< 帖撒罗尼迦后书 1 >

1 这封信函来自保罗、西拉和提摩太,写给帖撒罗尼迦、为我们父上帝和主耶稣基督所有的教会。
पौलः सिल्वानस्तीमथियश्चेतिनामानो वयम् अस्मदीयतातम् ईश्वरं प्रभुं यीशुख्रीष्टञ्चाश्रितां थिषलनीकिनां समितिं प्रति पत्रं लिखामः।
2 愿你们获得来自天父和主耶稣基督的恩典与平安。
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मास्वनुग्रहं शान्तिञ्च क्रियास्तां।
3 兄弟姐妹们,我们始终都因你们而感谢上帝,我们衷心地感谢你们。因为你们对上帝的信正在快速增加,你们彼此相爱的心也在增加。
हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।
4 因为你们在经受的所有迫害苦难中,仍然保持着勇气和信心,所以在上帝的众教会中,说到你们会让我们深感骄傲。
तस्माद् युष्माभि र्यावन्त उपद्रवक्लेशाः सह्यन्ते तेषु यद् धेैर्य्यं यश्च विश्वासः प्रकाश्यते तत्कारणाद् वयम् ईश्वरीयसमितिषु युष्माभिः श्लाघामहे।
5 这是上帝做出公正决定的证明,你们配得上他的王国,你们也是为此而受苦。
तच्चेश्वरस्य न्यायविचारस्य प्रमाणं भवति यतो यूयं यस्य कृते दुःखं सहध्वं तस्येश्वरीयराज्यस्य योग्या भवथ।
6 因为上帝所做之事都是良善正直,他也会恰如其分地处理那些导致你们受苦之人。
यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च
7 当耶稣基督与他强大的天使们在耀眼火焰中从天国降临,他会解救你们和我们于痛苦,
क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;
8 对那些拒绝上帝、不接受我们主基督福音之人,进行审判。
तदानीम् ईश्वरानभिज्ञेभ्यो ऽस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते;
9 他们要受到惩罚,永远离开上帝,无法见到主和他的光荣力量。 (aiōnios g166)
ते च प्रभो र्वदनात् पराक्रमयुक्तविभवाच्च सदातनविनाशरूपं दण्डं लप्स्यन्ते, (aiōnios g166)
10 当他要从其子民处获得荣耀的那一天,被所有信他之人所尊崇,你们也在其中,因为我们所说的一切,让你们信服。
किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।
11 所以我们始终为你们祷告,愿我们上帝将你们变成的样子,值得他召唤我们所做的一切。如果你们想要行为正直良善,一举一动皆来自对他的信,愿上帝用强大的力量满足你们达成这个目标的每一个愿望。
अतोऽस्माकम् ईश्वरो युष्मान् तस्याह्वानस्य योग्यान् करोतु सौजन्यस्य शुभफलं विश्वासस्य गुणञ्च पराक्रमेण साधयत्विति प्रार्थनास्माभिः सर्व्वदा युष्मन्निमित्तं क्रियते,
12 只有这样,我们主耶稣的名,才可能因你们的行为而获得荣耀,你们也会通过上帝和主耶稣基督的恩典,因他而荣耀。
यतस्तथा सत्यस्माकम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहाद् अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्नो गौरवं युष्मासु युष्माकमपि गौरवं तस्मिन् प्रकाशिष्यते।

< 帖撒罗尼迦后书 1 >