< 1 Corinthians 9 >

1 Am I not free? Am I not an apostle? Have I not seen Jesus our Lord? Are you not my work in the Lord?
अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?
2 If to others I am not an apostle, yet at least I am to you; for you are the seal of my office of apostle in the Lord.
अन्यलोकानां कृते यद्यप्यहं प्रेरितो न भवेयं तथाच युष्मत्कृते प्रेरितोऽस्मि यतः प्रभुना मम प्रेरितत्वपदस्य मुद्रास्वरूपा यूयमेवाध्वे।
3 My defense to those who examine me is this.
ये लोका मयि दोषमारोपयन्ति तान् प्रति मम प्रत्युत्तरमेतत्।
4 Have we no right to eat and to drink?
भोजनपानयोः किमस्माकं क्षमता नास्ति?
5 Have we no right to take along a wife who is a believer, even as the rest of the apostles, and the brothers of the Lord, and Cephas?
अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् काञ्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः?
6 Or have only Barnabas and I no right to not work?
सांसारिकश्रमस्य परित्यागात् किं केवलमहं बर्णब्बाश्च निवारितौ?
7 What soldier ever serves at his own expense? Who plants a vineyard, and does not eat of its fruit? Or who feeds a flock, and does not drink from the flock's milk?
निजधनव्ययेन कः संग्रामं करोति? को वा द्राक्षाक्षेत्रं कृत्वा तत्फलानि न भुङ्क्ते? को वा पशुव्रजं पालयन् तत्पयो न पिवति?
8 Do I say these things according to human authority? Or does not the Law also say the same thing?
किमहं केवलां मानुषिकां वाचं वदामि? व्यवस्थायां किमेतादृशं वचनं न विद्यते?
9 For it is written in the Law of Moses, "Do not muzzle an ox while it treads out the grain." Is it for the oxen that God cares,
मूसाव्यवस्थाग्रन्थे लिखितमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं न भंत्स्यसीति। ईश्वरेण बलीवर्द्दानामेव चिन्ता किं क्रियते?
10 or does he say it assuredly for our sake? Yes, it was written for our sake, because he who plows ought to plow in hope, and he who threshes in the hope of having a share.
किं वा सर्व्वथास्माकं कृते तद्वचनं तेनोक्तं? अस्माकमेव कृते तल्लिखितं। यः क्षेत्रं कर्षति तेन प्रत्याशायुक्तेन कर्ष्टव्यं, यश्च शस्यानि मर्द्दयति तेन लाभप्रत्याशायुक्तेन मर्द्दितव्यं।
11 If we sowed to you spiritual things, is it a great thing if we reap your fleshly things?
युष्मत्कृतेऽस्माभिः पारत्रिकाणि बीजानि रोपितानि, अतो युष्माकमैहिकफलानां वयम् अंशिनो भविष्यामः किमेतत् महत् कर्म्म?
12 If others partake of this right over you, do not we yet more? Nevertheless we did not use this right, but we bear all things, that we may cause no hindrance to the Good News of Christ.
युष्मासु योऽधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततोऽधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य कोऽपि व्याघातोऽस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे।
13 Do you not know that those who serve around sacred things eat from the things of the temple, and those who wait on the altar have their portion with the altar?
अपरं ये पवित्रवस्तूनां परिचर्य्यां कुर्व्वन्ति ते पवित्रवस्तुतो भक्ष्याणि लभन्ते, ये च वेद्याः परिचर्य्यां कुर्व्वन्ति ते वेदिस्थवस्तूनाम् अंशिनो भवन्त्येतद् यूयं किं न विद?
14 Even so the Lord ordained that those who proclaim the Good News should live from the Good News.
तद्वद् ये सुसंवादं घोषयन्ति तैः सुसंवादेन जीवितव्यमिति प्रभुनादिष्टं।
15 But I have used none of these things, and I do not write these things that it may be done so in my case; for I would rather die, than that anyone should make my boasting void.
अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।
16 For if I preach the Good News, I have nothing to boast about, because I am compelled to do this. Woe to me if I do not preach the Good News.
सुसंवादघेषणात् मम यशो न जायते यतस्तद्घोषणं ममावश्यकं यद्यहं सुसंवादं न घोषयेयं तर्हि मां धिक्।
17 For if I do this of my own will, I have a reward. But if not of my own will, I have a stewardship entrusted to me.
इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।
18 What then is my reward? That, when I preach the Good News, I may present the Good News without charge, so as not to abuse my authority in the Good News.
एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।
19 For though I was free from all, I brought myself under bondage to all, that I might gain the more.
सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।
20 To the Jews I became as a Jew, that I might gain Jews; to those who are under the law, as under the law, not being myself under the law, that I might gain those who are under the law;
यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयइवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो योऽहं सोऽहं व्यवस्थायत्तानां कृते व्यवस्थायत्तइवाभवं।
21 to those who are without law, as without law (not being without law toward God, but under law toward Christ), that I might win those who are without law.
ये चालब्धव्यवस्थास्तान् यत् प्रतिपद्ये तदर्थम् ईश्वरस्य साक्षाद् अलब्धव्यवस्थो न भूत्वा ख्रीष्टेन लब्धव्यवस्थो योऽहं सोऽहम् अलब्धव्यवस्थानां कृतेऽलब्धव्यवस्थ इवाभवं।
22 To the weak I became as weak, that I might gain the weak. I have become all things to all people, that I may by all means save some.
दुर्ब्बलान् यत् प्रतिपद्ये तदर्थमहं दुर्ब्बलानां कृते दुर्ब्बलइवाभवं। इत्थं केनापि प्रकारेण कतिपया लोका यन्मया परित्राणं प्राप्नुयुस्तदर्थं यो यादृश आसीत् तस्य कृते ऽहं तादृशइवाभवं।
23 Now I do all things for the sake of the Good News, that I may be a joint partaker of it.
इदृश आचारः सुसंवादार्थं मया क्रियते यतोऽहं तस्य फलानां सहभागी भवितुमिच्छामि।
24 Do you not know that those who run in a race all run, but one receives the prize? Run like that, that you may win.
पण्यलाभार्थं ये धावन्ति धावतां तेषां सर्व्वेषां केवल एकः पण्यं लभते युष्माभिः किमेतन्न ज्ञायते? अतो यूयं यथा पण्यं लप्स्यध्वे तथैव धावत।
25 Now everyone who competes in the games exercises self-control in all things. Now they do it to receive a corruptible crown, but we an incorruptible.
मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे।
26 I therefore run like that, as not uncertainly. I fight like that, as not beating the air,
तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लइव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।
27 but I beat my body and bring it into submission, lest by any means, after I have preached to others, I myself should be rejected.
इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।

< 1 Corinthians 9 >