< Luke 13 >

1 Now there were some present at the same time who told him about the Galileans, whose blood Pilate had mixed with their sacrifices.
अपरञ्च पीलातो येषां गालीलीयानां रक्तानि बलीनां रक्तैः सहामिश्रयत् तेषां गालीलीयानां वृत्तान्तं कतिपयजना उपस्थाप्य यीशवे कथयामासुः।
2 And he answered and said to them, "Do you think that these Galileans were worse sinners than all the other Galileans, because they suffered these things?
ततः स प्रत्युवाच तेषां लोकानाम् एतादृशी दुर्गति र्घटिता तत्कारणाद् यूयं किमन्येभ्यो गालीलीयेभ्योप्यधिकपापिनस्तान् बोधध्वे?
3 I tell you, no, but unless you repent, you will all perish in the same way.
युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।
4 Or those eighteen, on whom the tower in Siloam fell, and killed them; do you think that they were worse offenders than all the others who dwell in Jerusalem?
अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?
5 I tell you, no, but, unless you repent, you will all perish in the same way."
युष्मानहं वदामि तथा न किन्तु मनःसु न परिवर्त्तितेषु यूयमपि तथा नंक्ष्यथ।
6 He spoke this parable. "A certain man had a fig tree planted in his vineyard, and he came seeking fruit on it, and found none.
अनन्तरं स इमां दृष्टान्तकथामकथयद् एको जनो द्राक्षाक्षेत्रमध्य एकमुडुम्बरवृक्षं रोपितवान्। पश्चात् स आगत्य तस्मिन् फलानि गवेषयामास,
7 He said to the vine dresser, 'Look, these three years I have come looking for fruit on this fig tree, and found none. Cut it down. Why does it waste the soil?'
किन्तु फलाप्राप्तेः कारणाद् उद्यानकारं भृत्यं जगाद, पश्य वत्सरत्रयं यावदागत्य एतस्मिन्नुडुम्बरतरौ क्षलान्यन्विच्छामि, किन्तु नैकमपि प्रप्नोमि तरुरयं कुतो वृथा स्थानं व्याप्य तिष्ठति? एनं छिन्धि।
8 He answered, 'Lord, leave it alone this year also, until I dig around it, and fertilize it.
ततो भृत्यः प्रत्युवाच, हे प्रभो पुनर्वर्षमेकं स्थातुम् आदिश; एतस्य मूलस्य चतुर्दिक्षु खनित्वाहम् आलवालं स्थापयामि।
9 And if it bears fruit next time, [fine]; but if not, you can cut it down.'"
ततः फलितुं शक्नोति यदि न फलति तर्हि पश्चात् छेत्स्यसि।
10 He was teaching in one of the synagogues on the Sabbath day.
अथ विश्रामवारे भजनगेहे यीशुरुपदिशति
11 And look, a woman who had a spirit of infirmity eighteen years, and she was bent over, and could in no way straighten herself up.
तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन ऋजु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,
12 When Jesus saw her, he called her, and said to her, "Woman, you are freed from your infirmity."
तां तत्रोपस्थितां विलोक्य यीशुस्तामाहूय कथितवान् हे नारि तव दौर्ब्बल्यात् त्वं मुक्ता भव।
13 He laid his hands on her, and immediately she stood up straight, and glorified God.
ततः परं तस्या गात्रे हस्तार्पणमात्रात् सा ऋजुर्भूत्वेश्वरस्य धन्यवादं कर्त्तुमारेभे।
14 The ruler of the synagogue, being indignant because Jesus had healed on the Sabbath, said to the crowd, "There are six days when work should be done Therefore come on those days and be healed, and not on the Sabbath day."
किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।
15 Therefore the Lord answered him, "You hypocrites. Does not each one of you free his ox or his donkey from the stall on the Sabbath, and lead him away to water?
तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?
16 Ought not this woman, being a daughter of Abraham, whom Satan had bound, look, eighteen years, be freed from this bondage on the Sabbath day?"
तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?
17 As he said these things, all his adversaries were disappointed, and all the crowd rejoiced for all the glorious things that were done by him.
एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्।
18 Then he said, "What is the Kingdom of God like? And to what can I compare it?
अनन्तरं सोवदद् ईश्वरस्य राज्यं कस्य सदृशं? केन तदुपमास्यामि?
19 It is like a grain of mustard seed, which a man took, and put in his own garden. It grew, and became a tree, and the birds of the sky lodged in its branches."
यत् सर्षपबीजं गृहीत्वा कश्चिज्जन उद्यान उप्तवान् तद् बीजमङ्कुरितं सत् महावृक्षोऽजायत, ततस्तस्य शाखासु विहायसीयविहगा आगत्य न्यूषुः, तद्राज्यं तादृशेन सर्षपबीजेन तुल्यं।
20 And again he said, "To what can I compare the Kingdom of God?
पुनः कथयामास, ईश्वरस्य राज्यं कस्य सदृशं वदिष्यामि? यत् किण्वं काचित् स्त्री गृहीत्वा द्रोणत्रयपरिमितगोधूमचूर्णेषु स्थापयामास,
21 It is like yeast, which a woman took and hid in three measures of flour, until it was all leavened."
ततः क्रमेण तत् सर्व्वगोधूमचूर्णं व्याप्नोति, तस्य किण्वस्य तुल्यम् ईश्वरस्य राज्यं।
22 He went on his way through cities and villages, teaching, and traveling on to Jerusalem.
ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम।
23 One said to him, "Lord, are they few who are saved?" He said to them,
तदा कश्चिज्जनस्तं पप्रच्छ, हे प्रभो किं केवलम् अल्पे लोकाः परित्रास्यन्ते?
