< Luke 14 >

1 Then it happened, when He entered the house of one of the rulers of the Pharisees to eat bread on the Sabbath, that they were watching Him closely.
अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।
2 And then, there in front of Him was a man who had dropsy!
तदा जलोदरी तस्य सम्मुखे स्थितः।
3 And Jesus reacted by saying to the lawyers and Pharisees, “Is it lawful to heal on the Sabbath?”
ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः।
4 But they kept silent. So He took hold of him, healed him, and let him go.
तदा स तं रोगिणं स्वस्थं कृत्वा विससर्ज;
5 Then He addressed them saying, “Which of you, if a son or an ox falls into a pit, will not immediately pull him out on the Sabbath day?”
तानुवाच च युष्माकं कस्यचिद् गर्द्दभो वृषभो वा चेद् गर्त्ते पतति तर्हि विश्रामवारे तत्क्षणं स किं तं नोत्थापयिष्यति?
6 And they could not answer Him regarding these things.
ततस्ते कथाया एतस्याः किमपि प्रतिवक्तुं न शेकुः।
7 Then He told a parable to those who were invited, having observed how they kept trying for the best places, saying to them:
अपरञ्च प्रधानस्थानमनोनीतत्वकरणं विलोक्य स निमन्त्रितान् एतदुपदेशकथां जगाद,
8 “Whenever you are invited by someone to a wedding feast, do not recline in the place of honor, in case someone more honorable than you has been invited by him;
त्वं विवाहादिभोज्येषु निमन्त्रितः सन् प्रधानस्थाने मोपावेक्षीः। त्वत्तो गौरवान्वितनिमन्त्रितजन आयाते
9 then he who invited you both will come and say, ‘You, give this man place!’ and then, with shame, you start to take the lowest place.
निमन्त्रयितागत्य मनुष्यायैतस्मै स्थानं देहीति वाक्यं चेद् वक्ष्यति तर्हि त्वं सङ्कुचितो भूत्वा स्थान इतरस्मिन् उपवेष्टुम् उद्यंस्यसि।
10 Rather, whenever you are invited, go and recline in the lowest place, so that when your host comes, he may say to you, ‘Friend, move up higher.’ Then you will have honor in the presence of your fellow guests.
अस्मात् कारणादेव त्वं निमन्त्रितो गत्वाऽप्रधानस्थान उपविश, ततो निमन्त्रयितागत्य वदिष्यति, हे बन्धो प्रोच्चस्थानं गत्वोपविश, तथा सति भोजनोपविष्टानां सकलानां साक्षात् त्वं मान्यो भविष्यसि।
11 Because everyone who exalts himself will be humbled, and he who humbles himself will be exalted.”
यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
12 Then He said directly to His host: “Whenever you give a dinner or a supper, do not invite your friends, nor your brothers, nor your relatives, nor rich neighbors, lest they also invite you back, and you be repaid.
तदा स निमन्त्रयितारं जनमपि जगाद, मध्याह्ने रात्रौ वा भोज्ये कृते निजबन्धुगणो वा भ्रातृृगणो वा ज्ञातिगणो वा धनिगणो वा समीपवासिगणो वा एतान् न निमन्त्रय, तथा कृते चेत् ते त्वां निमन्त्रयिष्यन्ति, तर्हि परिशोधो भविष्यति।
13 But whenever you make a banquet, invite the poor, the crippled, the lame, the blind;
किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय,
14 and you will be blessed, because they cannot repay you—you will be repaid at the resurrection of the righteous.”
तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।
15 Well when one of the fellow-recliners heard these things, he said to Him, “Blessed is he who will eat dinner in the Kingdom of God!”
अनन्तरं तां कथां निशम्य भोजनोपविष्टः कश्चित् कथयामास, यो जन ईश्वरस्य राज्ये भोक्तुं लप्स्यते सएव धन्यः।
16 So He said to him: “A certain man prepared a great banquet and invited many.
ततः स उवाच, कश्चित् जनो रात्रौ भेाज्यं कृत्वा बहून् निमन्त्रयामास।
17 And at meal time he sent his slave to say to those who were invited, ‘Come, because everything is now ready.’
ततो भोजनसमये निमन्त्रितलोकान् आह्वातुं दासद्वारा कथयामास, खद्यद्रव्याणि सर्व्वाणि समासादितानि सन्ति, यूयमागच्छत।
18 But they all alike began to make excuses. The first said to him: ‘I bought a field, and I need to go and see it. I ask you to have me excused.’
