< Acts 10 >

1 Now [there was] a certain man in Caesarea, Cornelius by name, a centurion of the band called the Italian band,
कैसरियानगर इतालियाख्यसैन्यान्तर्गतः कर्णीलियनामा सेनापतिरासीत्
2 a devout man, and one that feared God with all his house, who gave much alms to the people, and prayed to God alway.
स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थयाञ्चक्रे।
3 He saw in a vision openly, as it were about the ninth hour of the day, an angel of God coming in unto him, and saying to him, Cornelius.
एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।
4 And he, fastening his eyes upon him, and being affrighted, said, What is it, Lord? And he said unto him, Thy prayers and thine alms are gone up for a memorial before God.
किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।
5 And now send men to Joppa, and fetch one Simon, who is surnamed Peter:
इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय;
6 he lodgeth with one Simon a tanner, whose house is by the sea side.
तस्मात् त्वया यद्यत् कर्त्तव्यं तत्तत् स वदिष्यति।
7 And when the angel that spake unto him was departed, he called two of his household-servants, and a devout soldier of them that waited on him continually;
इत्युपदिश्य दूते प्रस्थिते सति कर्णीलियः स्वगृहस्थानां दासानां द्वौ जनौ नित्यं स्वसङ्गिनां सैन्यानाम् एकां भक्तसेनाञ्चाहूय
8 and having rehearsed all things unto them, he sent them to Joppa.
सकलमेतं वृत्तान्तं विज्ञाप्य याफोनगरं तान् प्राहिणोत्।
9 Now on the morrow, as they were on their journey, and drew nigh unto the city, Peter went up upon the housetop to pray, about the sixth hour:
परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।
10 and he became hungry, and desired to eat: but while they made ready, he fell into a trance;
एतस्मिन् समये क्षुधार्त्तः सन् किञ्चिद् भोक्तुम् ऐच्छत् किन्तु तेषाम् अन्नासादनसमये स मूर्च्छितः सन्नपतत्।
11 and he beholdeth the heaven opened, and a certain vessel descending, as it were a great sheet, let down by four corners upon the earth:
ततो मेघद्वारं मुक्तं चतुर्भिः कोणै र्लम्बितं बृहद्वस्त्रमिव किञ्चन भाजनम् आकाशात् पृथिवीम् अवारोहतीति दृष्टवान्।
12 wherein were all manner of fourfooted beasts and creeping things of the earth and fowls of the heaven.
तन्मध्ये नानप्रकारा ग्राम्यवन्यपशवः खेचरोरोगामिप्रभृतयो जन्तवश्चासन्।
13 And there came a voice to him, Rise, Peter; kill and eat.
अनन्तरं हे पितर उत्थाय हत्वा भुंक्ष्व तम्प्रतीयं गगणीया वाणी जाता।
14 But Peter said, Not so, Lord; for I have never eaten anything that is common and unclean.
तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्।
15 And a voice [came] unto him again the second time, What God hath cleansed, make not thou common.
ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।
16 And this was done thrice: and straightway the vessel was received up into heaven.
इत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्।
17 Now while Peter was much perplexed in himself what the vision which he had seen might mean, behold, the men that were sent by Cornelius, having made inquiry for Simon’s house, stood before the gate,
ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,
18 and called and asked whether Simon, which was surnamed Peter, were lodging there.
शिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति?
19 And while Peter thought on the vision, the Spirit said unto him, Behold, three men seek thee.
यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।
20 But arise, and get thee down, and go with them, nothing doubting: for I have sent them.
त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।
21 And Peter went down to the men, and said, Behold, I am he whom ye seek: what is the cause wherefore ye are come?
तस्मात् पितरोऽवरुह्य कर्णीलियप्रेरितलोकानां निकटमागत्य कथितवान् पश्यत यूयं यं मृगयध्वे स जनोहं, यूयं किन्निमित्तम् आगताः?
22 And they said, Cornelius a centurion, a righteous man and one that feareth God, and well reported of by all the nation of the Jews, was warned [of God] by a holy angel to send for thee into his house, and to hear words from thee.
ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।
23 So he called them in and lodged them. And on the morrow he arose and went forth with them, and certain of the brethren from Joppa accompanied him.
तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।
24 And on the morrow they entered into Caesarea. And Cornelius was waiting for them, having called together his kinsmen and his near friends.
परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।
25 And when it came to pass that Peter entered, Cornelius met him, and fell down at his feet, and worshipped him.
पितरे गृह उपस्थिते कर्णीलियस्तं साक्षात्कृत्य चरणयोः पतित्वा प्राणमत्।
26 But Peter raised him up, saying, Stand up; I myself also am a man.
पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।
27 And as he talked with him, he went in, and findeth many come together:
तदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्,
28 and he said unto them, Ye yourselves know how that it is an unlawful thing for a man that is a Jew to join himself or come unto one of another nation; and [yet] unto me hath God shewed that I should not call any man common or unclean:
अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।
29 wherefore also I came without gainsaying, when I was sent for. I ask therefore with what intent ye sent for me.
इति हेतोराह्वानश्रवणमात्रात् काञ्चनापत्तिम् अकृत्वा युष्माकं समीपम् आगतोस्मि; पृच्छामि यूयं किन्निमित्तं माम् आहूयत?
30 And Cornelius said, Four days ago, until this hour, I was keeping the ninth hour of prayer in my house; and behold, a man stood before me in bright apparel,
तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,
31 and saith, Cornelius, thy prayer is heard, and thine alms are had in remembrance in the sight of God.
हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।
32 Send therefore to Joppa, and call unto thee Simon, who is surnamed Peter; he lodgeth in the house of Simon a tanner, by the sea side.
अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति।
33 Forthwith therefore I sent to thee; and thou hast well done that thou art come. Now therefore we are all here present in the sight of God, to hear all things that have been commanded thee of the Lord.
इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।
34 And Peter opened his mouth, and said, Of a truth I perceive that God is no respecter of persons:
तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती सन्
35 but in every nation he that feareth him, and worketh righteousness, is acceptable to him.
यस्य कस्यचिद् देशस्य यो लोकास्तस्माद्भीत्वा सत्कर्म्म करोति स तस्य ग्राह्यो भवति, एतस्य निश्चयम् उपलब्धवानहम्।
36 The word which he sent unto the children of Israel, preaching good tidings of peace by Jesus Christ (he is Lord of all)—
सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।
37 that saying ye yourselves know, which was published throughout all Judaea, beginning from Galilee, after the baptism which John preached;
यतो योहना मज्जने प्रचारिते सति स गालीलदेशमारभ्य समस्तयिहूदीयदेशं व्याप्नोत्;
38 [even] Jesus of Nazareth, how that God anointed him with the Holy Ghost and with power: who went about doing good, and healing all that were oppressed of the devil; for God was with him.
फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;
39 And we are witnesses of all things which he did both in the country of the Jews, and in Jerusalem; whom also they slew, hanging him on a tree.
वयञ्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः,
40 Him God raised up the third day, and gave him to be made manifest,
किन्तु तृतीयदिवसे ईश्वरस्तमुत्थाप्य सप्रकाशम् अदर्शयत्।
41 not to all the people, but unto witnesses that were chosen before of God, [even] to us, who did eat and drink with him after he rose from the dead.
सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।
42 And he charged us to preach unto the people, and to testify that this is he which is ordained of God [to be] the Judge of quick and dead.
जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातुञ्च सोऽस्मान् आज्ञापयत्।
43 To him bear all the prophets witness, that through his name every one that believeth on him shall receive remission of sins.
यस्तस्मिन् विश्वसिति स तस्य नाम्ना पापान्मुक्तो भविष्यति तस्मिन् सर्व्वे भविष्यद्वादिनोपि एतादृशं साक्ष्यं ददति।
44 While Peter yet spake these words, the Holy Ghost fell on all them which heard the word.
पितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्।
45 And they of the circumcision which believed were amazed, as many as came with Peter, because that on the Gentiles also was poured out the gift of the Holy Ghost.
ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति
46 For they heard them speak with tongues, and magnify God. Then answered Peter,
ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।
47 Can any man forbid the water, that these should not be baptized, which have received the Holy Ghost as well as we?
तदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति?
48 And he commanded them to be baptized in the name of Jesus Christ. Then prayed they him to tarry certain days.
ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।

< Acts 10 >