< 1 Timothy 4 >

1 But the Spirit saith expressly, that in later times some shall fall away from the faith, giving heed to seducing spirits and doctrines of devils,
पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात्
2 through the hypocrisy of men that speak lies, branded in their own conscience as with a hot iron;
कठोरमनसां कापट्याद् अनृतवादिनां विवाहनिषेधकानां भक्ष्यविशेषनिषेधकानाञ्च
3 forbidding to marry, [and commanding] to abstain from meats, which God created to be received with thanksgiving by them that believe and know the truth.
भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।
4 For every creature of God is good, and nothing is to be rejected, if it be received with thanksgiving:
यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,
5 for it is sanctified through the word of God and prayer.
यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति।
6 If thou put the brethren in mind of these things, thou shalt be a good minister of Christ Jesus, nourished in the words of the faith, and of the good doctrine which thou hast followed [until now]:
एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।
7 but refuse profane and old wives’ fables. And exercise thyself unto godliness:
यान्युपाख्यानानि दुर्भावानि वृद्धयोषितामेव योग्यानि च तानि त्वया विसृज्यन्ताम् ईश्वरभक्तये यत्नः क्रियताञ्च।
8 for bodily exercise is profitable for a little; but godliness is profitable for all things, having promise of the life which now is, and of that which is to come.
यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।
9 Faithful is the saying, and worthy of all acceptation.
वाक्यमेतद् विश्वसनीयं सर्व्वै र्ग्रहणीयञ्च वयञ्च तदर्थमेव श्राम्यामो निन्दां भुंज्महे च।
10 For to this end we labour and strive, because we have our hope set on the living God, who is the Saviour of all men, specially of them that believe.
यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः।
11 These things command and teach.
त्वम् एतानि वाक्यानि प्रचारय समुपदिश च।
12 Let no man despise thy youth; but be thou an ensample to them that believe, in word, in manner of life, in love, in faith, in purity.
अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।
13 Till I come, give heed to reading, to exhortation, to teaching.
यावन्नाहम् आगमिष्यामि तावत् त्व पाठे चेतयने उपदेशे च मनो निधत्स्व।
14 Neglect not the gift that is in thee, which was given thee by prophecy, with the laying on of the hands of the presbytery.
प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।
15 Be diligent in these things; give thyself wholly to them; that thy progress may be manifest unto all.
एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थञ्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां।
16 Take heed to thyself, and to thy teaching. Continue in these things; for in doing this thou shalt save both thyself and them that hear thee.
स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते।

< 1 Timothy 4 >