किन्तु ते सर्व्व एकैकं छलं कृत्वा क्षमां प्रार्थयाञ्चक्रिरे। प्रथमो जनः कथयामास, क्षेत्रमेकं क्रीतवानहं तदेव द्रष्टुं मया गन्तव्यम्, अतएव मां क्षन्तुं तं निवेदय।
19 Another said: ‘I bought five yoke of oxen, and I am going to test them. I ask you to have me excused.’
अन्यो जनः कथयामास, दशवृषानहं क्रीतवान् तान् परीक्षितुं यामि तस्मादेव मां क्षन्तुं तं निवेदय।
20 Yet another said, ‘I have married a wife, and so I cannot come.’
अपरः कथयामास, व्यूढवानहं तस्मात् कारणाद् यातुं न शक्नोमि।
21 So that slave came and reported these things to his master. Then the owner of the house became angry and said to his slave, ‘Go out quickly into the streets and lanes of the city, and bring in here the poor and crippled and blind and lame.’
पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।
22 And the slave said, ‘Master, what you ordered has been done, and there is still room.’
ततो दासोऽवदत्, हे प्रभो भवत आज्ञानुसारेणाक्रियत तथापि स्थानमस्ति।
23 Then the master said to the slave: ‘Go out to the roads and hedges and make people come in, so that my house may be filled.
तदा प्रभुः पुन र्दासायाकथयत्, राजपथान् वृक्षमूलानि च यात्वा मदीयगृहपूरणार्थं लोकानागन्तुं प्रवर्त्तय।
24 For I tell you that none of those men who were invited will get a taste of my banquet!’”
अहं युष्मभ्यं कथयामि, पूर्व्वनिमन्त्रितानमेकोपि ममास्य रात्रिभोज्यस्यास्वादं न प्राप्स्यति।
25 Now large crowds were traveling with Him, and turning He said to them:
अनन्तरं बहुषु लोकेषु यीशोः पश्चाद् व्रजितेषु सत्सु स व्याघुट्य तेभ्यः कथयामास,
26 “If anyone comes to me and does not hate his father and mother, wife and children, brothers and sisters, yes, and even his own life, he cannot be my disciple.
यः कश्चिन् मम समीपम् आगत्य स्वस्य माता पिता पत्नी सन्ताना भ्रातरो भगिम्यो निजप्राणाश्च, एतेभ्यः सर्व्वेभ्यो मय्यधिकं प्रेम न करोति, स मम शिष्यो भवितुं न शक्ष्यति।
27 And whoever does not carry his cross, and come after me, cannot be my disciple.
यः कश्चित् स्वीयं क्रुशं वहन् मम पश्चान्न गच्छति, सोपि मम शिष्यो भवितुं न शक्ष्यति।
28 “Further, which of you, intending to build a tower, does not sit down first and calculate the cost, whether he has enough to complete it?
दुर्गनिर्म्माणे कतिव्ययो भविष्यति, तथा तस्य समाप्तिकरणार्थं सम्पत्तिरस्ति न वा, प्रथममुपविश्य एतन्न गणयति, युष्माकं मध्य एतादृशः कोस्ति?
29 This so he does not lay a foundation without being able to finish, and all who see it begin to ridicule him,
नोचेद् भित्तिं कृत्वा शेषे यदि समापयितुं न शक्ष्यति,
30 saying, ‘This man began to build and was not able to finish!’
तर्हि मानुषोयं निचेतुम् आरभत समापयितुं नाशक्नोत्, इति व्याहृत्य सर्व्वे तमुपहसिष्यन्ति।
31 “Or what king, going to engage another king in battle, does not sit down first and consider whether he is able with ten thousand to meet the one coming against him with twenty thousand?
अपरञ्च भिन्नभूपतिना सह युद्धं कर्त्तुम् उद्यम्य दशसहस्राणि सैन्यानि गृहीत्वा विंशतिसहस्रेः सैन्यैः सहितस्य समीपवासिनः सम्मुखं यातुं शक्ष्यामि न वेति प्रथमं उपविश्य न विचारयति एतादृशो भूमिपतिः कः?
32 And if not, while the other is still far away he sends a delegation and asks for terms for peace.
यदि न शक्नोति तर्हि रिपावतिदूरे तिष्ठति सति निजदूतं प्रेष्य सन्धिं कर्त्तुं प्रार्थयेत।
33 “So likewise, any of you who does not renounce all his own possessions cannot be my disciple.
तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।
34 Salt is good; but should the salt become insipid, with what can it be seasoned?
लवणम् उत्तमम् इति सत्यं, किन्तु यदि लवणस्य लवणत्वम् अपगच्छति तर्हि तत् कथं स्वादुयुक्तं भविष्यति?
35 It is fit for neither soil nor fertilizer; it is thrown out. He who has ears to hear, let him hear!”
तद भूम्यर्थम् आलवालराश्यर्थमपि भद्रं न भवति; लोकास्तद् बहिः क्षिपन्ति।यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

< Luke 14 >