< रोमिणः 6 >

1 प्रभूतरूपेण यद् अनुग्रहः प्रकाशते तदर्थं पापे तिष्ठाम इति वाक्यं किं वयं वदिष्यामः? तन्न भवतु।
What will we say then? We continue in sin so that grace may abound?
2 पापं प्रति मृता वयं पुनस्तस्मिन् कथम् जीविष्यामः?
May it not happen! How will we who died to sin, still live in it?
3 वयं यावन्तो लोका यीशुख्रीष्टे मज्जिता अभवाम तावन्त एव तस्य मरणे मज्जिता इति किं यूयं न जानीथ?
Or are ye ignorant that as many as were immersed into Christ Jesus were immersed into his death?
4 ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।
We were buried therefore with him through the immersion into death, so that as Christ was raised up from the dead through the glory of the Father, so also we may walk in newness of life.
5 अपरं वयं यदि तेन संयुक्ताः सन्तः स इव मरणभागिनो जातास्तर्हि स इवोत्थानभागिनोऽपि भविष्यामः।
For if we have become co-planted in the likeness of his death, then we will also be of the resurrection.
6 वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशेऽहन्यतेति वयं जानीमः।
Knowing this, that our old man was crucified with him, so that the body of sin might be inactivated, no longer to enslave us to sin.
7 यो हतः स पापात् मुक्त एव।
For he who has died has been made righteous away from sin.
8 अतएव यदि वयं ख्रीष्टेन सार्द्धम् अहन्यामहि तर्हि पुनरपि तेन सहिता जीविष्याम इत्यत्रास्माकं विश्वासो विद्यते।
And if we died with Christ, we believe that we will also live with him,
9 यतः श्मशानाद् उत्थापितः ख्रीष्टो पुन र्न म्रियत इति वयं जानीमः। तस्मिन् कोप्यधिकारो मृत्यो र्नास्ति।
knowing that Christ, having been raised from the dead, dies no more. Death no more has dominion over him.
10 अपरञ्च स यद् अम्रियत तेनैकदा पापम् उद्दिश्याम्रियत, यच्च जीवति तेनेश्वरम् उद्दिश्य जीवति;
For that he died, he died to sin once, but that he lives, he lives to God.
11 तद्वद् यूयमपि स्वान् पापम् उद्दिश्य मृतान् अस्माकं प्रभुणा यीशुख्रीष्टेनेश्वरम् उद्दिश्य जीवन्तो जानीत।
So also ye, reckon yourselves to be indeed dead to sin, but living to God in Christ Jesus our Lord.
12 अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु।
Let not sin therefore reign in your mortal body in order to obey it, in its lusts.
13 अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।
And do not present your body-parts as instruments of unrighteousness to sin, but present yourselves to God, as living out of the dead, and your body-parts as instruments of righteousness to God,
14 युष्माकम् उपरि पापस्याधिपत्यं पुन र्न भविष्यति, यस्माद् यूयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवत।
for sin will not have dominion over you. For ye are not under law, but under grace.
15 किन्तु वयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवाम, इति कारणात् किं पापं करिष्यामः? तन्न भवतु।
What then? May we sin, because we are not under law but under grace? May it not happen!
16 यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?
Know ye not, that to what ye present yourselves as bondmen for obedience, ye are bondmen to what ye obey, whether of sin for death, or of obedience for righteousness?
17 अपरञ्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु।
But thanks to God, that ye were bondmen of sin, but ye obeyed from the heart a model of doctrine for which ye were delivered.
18 इत्थं यूयं पापसेवातो मुक्ताः सन्तो धर्म्मस्य भृत्या जाताः।
And having been set free from sin, ye were made servile to righteousness
19 युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजाङ्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजाङ्गानि समर्पयत।
(I speak man-like because of the weakness of your flesh). For as ye presented your body-parts servile to uncleanness, and to lawlessness for lawlessness, so now present your body-parts servile to righteousness for sanctification.
20 यदा यूयं पापस्य भृत्या आस्त तदा धर्म्मस्य नायत्ता आस्त।
For when ye were bondmen of sin, ye were uninhibited by righteousness.
21 तर्हि यानि कर्म्माणि यूयम् इदानीं लज्जाजनकानि बुध्यध्वे पूर्व्वं तै र्युष्माकं को लाभ आसीत्? तेषां कर्म्मणां फलं मरणमेव।
What fruit therefore did ye have then, of which things ye are now ashamed? For the end of those things is death.
22 किन्तु साम्प्रतं यूयं पापसेवातो मुक्ताः सन्त ईश्वरस्य भृत्याऽभवत तस्माद् युष्माकं पवित्रत्वरूपं लभ्यम् अनन्तजीवनरूपञ्च फलम् आस्ते। (aiōnios g166)
But now having been made free from sin, and having become servile to God, ye have your fruit for sanctification, and the end, eternal life. (aiōnios g166)
23 यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते। (aiōnios g166)
For the wages of sin is death, but the gift of God is eternal life in Christ Jesus our Lord. (aiōnios g166)

< रोमिणः 6 >