< Yochanan 7 >

1 After these things, Yeshua was walking in Galilee, for he wouldn’t walk in Judea, because the Judeans sought to kill him.
ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।
2 Now the Jewish festival, the Feast of Sukkot, was at hand.
किन्तु तस्मिन् समये यिहूदीयानां दूष्यवासनामोत्सव उपस्थिते
3 His brothers therefore said to him, “Depart from here and go into Judea, that your disciples also may see your works which you do.
तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।
4 For no one does anything in secret while he seeks to be known openly. If you do these things, reveal yourself to the world.”
यः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय।
5 For even his brothers didn’t believe in him.
यतस्तस्य भ्रातरोपि तं न विश्वसन्ति।
6 Yeshua therefore said to them, “My time has not yet come, but your time is always ready.
तदा यीशुस्तान् अवोचत् मम समय इदानीं नोपतिष्ठति किन्तु युष्माकं समयः सततम् उपतिष्ठति।
7 The world can’t hate you, but it hates me, because I testify about it, that its works are evil.
जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।
8 You go up to the feast. I am not yet going up to this feast, because my time is not yet fulfilled.”
अतएव यूयम् उत्सवेऽस्मिन् यात नाहम् इदानीम् अस्मिन्नुत्सवे यामि यतो मम समय इदानीं न सम्पूर्णः।
9 Having said these things to them, he stayed in Galilee.
इति वाक्यम् उक्त्त्वा स गालीलि स्थितवान्
10 But when his brothers had gone up to the feast, then he also went up, not publicly, but as it were in secret.
किन्तु तस्य भ्रातृषु तत्र प्रस्थितेषु सत्सु सोऽप्रकट उत्सवम् अगच्छत्।
11 The Judeans therefore sought him at the feast, and said, “Where is he?”
अनन्तरम् उत्सवम् उपस्थिता यिहूदीयास्तं मृगयित्वापृच्छन् स कुत्र?
12 There was much murmuring amongst the multitudes concerning him. Some said, “He is a good man.” Others said, “Not so, but he leads the multitude astray.”
ततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति।
13 Yet no one spoke openly of him for fear of the Judeans.
किन्तु यिहूदीयानां भयात् कोपि तस्य पक्षे स्पष्टं नाकथयत्।
14 But when it was now the middle of the feast, Yeshua went up into the temple and taught.
ततः परम् उत्सवस्य मध्यसमये यीशु र्मन्दिरं गत्वा समुपदिशति स्म।
15 The Judeans therefore marvelled, saying, “How does this man know letters, having never been educated?”
ततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्?
16 Yeshua therefore answered them, “My teaching is not mine, but his who sent me.
तदा यीशुः प्रत्यवोचद् उपदेशोयं न मम किन्तु यो मां प्रेषितवान् तस्य।
17 If anyone desires to do his will, he will know about the teaching, whether it is from God or if I am speaking from myself.
यो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति।
18 He who speaks from himself seeks his own glory, but he who seeks the glory of him who sent him is true, and no unrighteousness is in him.
यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।
19 Didn’t Moses give you the Torah, and yet none of you keeps the Torah? Why do you seek to kill me?”
मूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे?
20 The multitude answered, “You have a demon! Who seeks to kill you?”
तदा लोका अवदन् त्वं भूतग्रस्तस्त्वां हन्तुं को यतते?
21 Yeshua answered them, “I did one work and you all marvel because of it.
ततो यीशुरवोचद् एकं कर्म्म मयाकारि तस्माद् यूयं सर्व्व महाश्चर्य्यं मन्यध्वे।
22 Moses has given you circumcision (not that it is of Moses, but of the fathers), and on the Sabbath you circumcise a boy.
मूसा युष्मभ्यं त्वक्छेदविधिं प्रददौ स मूसातो न जातः किन्तु पितृपुरुषेभ्यो जातः तेन विश्रामवारेऽपि मानुषाणां त्वक्छेदं कुरुथ।
23 If a boy receives circumcision on the Sabbath, that the Torah of Moses may not be broken, are you angry with me because I made a man completely healthy on the Sabbath?
अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ?
24 Don’t judge according to appearance, but judge righteous judgement.”
सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।
25 Therefore some of them of Jerusalem said, “Isn’t this he whom they seek to kill?
तदा यिरूशालम् निवासिनः कतिपयजना अकथयन् इमे यं हन्तुं चेष्टन्ते स एवायं किं न?
26 Behold, he speaks openly, and they say nothing to him. Can it be that the rulers indeed know that this is truly the Messiah?
किन्तु पश्यत निर्भयः सन् कथां कथयति तथापि किमपि अ वदन्त्येते अयमेवाभिषिक्त्तो भवतीति निश्चितं किमधिपतयो जानन्ति?
27 However, we know where this man comes from, but when the Messiah comes, no one will know where he comes from.”
मनुजोयं कस्मादागमद् इति वयं जानोमः किन्त्वभिषिक्त्त आगते स कस्मादागतवान् इति कोपि ज्ञातुं न शक्ष्यति।
28 Yeshua therefore cried out in the temple, teaching and saying, “You both know me, and know where I am from. I have not come of myself, but he who sent me is true, whom you don’t know.
तदा यीशु र्मध्येमन्दिरम् उपदिशन् उच्चैःकारम् उक्त्तवान् यूयं किं मां जानीथ? कस्माच्चागतोस्मि तदपि किं जानीथ? नाहं स्वत आगतोस्मि किन्तु यः सत्यवादी सएव मां प्रेषितवान् यूयं तं न जानीथ।
29 I know him, because I am from him, and he sent me.”
तमहं जाने तेनाहं प्रेरित अगतोस्मि।
30 They sought therefore to take him; but no one laid a hand on him, because his hour had not yet come.
तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।
31 But of the multitude, many believed in him. They said, “When the Messiah comes, he won’t do more signs than those which this man has done, will he?”
