< Acts 22 >

1 “Brothers and fathers, listen to my defense which I will now make to you.”
हे पितृगणा हे भ्रातृगणाः, इदानीं मम निवेदने समवधत्त।
2 When the crowd heard Paul speak to them in the Hebrew language, they became quiet. He said,
तदा स इब्रीयभाषया कथां कथयतीति श्रुत्वा सर्व्वे लोका अतीव निःशब्दा सन्तोऽतिष्ठन्।
3 “I am a Jew, born in Tarsus of Cilicia, but educated in this city at the feet of Gamaliel. I was instructed according to the strict ways of the law of our fathers. I am zealous for God, just as all of you are today.
पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः, एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।
4 I persecuted this Way to the death, binding up and delivering them to prison both men and women,
मतमेतद् द्विष्ट्वा तद्ग्राहिनारीपुरुषान् कारायां बद्ध्वा तेषां प्राणनाशपर्य्यन्तां विपक्षताम् अकरवम्।
5 as the high priest and all the elders can bear witness. I received letters from them for the brothers in Damascus, and went there to bring them back in bonds to Jerusalem in order for them to be punished.
महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।
6 It happened that when I was traveling and nearing Damascus, about noon suddenly a great light from heaven began to shine around me.
किन्तु गच्छन् तन्नगरस्य समीपं प्राप्तवान् तदा द्वितीयप्रहरवेलायां सत्याम् अकस्माद् गगणान्निर्गत्य महती दीप्ति र्मम चतुर्दिशि प्रकाशितवती।
7 I fell to the ground and heard a voice say to me, 'Saul, Saul, why are you persecuting me?'
ततो मयि भूमौै पतिते सति, हे शौल हे शौल कुतो मां ताडयसि? माम्प्रति भाषित एतादृश एको रवोपि मया श्रुतः।
8 I answered, 'Who are you, Lord?' He said to me, 'I am Jesus of Nazareth, whom you are persecuting.'
तदाहं प्रत्यवदं, हे प्रभे को भवान्? ततः सोऽवादीत् यं त्वं ताडयसि स नासरतीयो यीशुरहं।
9 Those who were with me saw the light, but they did not understand the voice of him who spoke to me.
मम सङ्गिनो लोकास्तां दीप्तिं दृष्ट्वा भियं प्राप्ताः, किन्तु माम्प्रत्युदितं तद्वाक्यं तेे नाबुध्यन्त।
10 I said, 'What should I do, Lord?' The Lord said to me, 'Arise and go into Damascus; there you will be told everything that you must do.'
ततः परं पृष्टवानहं, हे प्रभो मया किं कर्त्तव्यं? ततः प्रभुरकथयत्, उत्थाय दम्मेषकनगरं याहि त्वया यद्यत् कर्त्तव्यं निरूपितमास्ते तत् तत्र त्वं ज्ञापयिष्यसे।
11 I could not see because of that light's brightness, and being led by the hands of those who were with me, I came into Damascus.
अनन्तरं तस्याः खरतरदीप्तेः कारणात् किमपि न दृष्ट्वा सङ्गिगणेन धृतहस्तः सन् दम्मेषकनगरं व्रजितवान्।
12 There I met a man named Ananias, a devout man according to the law and well spoken of by all the Jews who lived there.
तन्नगरनिवासिनां सर्व्वेषां यिहूदीयानां मान्यो व्यवस्थानुसारेण भक्तश्च हनानीयनामा मानव एको
13 He came to me, stood by me, and said, 'Brother Saul, receive your sight.' In that very hour I saw him.
मम सन्निधिम् एत्य तिष्ठन् अकथयत्, हे भ्रातः शौल सुदृष्टि र्भव तस्मिन् दण्डेऽहं सम्यक् तं दृष्टवान्।
14 Then he said, 'The God of our fathers has chosen you to know his will, to see the Righteous One, and to hear the voice coming from his own mouth.
ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।
15 For you shall be a witness for him to all men about what you have seen and heard.
यतो यद्यद् अद्राक्षीरश्रौषीश्च सर्व्वेषां मानवानां समीपे त्वं तेषां साक्षी भविष्यसि।
16 Now why are you waiting? Arise, be baptized, and wash away your sins, calling on his name.'
अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ।
17 After I had returned to Jerusalem, and while I was praying in the temple, it happened that I was given a vision.
ततः परं यिरूशालम्नगरं प्रत्यागत्य मन्दिरेऽहम् एकदा प्रार्थये, तस्मिन् समयेऽहम् अभिभूतः सन् प्रभूं साक्षात् पश्यन्,
18 I saw him say to me, 'Hurry and leave Jerusalem quickly, because they will not accept your testimony about me.'
त्वं त्वरया यिरूशालमः प्रतिष्ठस्व यतो लोकामयि तव साक्ष्यं न ग्रहीष्यन्ति, माम्प्रत्युदितं तस्येदं वाक्यम् अश्रौषम्।
19 I said, 'Lord, they themselves know that I imprisoned and beat those who believed in you in every synagogue.
ततोहं प्रत्यवादिषम् हे प्रभो प्रतिभजनभवनं त्वयि विश्वासिनो लोकान् बद्ध्वा प्रहृतवान्,
20 When the blood of Stephen your witness was spilled, I also was standing by and agreeing, and I was guarding the cloaks of those who killed him.'
तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः।
21 But he said to me, 'Go, because I will send you far away to the Gentiles.'”
ततः सोऽकथयत् प्रतिष्ठस्व त्वां दूरस्थभिन्नदेशीयानां समीपं प्रेषयिष्ये।
22 They listened to him until he said this. Then they shouted and said, “Away with such a fellow from the earth, for it is not right that he should live.”
तदा लोका एतावत्पर्य्यन्तां तदीयां कथां श्रुत्वा प्रोच्चैरकथयन्, एनं भूमण्डलाद् दूरीकुरुत, एतादृशजनस्य जीवनं नोचितम्।
23 As they were shouting, throwing off their cloaks, and throwing dust into the air,
इत्युच्चैः कथयित्वा वसनानि परित्यज्य गगणं प्रति धूलीरक्षिपन्
24 the chief captain commanded Paul to be brought into the fortress. He ordered that he should be questioned with scourging, so that he himself might know why they were shouting against him like that.
ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्।
25 When they had tied him up with the thongs, Paul said to the centurion who was standing by, “Is it lawful for you to scourge a man who is a Roman and who has not been put on trial?”
पदातयश्चर्म्मनिर्म्मितरज्जुभिस्तस्य बन्धनं कर्त्तुमुद्यतास्तास्तदानीं पौलः सम्मुखस्थितं शतसेनापतिम् उक्तवान् दण्डाज्ञायाम् अप्राप्तायां किं रोमिलोकं प्रहर्त्तुं युष्माकम् अधिकारोस्ति?
26 When the centurion heard this, he went to the chief captain and told him, saying, “What are you about to do? For this man is a Roman citizen.”
एनां कथां श्रुत्वा स सहस्रसेनापतेः सन्निधिं गत्वा तां वार्त्तामवदत् स रोमिलोक एतस्मात् सावधानः सन् कर्म्म कुरु।
27 The chief captain came and said to him, “Tell me, are you a Roman citizen?” Paul said, “Yes.”
तस्मात् सहस्रसेनापति र्गत्वा तमप्राक्षीत् त्वं किं रोमिलोकः? इति मां ब्रूहि। सोऽकथयत् सत्यम्।
28 The chief captain answered, “It was only with a large amount of money that I acquired citizenship.” But Paul said, “I was born a Roman citizen.”
ततः सहस्रसेनापतिः कथितवान् बहुद्रविणं दत्त्वाहं तत् पौरसख्यं प्राप्तवान्; किन्तु पौलः कथितवान् अहं जनुना तत् प्राप्तोऽस्मि।
29 Then the men who were going to question him left him immediately. The chief captain also was afraid, when he learned that Paul was a Roman citizen, because he had tied him up.
इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज्ञाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्।
30 On the next day, the chief captain wanted to know the truth about the Jews' accusations against Paul. So he untied his bonds and ordered the chief priests and all the council to meet. Then he brought Paul down and placed him in their midst.
यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।

< Acts 22 >