< Acts 19 >

1 While Apollos was at Corinth, Paul, having passed through the upper country, came to Ephesus and found certain disciples.
करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,
2 He said to them, “Did you receive the Holy Spirit when you believed?” They said to him, “No, we haven’t even heard that there is a Holy Spirit.”
यूयं विश्वस्य पवित्रमात्मानं प्राप्ता न वा? ततस्ते प्रत्यवदन् पवित्र आत्मा दीयते इत्यस्माभिः श्रुतमपि नहि।
3 He said, “Into what then were you baptized?” They said, “Into John’s baptism.”
तदा साऽवदत् तर्हि यूयं केन मज्जिता अभवत? तेऽकथयन् योहनो मज्जनेन।
4 Paul said, “John indeed baptized with the baptism of repentance, saying to the people that they should believe in the one who would come after him, that is, in Christ Jesus.”
तदा पौल उक्तवान् इतः परं य उपस्थास्यति तस्मिन् अर्थत यीशुख्रीष्टे विश्वसितव्यमित्युक्त्वा योहन् मनःपरिवर्त्तनसूचकेन मज्जनेन जले लोकान् अमज्जयत्।
5 When they heard this, they were baptized in the name of the Lord Jesus.
तादृशीं कथां श्रुत्वा ते प्रभो र्यीशुख्रीष्टस्य नाम्ना मज्जिता अभवन्।
6 When Paul had laid his hands on them, the Holy Spirit came on them and they spoke with other languages and prophesied.
ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।
7 They were about twelve men in all.
ते प्रायेण द्वादशजना आसन्।
8 He entered into the synagogue and spoke boldly for a period of three months, reasoning and persuading about the things concerning God’s Kingdom.
पौलो भजनभवनं गत्वा प्रायेण मासत्रयम् ईश्वरस्य राज्यस्य विचारं कृत्वा लोकान् प्रवर्त्य साहसेन कथामकथयत्।
9 But when some were hardened and disobedient, speaking evil of the Way before the multitude, he departed from them and separated the disciples, reasoning daily in the school of Tyrannus.
किन्तु कठिनान्तःकरणत्वात् कियन्तो जना न विश्वस्य सर्व्वेषां समक्षम् एतत्पथस्य निन्दां कर्त्तुं प्रवृत्ताः, अतः पौलस्तेषां समीपात् प्रस्थाय शिष्यगणं पृथक्कृत्वा प्रत्यहं तुरान्ननाम्नः कस्यचित् जनस्य पाठशालायां विचारं कृतवान्।
10 This continued for two years, so that all those who lived in Asia heard the word of the Lord Jesus, both Jews and Greeks.
इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।
11 God worked special miracles by the hands of Paul,
पौलेन च ईश्वर एतादृशान्यद्भुतानि कर्म्माणि कृतवान्
12 so that even handkerchiefs or aprons were carried away from his body to the sick, and the diseases departed from them, and the evil spirits went out.
यत् परिधेये गात्रमार्जनवस्त्रे वा तस्य देहात् पीडितलोकानाम् समीपम् आनीते ते निरामया जाता अपवित्रा भूताश्च तेभ्यो बहिर्गतवन्तः।
13 But some of the itinerant Jews, exorcists, took on themselves to invoke over those who had the evil spirits the name of the Lord Jesus, saying, “We adjure you by Jesus whom Paul preaches.”
तदा देशाटनकारिणः कियन्तो यिहूदीया भूतापसारिणो भूतग्रस्तनोकानां सन्निधौ प्रभे र्यीशो र्नाम जप्त्वा वाक्यमिदम् अवदन्, यस्य कथां पौलः प्रचारयति तस्य यीशो र्नाम्ना युष्मान् आज्ञापयामः।
14 There were seven sons of one Sceva, a Jewish chief priest, who did this.
स्किवनाम्नो यिहूदीयानां प्रधानयाजकस्य सप्तभिः पुत्तैस्तथा कृते सति
15 The evil spirit answered, “Jesus I know, and Paul I know, but who are you?”
कश्चिद् अपवित्रो भूतः प्रत्युदितवान्, यीशुं जानामि पौलञ्च परिचिनोमि किन्तु के यूयं?
