
25 Now there were with us seven brothers. The first married and died, and having no offspring left his wife to his brother.
किन्त्वस्माकमत्र केऽपि जनाः सप्तसहोदरा आसन्, तेषां ज्येष्ठ एकां कन्यां व्यवहात्, अपरं प्राणत्यागकाले स्वयं निःसन्तानः सन् तां स्त्रियं स्वभ्रातरि समर्पितवान्,
26 In the same way, the second also, and the third, to the seventh.
ततो द्वितीयादिसप्तमान्ताश्च तथैव चक्रुः।
27 After them all, the woman died.
शेषे सापी नारी ममार।
28 In the resurrection therefore, whose wife will she be of the seven? For they all had her.”
मृतानाम् उत्थानसमये तेषां सप्तानां मध्ये सा नारी कस्य भार्य्या भविष्यति? यस्मात् सर्व्वएव तां व्यवहन्।
29 But Yeshua answered them, “You are mistaken, not knowing the Scriptures, nor the power of God.
ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।
30 For in the resurrection they neither marry nor are given in marriage, but are like God’s angels in heaven.
उत्थानप्राप्ता लोका न विवहन्ति, न च वाचा दीयन्ते, किन्त्वीश्वरस्य स्वर्गस्थदूतानां सदृशा भवन्ति।
31 But concerning the resurrection of the dead, haven’t you read that which was spoken to you by God, saying,
अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,
32 ‘I am the God of Abraham, and the God of Isaac, and the God of Jacob’? God is not the God of the dead, but of the living.”
"अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर: , स मृतानामीश्वरो नहि।
33 When the multitudes heard it, they were astonished at his teaching.
इति श्रुत्वा सर्व्वे लोकास्तस्योपदेशाद् विस्मयं गताः।
34 But the Pharisees, when they heard that he had silenced the Sadducees, gathered themselves together.
अनन्तरं सिदूकिनाम् निरुत्तरत्ववार्तां निशम्य फिरूशिन एकत्र मिलितवन्तः,
35 One of them, a Torah scholar, asked him a question, testing him.
तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्छ,
36 “Rabbi, which is the greatest commandment in the law?”
हे गुरो व्यवस्थाशास्त्रमध्ये काज्ञा श्रेष्ठा?
37 Yeshua said to him, “‘You shall love the Lord your God with all your heart, with all your soul, and with all your mind.’
ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
38 This is the first and great commandment.
एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा,
39 A second likewise is this, ‘You shall love your neighbour as yourself.’
तव समीपवासिनि स्वात्मनीव प्रेम कुरु।
40 The whole Torah and the Prophets depend on these two commandments.”
अनयो र्द्वयोराज्ञयोः कृत्स्नव्यवस्थाया भविष्यद्वक्तृग्रन्थस्य च भारस्तिष्ठति।
41 Now while the Pharisees were gathered together, Yeshua asked them a question,
अनन्तरं फिरूशिनाम् एकत्र स्थितिकाले यीशुस्तान् पप्रच्छ,
42 saying, “What do you think of the Messiah? Whose son is he?” They said to him, “Of David.”
ख्रीष्टमधि युष्माकं कीदृग्बोधो जायते? स कस्य सन्तानः? ततस्ते प्रत्यवदन्, दायूदः सन्तानः।
43 He said to them, “How then does David in the Spirit call him Lord, saying,
तदा स उक्तवान्, तर्हि दायूद् कथम् आत्माधिष्ठानेन तं प्रभुं वदति?
44 ‘The Lord said to my Lord, sit on my right hand, until I make your enemies a footstool for your feet’?
यथा मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तवारीन् पादपीठं ते यावन्नहि करोम्यहं। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश। अतो यदि दायूद् तं प्रभुं वदति, र्तिह स कथं तस्य सन्तानो भवति?
45 “If then David calls him Lord, how is he his son?”
तदानीं तेषां कोपि तद्वाक्यस्य किमप्युत्तरं दातुं नाशक्नोत्;
46 No one was able to answer him a word, neither did any man dare ask him any more questions from that day forward.
तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्।

< Matthew 22 >