< Luke 9 >

1 And he called the twelve together, and gave them power and authority over all devils, and to cure diseases.
ततः परं स द्वादशशिष्यानाहूय भूतान् त्याजयितुं रोगान् प्रतिकर्त्तुञ्च तेभ्यः शक्तिमाधिपत्यञ्च ददौ।
2 And he sent them forth to preach the kingdom of God, and to heal the sick.
अपरञ्च ईश्वरीयराज्यस्य सुसंवादं प्रकाशयितुम् रोगिणामारोग्यं कर्त्तुञ्च प्रेरणकाले तान् जगाद।
3 And he said unto them, Take nothing for your journey, neither staff, nor wallet, nor bread, nor money; neither have two coats.
यात्रार्थं यष्टि र्वस्त्रपुटकं भक्ष्यं मुद्रा द्वितीयवस्त्रम्, एषां किमपि मा गृह्लीत।
4 And into whatsoever house ye enter, there abide, and thence depart.
यूयञ्च यन्निवेशनं प्रविशथ नगरत्यागपर्य्यनतं तन्निवेशने तिष्ठत।
5 And as many as receive you not, when ye depart from that city, shake off the dust from your feet for a testimony against them.
तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।
6 And they departed, and went throughout the villages, preaching the gospel, and healing everywhere.
अथ ते प्रस्थाय सर्व्वत्र सुसंवादं प्रचारयितुं पीडितान् स्वस्थान् कर्त्तुञ्च ग्रामेषु भ्रमितुं प्रारेभिरे।
7 Now Herod the tetrarch heard of all that was done: and he was much perplexed, because that it was said by some, that John was risen from the dead;
एतर्हि हेरोद् राजा यीशोः सर्व्वकर्म्मणां वार्त्तां श्रुत्वा भृशमुद्विविजे
8 and by some, that Elijah had appeared; and by others, that one of the old prophets was risen again.
यतः केचिदूचुर्योहन् श्मशानादुदतिष्ठत्। केचिदूचुः, एलियो दर्शनं दत्तवान्; एवमन्यलोका ऊचुः पूर्व्वीयः कश्चिद् भविष्यद्वादी समुत्थितः।
9 And Herod said, John I beheaded: but who is this, about whom I hear such things? And he sought to see him.
किन्तु हेरोदुवाच योहनः शिरोऽहमछिनदम् इदानीं यस्येदृक्कर्म्मणां वार्त्तां प्राप्नोमि स कः? अथ स तं द्रष्टुम् ऐच्छत्।
10 And the apostles, when they were returned, declared unto him what things they had done. And he took them, and withdrew apart to a city called Bethsaida.
अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।
11 But the multitudes perceiving it followed him: and he welcomed them, and spake to them of the kingdom of God, and them that had need of healing he healed.
पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।
12 And the day began to wear away; and the twelve came, and said unto him, Send the multitude away, that they may go into the villages and country round about, and lodge, and get victuals: for we are here in a desert place.
अपरञ्च दिवावसन्ने सति द्वादशशिष्या यीशोरन्तिकम् एत्य कथयामासुः, वयमत्र प्रान्तरस्थाने तिष्ठामः, ततो नगराणि ग्रामाणि गत्वा वासस्थानानि प्राप्य भक्ष्यद्रव्याणि क्रेतुं जननिवहं भवान् विसृजतु।
13 But he said unto them, Give ye them to eat. And they said, We have no more than five loaves and two fishes; except we should go and buy food for all this people.
तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।
14 For they were about five thousand men. And he said unto his disciples, Make them sit down in companies, about fifty each.
तत्र प्रायेण पञ्चसहस्राणि पुरुषा आसन्।
15 And they did so, and made them all sit down.
तदा स शिष्यान् जगाद पञ्चाशत् पञ्चाशज्जनैः पंक्तीकृत्य तानुपवेशयत, तस्मात् ते तदनुसारेण सर्व्वलोकानुपवेशयापासुः।
16 And he took the five loaves and the two fishes, and looking up to heaven, he blessed them, and brake; and gave to the disciples to set before the multitude.
ततः स तान् पञ्च पूपान् मीनद्वयञ्च गृहीत्वा स्वर्गं विलोक्येश्वरगुणान् कीर्त्तयाञ्चक्रे भङ्क्ता च लोकेभ्यः परिवेषणार्थं शिष्येषु समर्पयाम्बभूव।
17 And they did eat, and were all filled: and there was taken up that which remained over to them of broken pieces, twelve baskets.