16 The man in whom the evil spirit was leaped on them, overpowered them, and prevailed against them, so that they fled out of that house naked and wounded.
इत्युक्त्वा सोपवित्रभूतग्रस्तो मनुष्यो लम्फं कृत्वा तेषामुपरि पतित्वा बलेन तान् जितवान्, तस्मात्ते नग्नाः क्षताङ्गाश्च सन्तस्तस्माद् गेहात् पलायन्त।
17 This became known to all, both Jews and Greeks, who lived at Ephesus. Fear fell on them all, and the name of the Lord Jesus was magnified.
सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।
18 Many also of those who had believed came, confessing and declaring their deeds.
येषामनेकेषां लोकानां प्रतीतिरजायत त आगत्य स्वैः कृताः क्रियाः प्रकाशरूपेणाङ्गीकृतवन्तः।
19 Many of those who practiced magical arts brought their books together and burned them in the sight of all. They counted their price, and found it to be fifty thousand pieces of silver.
बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।
20 So the word of the Lord was growing and becoming mighty.
इत्थं प्रभोः कथा सर्व्वदेशं व्याप्य प्रबला जाता।
21 Now after these things had ended, Paul determined in the Spirit, when he had passed through Macedonia and Achaia, to go to Jerusalem, saying, “After I have been there, I must also see Rome.”
सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।
22 Having sent into Macedonia two of those who served him, Timothy and Erastus, he himself stayed in Asia for a while.
स्वानुगतलोकानां तीमथियेरास्तौ द्वौ जनौ माकिदनियादेशं प्रति प्रहित्य स्वयम् आशियादेशे कतिपयदिनानि स्थितवान्।
23 About that time there arose no small disturbance concerning the Way.
किन्तु तस्मिन् समये मतेऽस्मिन् कलहो जातः।
24 For a certain man named Demetrius, a silversmith who made silver shrines of Artemis, brought no little business to the craftsmen,
तत्कारणमिदं, अर्त्तिमीदेव्या रूप्यमन्दिरनिर्म्माणेन सर्व्वेषां शिल्पिनां यथेष्टलाभम् अजनयत् यो दीमीत्रियनामा नाडीन्धमः
25 whom he gathered together with the workmen of like occupation, and said, “Sirs, you know that by this business we have our wealth.
स तान् तत्कर्म्मजीविनः सर्व्वलोकांश्च समाहूय भाषितवान् हे महेच्छा एतेन मन्दिरनिर्म्माणेनास्माकं जीविका भवति, एतद् यूयं वित्थ;
26 You see and hear that not at Ephesus alone, but almost throughout all Asia, this Paul has persuaded and turned away many people, saying that they are no gods that are made with hands.
किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।
27 Not only is there danger that this our trade come into disrepute, but also that the temple of the great goddess Artemis will be counted as nothing and her majesty destroyed, whom all Asia and the world worships.”
तेनास्माकं वाणिज्यस्य सर्व्वथा हानेः सम्भवनं केवलमिति नहि, आशियादेशस्थै र्वा सर्व्वजगत्स्थै र्लोकैः पूज्या यार्तिमी महादेवी तस्या मन्दिरस्यावज्ञानस्य तस्या ऐश्वर्य्यस्य नाशस्य च सम्भावना विद्यतेे।
28 When they heard this they were filled with anger, and cried out, saying, “Great is Artemis of the Ephesians!”
एतादृशीं कथां श्रुत्वा ते महाक्रोधान्विताः सन्त उच्चैःकारं कथितवन्त इफिषीयानाम् अर्त्तिमी देवी महती भवति।
29 The whole city was filled with confusion, and they rushed with one accord into the theater, having seized Gaius and Aristarchus, men of Macedonia, Paul’s companions in travel.
ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।
30 When Paul wanted to enter in to the people, the disciples didn’t allow him.
ततः पौलो लोकानां सन्निधिं यातुम् उद्यतवान् किन्तु शिष्यगणस्तं वारितवान्।
31 Certain also of the Asiarchs, being his friends, sent to him and begged him not to venture into the theater.
पौलस्यत्मीया आशियादेशस्थाः कतिपयाः प्रधानलोकास्तस्य समीपं नरमेकं प्रेष्य त्वं रङ्गभूमिं मागा इति न्यवेदयन्।
32 Some therefore cried one thing, and some another, for the assembly was in confusion. Most of them didn’t know why they had come together.
ततो नानालोकानां नानाकथाकथनात् सभा व्याकुला जाता किं कारणाद् एतावती जनताभवत् एतद् अधिकै र्लोकै र्नाज्ञायि।
33 They brought Alexander out of the multitude, the Jews putting him forward. Alexander beckoned with his hand, and would have made a defense to the people.
ततः परं जनतामध्याद् यिहूदीयैर्बहिष्कृतः सिकन्दरो हस्तेन सङ्केतं कृत्वा लोकेभ्य उत्तरं दातुमुद्यतवान्,
34 But when they perceived that he was a Jew, all with one voice for a time of about two hours cried out, “Great is Artemis of the Ephesians!”
किन्तु स यिहूदीयलोक इति निश्चिते सति इफिषीयानाम् अर्त्तिमी देवी महतीति वाक्यं प्रायेण पञ्च दण्डान् यावद् एकस्वरेण लोकनिवहैः प्रोक्तं।
35 When the town clerk had quieted the multitude, he said, “You men of Ephesus, what man is there who doesn’t know that the city of the Ephesians is temple keeper of the great goddess Artemis, and of the image which fell down from Zeus?
ततो नगराधिपतिस्तान् स्थिरान् कृत्वा कथितवान् हे इफिषायाः सर्व्वे लोका आकर्णयत, अर्तिमीमहादेव्या महादेवात् पतितायास्तत्प्रतिमायाश्च पूजनम इफिषनगरस्थाः सर्व्वे लोकाः कुर्व्वन्ति, एतत् के न जानन्ति?
36 Seeing then that these things can’t be denied, you ought to be quiet and to do nothing rash.
तस्माद् एतत्प्रतिकूलं केपि कथयितुं न शक्नुवन्ति, इति ज्ञात्वा युष्माभिः सुस्थिरत्वेन स्थातव्यम् अविविच्य किमपि कर्म्म न कर्त्तव्यञ्च।
37 For you have brought these men here, who are neither robbers of temples nor blasphemers of your goddess.
यान् एतान् मनुष्यान् यूयमत्र समानयत ते मन्दिरद्रव्यापहारका युष्माकं देव्या निन्दकाश्च न भवन्ति।
38 If therefore Demetrius and the craftsmen who are with him have a matter against anyone, the courts are open and there are proconsuls. Let them press charges against one another.
यदि कञ्चन प्रति दीमीत्रियस्य तस्य सहायानाञ्च काचिद् आपत्ति र्विद्यते तर्हि प्रतिनिधिलोका विचारस्थानञ्च सन्ति, ते तत् स्थानं गत्वा उत्तरप्रत्युत्तरे कुर्व्वन्तु।
39 But if you seek anything about other matters, it will be settled in the regular assembly.
किन्तु युष्माकं काचिदपरा कथा यदि तिष्ठति तर्हि नियमितायां सभायां तस्या निष्पत्ति र्भविष्यति।
40 For indeed we are in danger of being accused concerning today’s riot, there being no cause. Concerning it, we wouldn’t be able to give an account of this commotion.”
किन्त्वेतस्य विरोधस्योत्तरं येन दातुं शक्नुम् एतादृशस्य कस्यचित् कारणस्याभावाद् अद्यतनघटनाहेतो राजद्रोहिणामिवास्माकम् अभियोगो भविष्यतीति शङ्का विद्यते।
41 When he had thus spoken, he dismissed the assembly.
इति कथयित्वा स सभास्थलोकान् विसृष्टवान्।

< Acts 19 >