24 "Strive to enter in by the narrow door, for many, I tell you, will seek to enter in, and will not be able.
ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।
25 When once the master of the house has risen up, and has shut the door, and you begin to stand outside, and to knock at the door, saying, 'Lord, open to us.' then he will answer and tell you, 'I do not know you or where you come from.'
गृहपतिनोत्थाय द्वारे रुद्धे सति यदि यूयं बहिः स्थित्वा द्वारमाहत्य वदथ, हे प्रभो हे प्रभो अस्मत्कारणाद् द्वारं मोचयतु, ततः स इति प्रतिवक्ष्यति, यूयं कुत्रत्या लोका इत्यहं न जानामि।
26 Then you will begin to say, 'We ate and drank in your presence, and you taught in our streets.'
तदा यूयं वदिष्यथ, तव साक्षाद् वयं भेाजनं पानञ्च कृतवन्तः, त्वञ्चास्माकं नगरस्य पथि समुपदिष्टवान्।
27 But he will reply, 'I do not know where you come from. Depart from me, all you workers of iniquity.'
किन्तु स वक्ष्यति, युष्मानहं वदामि, यूयं कुत्रत्या लोका इत्यहं न जानामि; हे दुराचारिणो यूयं मत्तो दूरीभवत।
28 There will be weeping and grinding of teeth, when you see Abraham, Isaac, Jacob, and all the prophets, in the Kingdom of God, and yourselves being thrown outside.
तदा इब्राहीमं इस्हाकं याकूबञ्च सर्व्वभविष्यद्वादिनश्च ईश्वरस्य राज्यं प्राप्तान् स्वांश्च बहिष्कृतान् दृष्ट्वा यूयं रोदनं दन्तैर्दन्तघर्षणञ्च करिष्यथ।
29 They will come from the east, west, north, and south, and will sit down in the Kingdom of God.
अपरञ्च पूर्व्वपश्चिमदक्षिणोत्तरदिग्भ्यो लोका आगत्य ईश्वरस्य राज्ये निवत्स्यन्ति।
30 And look, there are some who are last who will be first, and there are some who are first who will be last."
पश्यतेत्थं शेषीया लोका अग्रा भविष्यन्ति, अग्रीया लोकाश्च शेषा भविष्यन्ति।
31 In that same hour some Pharisees came, saying to him, "Get out of here, and go away, for Herod wants to kill you."
अपरञ्च तस्मिन् दिने कियन्तः फिरूशिन आगत्य यीशुं प्रोचुः, बहिर्गच्छ, स्थानादस्मात् प्रस्थानं कुरु, हेरोद् त्वां जिघांसति।
32 And he said to them, "Go and tell that fox, 'Look, I cast out demons and perform cures today and tomorrow, and the third day I complete my mission.
ततः स प्रत्यवोचत् पश्यताद्य श्वश्च भूतान् विहाप्य रोगिणोऽरोगिणः कृत्वा तृतीयेह्नि सेत्स्यामि, कथामेतां यूयमित्वा तं भूरिमायं वदत।
33 Nevertheless I must go on my way today and tomorrow and the next day, for it cannot be that a prophet perish outside of Jerusalem.'
तत्राप्यद्य श्वः परश्वश्च मया गमनागमने कर्त्तव्ये, यतो हेतो र्यिरूशालमो बहिः कुत्रापि कोपि भविष्यद्वादी न घानिष्यते।
34 "Jerusalem, Jerusalem, that kills the prophets, and stones those who are sent to her. How often I wanted to gather your children together, like a hen gathers her own brood under her wings, and you refused.
हे यिरूशालम् हे यिरूशालम् त्वं भविष्यद्वादिनो हंसि तवान्तिके प्रेरितान् प्रस्तरैर्मारयसि च, यथा कुक्कुटी निजपक्षाधः स्वशावकान् संगृह्लाति, तथाहमपि तव शिशून् संग्रहीतुं कतिवारान् ऐच्छं किन्तु त्वं नैच्छः।
35 Look, your house is abandoned to you. And I tell you, you will not see me until you say, 'Blessed is he who comes in the name of the Lord.'"
पश्यत युष्माकं वासस्थानानि प्रोच्छिद्यमानानि परित्यक्तानि च भविष्यन्ति; युष्मानहं यथार्थं वदामि, यः प्रभो र्नाम्नागच्छति स धन्य इति वाचं यावत्कालं न वदिष्यथ, तावत्कालं यूयं मां न द्रक्ष्यथ।

< Luke 13 >