किन्तु बहवो लोकास्तस्मिन् विश्वस्य कथितवान्तोऽभिषिक्त्तपुरुष आगत्य मानुषस्यास्य क्रियाभ्यः किम् अधिका आश्चर्य्याः क्रियाः करिष्यति?
32 The Pharisees heard the multitude murmuring these things concerning him, and the chief priests and the Pharisees sent officers to arrest him.
ततः परं लोकास्तस्मिन् इत्थं विवदन्ते फिरूशिनः प्रधानयाजकाञ्चेति श्रुतवन्तस्तं धृत्वा नेतुं पदातिगणं प्रेषयामासुः।
33 Then Yeshua said, “I will be with you a little while longer, then I go to him who sent me.
ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।
34 You will seek me and won’t find me. You can’t come where I am.”
मां मृगयिष्यध्वे किन्तूद्देशं न लप्स्यध्वे रत्र स्थास्यामि तत्र यूयं गन्तुं न शक्ष्यथ।
35 The Judeans therefore said amongst themselves, “Where will this man go that we won’t find him? Will he go to the Diaspora amongst the Greeks and teach the Greeks?
तदा यिहूदीयाः परस्परं वक्त्तुमारेभिरे अस्योद्देशं न प्राप्स्याम एतादृशं किं स्थानं यास्यति? भिन्नदेशे विकीर्णानां यिहूदीयानां सन्निधिम् एष गत्वा तान् उपदेक्ष्यति किं?
36 What is this word that he said, ‘You will seek me, and won’t find me;’ and ‘Where I am, you can’t come’?”
नो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति?
37 Now on the last and greatest day of the feast, Yeshua stood and cried out, “If anyone is thirsty, let him come to me and drink!
अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।
38 He who believes in me, as the Scripture has said, from within him will flow rivers of living water.”
यः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति।
39 But he said this about the Spirit, which those believing in him were to receive. For the Holy Spirit was not yet given, because Yeshua wasn’t yet glorified.
ये तस्मिन् विश्वसन्ति त आत्मानं प्राप्स्यन्तीत्यर्थे स इदं वाक्यं व्याहृतवान् एतत्कालं यावद् यीशु र्विभवं न प्राप्तस्तस्मात् पवित्र आत्मा नादीयत।
40 Many of the multitude therefore, when they heard these words, said, “This is truly the Prophet.”
एतां वाणीं श्रुत्वा बहवो लोका अवदन् अयमेव निश्चितं स भविष्यद्वादी।
41 Others said, “This is the Messiah.” But some said, “What, does the Messiah come out of Galilee?
केचिद् अकथयन् एषएव सोभिषिक्त्तः किन्तु केचिद् अवदन् सोभिषिक्त्तः किं गालील् प्रदेशे जनिष्यते?
42 Hasn’t the Scripture said that the Messiah comes of the offspring of David, and from Bethlehem, the village where David was?”
सोभिषिक्त्तो दायूदो वंशे दायूदो जन्मस्थाने बैत्लेहमि पत्तने जनिष्यते धर्म्मग्रन्थे किमित्थं लिखितं नास्ति?
43 So a division arose in the multitude because of him.
इत्थं तस्मिन् लोकानां भिन्नवाक्यता जाता।
44 Some of them would have arrested him, but no one laid hands on him.
कतिपयलोकास्तं धर्त्तुम् ऐच्छन् तथापि तद्वपुषि कोपि हस्तं नार्पयत्।
45 The officers therefore came to the chief priests and Pharisees; and they said to them, “Why didn’t you bring him?”
अनन्तरं पादातिगणे प्रधानयाजकानां फिरूशिनाञ्च समीपमागतवति ते तान् अपृच्छन् कुतो हेतोस्तं नानयत?
46 The officers answered, “No man ever spoke like this man!”
तदा पदातयः प्रत्यवदन् स मानव इव कोपि कदापि नोपादिशत्।
47 The Pharisees therefore answered them, “You aren’t also led astray, are you?
ततः फिरूशिनः प्रावोचन् यूयमपि किमभ्रामिष्ट?
48 Have any of the rulers or any of the Pharisees believed in him?
अधिपतीनां फिरूशिनाञ्च कोपि किं तस्मिन् व्यश्वसीत्?
49 But this multitude that doesn’t know the Torah is cursed.”
ये शास्त्रं न जानन्ति त इमेऽधमलोकाएव शापग्रस्ताः।
50 Nicodemus (he who came to him by night, being one of them) said to them,
तदा निकदीमनामा तेषामेको यः क्षणदायां यीशोः सन्निधिम् अगात् स उक्त्तवान्
51 “Does our Torah judge a man unless it first hears from him personally and knows what he does?”
तस्य वाक्ये न श्रुते कर्म्मणि च न विदिते ऽस्माकं व्यवस्था किं कञ्चन मनुजं दोषीकरोति?
52 They answered him, “Are you also from Galilee? Search and see that no prophet has arisen out of Galilee.”
ततस्ते व्याहरन् त्वमपि किं गालीलीयलोकः? विविच्य पश्य गलीलि कोपि भविष्यद्वादी नोत्पद्यते।
53 Everyone went to his own house,
ततः परं सर्व्वे स्वं स्वं गृहं गताः किन्तु यीशु र्जैतुननामानं शिलोच्चयं गतवान्।

< Yochanan 7 >