ततः सर्व्वे भुक्त्वा तृप्तिं गता अवशिष्टानाञ्च द्वादश डल्लकान् संजगृहुः।
18 And it came to pass, as he was praying alone, the disciples were with him: and he asked them, saying, Who do the multitudes say that I am?
अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?
19 And they answering said, John the Baptist; but others [say], Elijah; and others, that one of the old prophets is risen again.
ततस्ते प्राचुः, त्वां योहन्मज्जकं वदन्ति; केचित् त्वाम् एलियं वदन्ति, पूर्व्वकालिकः कश्चिद् भविष्यद्वादी श्मशानाद् उदतिष्ठद् इत्यपि केचिद् वदन्ति।
20 And he said unto them, But who say ye that I am? And Peter answering said, The Christ of God.
तदा स उवाच, यूयं मां कं वदथ? ततः पितर उक्तवान् त्वम् ईश्वराभिषिक्तः पुरुषः।
21 But he charged them, and commanded [them] to tell this to no man;
तदा स तान् दृढमादिदेश, कथामेतां कस्मैचिदपि मा कथयत।
22 saying, The Son of man must suffer many things, and be rejected of the elders and chief priests and scribes, and be killed, and the third day be raised up.
स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।
23 And he said unto all, If any man would come after me, let him deny himself, and take up his cross daily, and follow me.
अपरं स सर्व्वानुवाच, कश्चिद् यदि मम पश्चाद् गन्तुं वाञ्छति तर्हि स स्वं दाम्यतु, दिने दिने क्रुशं गृहीत्वा च मम पश्चादागच्छतु।
24 For whosoever would save his life shall lose it; but whosoever shall lose his life for my sake, the same shall save it.
यतो यः कश्चित् स्वप्राणान् रिरक्षिषति स तान् हारयिष्यति, यः कश्चिन् मदर्थं प्राणान् हारयिष्यति स तान् रक्षिष्यति।
25 For what is a man profited, if he gain the whole world, and lose or forfeit his own self?
कश्चिद् यदि सर्व्वं जगत् प्राप्नोति किन्तु स्वप्राणान् हारयति स्वयं विनश्यति च तर्हि तस्य को लाभः?
26 For whosoever shall be ashamed of me and of my words, of him shall the Son of man be ashamed, when he cometh in his own glory, and [the glory] of the Father, and of the holy angels.
पुन र्यः कश्चिन् मां मम वाक्यं वा लज्जास्पदं जानाति मनुष्यपुत्रो यदा स्वस्य पितुश्च पवित्राणां दूतानाञ्च तेजोभिः परिवेष्टित आगमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।
27 But I tell you of a truth, There be some of them that stand here, which shall in no wise taste of death, till they see the kingdom of God.
किन्तु युष्मानहं यथार्थं वदामि, ईश्वरीयराजत्वं न दृष्टवा मृत्युं नास्वादिष्यन्ते, एतादृशाः कियन्तो लोका अत्र स्थनेऽपि दण्डायमानाः सन्ति।
28 And it came to pass about eight days after these sayings, he took with him Peter and John and James, and went up into the mountain to pray.
एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।
29 And as he was praying, the fashion of his countenance was altered, and his raiment [became] white [and] dazzling.
अथ तस्य प्रार्थनकाले तस्य मुखाकृतिरन्यरूपा जाता, तदीयं वस्त्रमुज्ज्वलशुक्लं जातं।
30 And behold, there talked with him two men, which were Moses and Elijah;
अपरञ्च मूसा एलियश्चोभौ तेजस्विनौ दृष्टौ
31 who appeared in glory, and spake of his decease which he was about to accomplish at Jerusalem.
तौ तेन यिरूशालम्पुरे यो मृत्युः साधिष्यते तदीयां कथां तेन सार्द्धं कथयितुम् आरेभाते।
32 Now Peter and they that were with him were heavy with sleep: but when they were fully awake, they saw his glory, and the two men that stood with him.
तदा पितरादयः स्वस्य सङ्गिनो निद्रयाकृष्टा आसन् किन्तु जागरित्वा तस्य तेजस्तेन सार्द्धम् उत्तिष्ठन्तौ जनौ च ददृशुः।
33 And it came to pass, as they were parting from him, Peter said unto Jesus, Master, it is good for us to be here: and let us make three tabernacles; one for thee, and one for Moses, and one for Elijah: not knowing what he said.
अथ तयोरुभयो र्गमनकाले पितरो यीशुं बभाषे, हे गुरोऽस्माकं स्थानेऽस्मिन् स्थितिः शुभा, तत एका त्वदर्था, एका मूसार्था, एका एलियार्था, इति तिस्रः कुट्योस्माभि र्निर्म्मीयन्तां, इमां कथां स न विविच्य कथयामास।
34 And while he said these things, there came a cloud, and overshadowed them: and they feared as they entered into the cloud.
अपरञ्च तद्वाक्यवदनकाले पयोद एक आगत्य तेषामुपरि छायां चकार, ततस्तन्मध्ये तयोः प्रवेशात् ते शशङ्किरे।
35 And a voice came out of the cloud, saying, This is my Son, my chosen: hear ye him.
तदा तस्मात् पयोदाद् इयमाकाशीया वाणी निर्जगाम, ममायं प्रियः पुत्र एतस्य कथायां मनो निधत्त।
36 And when the voice came, Jesus was found alone. And they held their peace, and told no man in those days any of the things which they had seen.
इति शब्दे जाते ते यीशुमेकाकिनं ददृशुः किन्तु ते तदानीं तस्य दर्शनस्य वाचमेकामपि नोक्त्वा मनःसु स्थापयामासुः।
37 And it came to pass, on the next day, when they were come down from the mountain, a great multitude met him.
परेऽहनि तेषु तस्माच्छैलाद् अवरूढेषु तं साक्षात् कर्त्तुं बहवो लोका आजग्मुः।
38 And behold, a man from the multitude cried, saying, Master, I beseech thee to look upon my son; for he is mine only child:
तेषां मध्याद् एको जन उच्चैरुवाच, हे गुरो अहं विनयं करोमि मम पुत्रं प्रति कृपादृष्टिं करोतु, मम स एवैकः पुत्रः।
39 and behold, a spirit taketh him, and he suddenly crieth out; and it teareth him that he foameth, and it hardly departeth from him, bruising him sorely.
भूतेन धृतः सन् सं प्रसभं चीच्छब्दं करोति तन्मुखात् फेणा निर्गच्छन्ति च, भूत इत्थं विदार्य्य क्लिष्ट्वा प्रायशस्तं न त्यजति।
40 And I besought thy disciples to cast it out; and they could not.
तस्मात् तं भूतं त्याजयितुं तव शिष्यसमीपे न्यवेदयं किन्तु ते न शेकुः।
41 And Jesus answered and said, O faithless and perverse generation, how long shall I be with you, and bear with you? bring hither thy son.
तदा यीशुरवादीत्, रे आविश्वासिन् विपथगामिन् वंश कतिकालान् युष्माभिः सह स्थास्याम्यहं युष्माकम् आचरणानि च सहिष्ये? तव पुत्रमिहानय।
42 And as he was yet a coming, the devil dashed him down, and tare [him] grievously. But Jesus rebuked the unclean spirit, and healed the boy, and gave him back to his father.
ततस्तस्मिन्नागतमात्रे भूतस्तं भूमौ पातयित्वा विददार; तदा यीशुस्तममेध्यं भूतं तर्जयित्वा बालकं स्वस्थं कृत्वा तस्य पितरि समर्पयामास।
43 And they were all astonished at the majesty of God. But while all were marveling at all the things which he did, he said unto his disciples,
ईश्वरस्य महाशक्तिम् इमां विलोक्य सर्व्वे चमच्चक्रुः; इत्थं यीशोः सर्व्वाभिः क्रियाभिः सर्व्वैर्लोकैराश्चर्य्ये मन्यमाने सति स शिष्यान् बभाषे,
44 Let these words sink into your ears: for the Son of man shall be delivered up into the hands of men.
कथेयं युष्माकं कर्णेषु प्रविशतु, मनुष्यपुत्रो मनुष्याणां करेषु समर्पयिष्यते।
45 But they understood not this saying, and it was concealed from them, that they should not perceive it: and they were afraid to ask him about this saying.
किन्तु ते तां कथां न बुबुधिरे, स्पष्टत्वाभावात् तस्या अभिप्रायस्तेषां बोधगम्यो न बभूव; तस्या आशयः क इत्यपि ते भयात् प्रष्टुं न शेकुः।
46 And there arose a reasoning among them, which of them should be greatest.
तदनन्तरं तेषां मध्ये कः श्रेष्ठः कथामेतां गृहीत्वा ते मिथो विवादं चक्रुः।
47 But when Jesus saw the reasoning of their heart, he took a little child, and set him by his side,
ततो यीशुस्तेषां मनोभिप्रायं विदित्वा बालकमेकं गृहीत्वा स्वस्य निकटे स्थापयित्वा तान् जगाद,
48 and said unto them, Whosoever shall receive this little child in my name receiveth me: and whosoever shall receive me receiveth him that sent me: for he that is least among you all, the same is great.
यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।
49 And John answered and said, Master, we saw one casting out devils in thy name; and we forbade him, because he followeth not with us.
अपरञ्च योहन् व्याजहार हे प्रभेा तव नाम्ना भूतान् त्याजयन्तं मानुषम् एकं दृष्टवन्तो वयं, किन्त्वस्माकम् अपश्चाद् गामित्वात् तं न्यषेधाम्। तदानीं यीशुरुवाच,
50 But Jesus said unto him, Forbid [him] not: for he that is not against you is for you.
तं मा निषेधत, यतो यो जनोस्माकं न विपक्षः स एवास्माकं सपक्षो भवति।
51 And it came to pass, when the days were well-nigh come that he should be received up, he stedfastly set his face to go to Jerusalem,
अनन्तरं तस्यारोहणसमय उपस्थिते स स्थिरचेता यिरूशालमं प्रति यात्रां कर्त्तुं निश्चित्याग्रे दूतान् प्रेषयामास।
52 and sent messengers before his face: and they went, and entered into a village of the Samaritans, to make ready for him.
तस्मात् ते गत्वा तस्य प्रयोजनीयद्रव्याणि संग्रहीतुं शोमिरोणीयानां ग्रामं प्रविविशुः।
53 And they did not receive him, because his face was [as though he were] going to Jerusalem.
किन्तु स यिरूशालमं नगरं याति ततो हेतो र्लोकास्तस्यातिथ्यं न चक्रुः।
54 And when his disciples James and John saw [this], they said, Lord, wilt thou that we bid fire to come down from heaven, and consume them?
अतएव याकूब्योहनौ तस्य शिष्यौ तद् दृष्ट्वा जगदतुः, हे प्रभो एलियो यथा चकार तथा वयमपि किं गगणाद् आगन्तुम् एतान् भस्मीकर्त्तुञ्च वह्निमाज्ञापयामः? भवान् किमिच्छति?
55 But he turned, and rebuked them.
किन्तु स मुखं परावर्त्य तान् तर्जयित्वा गदितवान् युष्माकं मनोभावः कः, इति यूयं न जानीथ।
56 And they went to another village.
मनुजसुतो मनुजानां प्राणान् नाशयितुं नागच्छत्, किन्तु रक्षितुम् आगच्छत्। पश्चाद् इतरग्रामं ते ययुः।
57 And as they went in the way, a certain man said unto him, I will follow thee whithersoever thou goest.
तदनन्तरं पथि गमनकाले जन एकस्तं बभाषे, हे प्रभो भवान् यत्र याति भवता सहाहमपि तत्र यास्यामि।
58 And Jesus said unto him, The foxes have holes, and the birds of the heaven [have] nests; but the Son of man hath not where to lay his head.
तदानीं यीशुस्तमुवाच, गोमायूनां गर्त्ता आसते, विहायसीयविहगाानां नीडानि च सन्ति, किन्तु मानवतनयस्य शिरः स्थापयितुं स्थानं नास्ति।
59 And he said unto another, Follow me. But he said, Lord, suffer me first to go and bury my father.
ततः परं स इतरजनं जगाद, त्वं मम पश्चाद् एहि; ततः स उवाच, हे प्रभो पूर्व्वं पितरं श्मशाने स्थापयितुं मामादिशतु।
60 But he said unto him, Leave the dead to bury their own dead; but go thou and publish abroad the kingdom of God.
तदा यीशुरुवाच, मृता मृतान् श्मशाने स्थापयन्तु किन्तु त्वं गत्वेश्वरीयराज्यस्य कथां प्रचारय।
61 And another also said, I will follow thee, Lord; but first suffer me to bid farewell to them that are at my house.
ततोन्यः कथयामास, हे प्रभो मयापि भवतः पश्चाद् गंस्यते, किन्तु पूर्व्वं मम निवेशनस्य परिजनानाम् अनुमतिं ग्रहीतुम् अहमादिश्यै भवता।
62 But Jesus said unto him, No man, having put his hand to the plough, and looking back, is fit for the kingdom of God.
तदानीं यीशुस्तं प्रोक्तवान्, यो जनो लाङ्गले करमर्पयित्वा पश्चात् पश्यति स ईश्वरीयराज्यं नार्हति।

< Luke 9 >