< रोमिणः 4 >

1 अस्माकं पूर्व्वपुरुष इब्राहीम् कायिकक्रियया किं लब्धवान् एतदधि किं वदिष्यामः?
如此說來,我們的祖宗亞伯拉罕憑着肉體得了甚麼呢?
2 स यदि निजक्रियाभ्यः सपुण्यो भवेत् तर्हि तस्यात्मश्लाघां कर्त्तुं पन्था भवेदिति सत्यं, किन्त्वीश्वरस्य समीपे नहि।
倘若亞伯拉罕是因行為稱義,就有可誇的;只是在上帝面前並無可誇。
3 शास्त्रे किं लिखति? इब्राहीम् ईश्वरे विश्वसनात् स विश्वासस्तस्मै पुण्यार्थं गणितो बभूव।
經上說甚麼呢?說:「亞伯拉罕信上帝,這就算為他的義。」
4 कर्म्मकारिणो यद् वेतनं तद् अनुग्रहस्य फलं नहि किन्तु तेनोपार्जितं मन्तव्यम्।
做工的得工價,不算恩典,乃是該得的;
5 किन्तु यः पापिनं सपुण्यीकरोति तस्मिन् विश्वासिनः कर्म्महीनस्य जनस्य यो विश्वासः स पुण्यार्थं गण्यो भवति।
惟有不做工的,只信稱罪人為義的上帝,他的信就算為義。
6 अपरं यं क्रियाहीनम् ईश्वरः सपुण्यीकरोति तस्य धन्यवादं दायूद् वर्णयामास, यथा,
正如大衛稱那在行為以外蒙上帝算為義的人是有福的。
7 स धन्योऽघानि मृष्टानि यस्यागांस्यावृतानि च।
他說: 得赦免其過、遮蓋其罪的, 這人是有福的。
8 स च धन्यः परेशेन पापं यस्य न गण्यते।
主不算為有罪的, 這人是有福的。
9 एष धन्यवादस्त्वक्छेदिनम् अत्वक्छेदिनं वा कं प्रति भवति? इब्राहीमो विश्वासः पुण्यार्थं गणित इति वयं वदामः।
如此看來,這福是單加給那受割禮的人嗎?不也是加給那未受割禮的人嗎?因我們所說,亞伯拉罕的信,就算為他的義,
10 स विश्वासस्तस्य त्वक्छेदित्वावस्थायां किम् अत्वक्छेदित्वावस्थायां कस्मिन् समये पुण्यमिव गणितः? त्वक्छेदित्वावस्थायां नहि किन्त्वत्वक्छेदित्वावस्थायां।
是怎麼算的呢?是在他受割禮的時候呢?是在他未受割禮的時候呢?不是在受割禮的時候,乃是在未受割禮的時候。
11 अपरञ्च स यत् सर्व्वेषाम् अत्वक्छेदिनां विश्वासिनाम् आदिपुरुषो भवेत्, ते च पुण्यवत्त्वेन गण्येरन्;
並且他受了割禮的記號,作他未受割禮的時候因信稱義的印證,叫他作一切未受割禮而信之人的父,使他們也算為義;
12 ये च लोकाः केवलं छिन्नत्वचो न सन्तो ऽस्मत्पूर्व्वपुरुष इब्राहीम् अछिन्नत्वक् सन् येन विश्वासमार्गेण गतवान् तेनैव तस्य पादचिह्नेन गच्छन्ति तेषां त्वक्छेदिनामप्यादिपुरुषो भवेत् तदर्थम् अत्वक्छेदिनो मानवस्य विश्वासात् पुण्यम् उत्पद्यत इति प्रमाणस्वरूपं त्वक्छेदचिह्नं स प्राप्नोत्।
又作受割禮之人的父,就是那些不但受割禮,並且按我們的祖宗亞伯拉罕未受割禮而信之蹤跡去行的人。
13 इब्राहीम् जगतोऽधिकारी भविष्यति यैषा प्रतिज्ञा तं तस्य वंशञ्च प्रति पूर्व्वम् अक्रियत सा व्यवस्थामूलिका नहि किन्तु विश्वासजन्यपुण्यमूलिका।
因為上帝應許亞伯拉罕和他後裔,必得承受世界,不是因律法,乃是因信而得的義。
14 यतो व्यवस्थावलम्बिनो यद्यधिकारिणो भवन्ति तर्हि विश्वासो विफलो जायते सा प्रतिज्ञापि लुप्तैव।
若是屬乎律法的人才得為後嗣,信就歸於虛空,應許也就廢棄了。
15 अधिकन्तु व्यवस्था कोपं जनयति यतो ऽविद्यमानायां व्यवस्थायाम् आज्ञालङ्घनं न सम्भवति।
因為律法是惹動忿怒的;哪裏沒有律法,那裏就沒有過犯。
16 अतएव सा प्रतिज्ञा यद् अनुग्रहस्य फलं भवेत् तदर्थं विश्वासमूलिका यतस्तथात्वे तद्वंशसमुदायं प्रति अर्थतो ये व्यवस्थया तद्वंशसम्भवाः केवलं तान् प्रति नहि किन्तु य इब्राहीमीयविश्वासेन तत्सम्भवास्तानपि प्रति सा प्रतिज्ञा स्थास्नुर्भवति।
所以人得為後嗣是本乎信,因此就屬乎恩,叫應許定然歸給一切後裔;不但歸給那屬乎律法的,也歸給那效法亞伯拉罕之信的。
17 यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।
亞伯拉罕所信的,是那叫死人復活、使無變為有的上帝,他在主面前作我們世人的父。如經上所記:「我已經立你作多國的父。」
18 त्वदीयस्तादृशो वंशो जनिष्यते यदिदं वाक्यं प्रतिश्रुतं तदनुसाराद् इब्राहीम् बहुदेशीयलोकानाम् आदिपुरुषो यद् भवति तदर्थं सोऽनपेक्षितव्यमप्यपेक्षमाणो विश्वासं कृतवान्।
他在無可指望的時候,因信仍有指望,就得以作多國的父,正如先前所說:「你的後裔將要如此。」
19 अपरञ्च क्षीणविश्वासो न भूत्वा शतवत्सरवयस्कत्वात् स्वशरीरस्य जरां सारानाम्नः स्वभार्य्याया रजोनिवृत्तिञ्च तृणाय न मेने।
他將近百歲的時候,雖然想到自己的身體如同已死,撒拉的生育已經斷絕,他的信心還是不軟弱;
20 अपरम् अविश्वासाद् ईश्वरस्य प्रतिज्ञावचने कमपि संशयं न चकार;
並且仰望上帝的應許,總沒有因不信心裏起疑惑,反倒因信心裏得堅固,將榮耀歸給上帝,
21 किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।
且滿心相信上帝所應許的必能做成。
22 इति हेतोस्तस्य स विश्वासस्तदीयपुण्यमिव गणयाञ्चक्रे।
所以,這就算為他的義。
23 पुण्यमिवागण्यत तत् केवलस्य तस्य निमित्तं लिखितं नहि, अस्माकं निमित्तमपि,
「算為他義」的這句話不是單為他寫的,
24 यतोऽस्माकं पापनाशार्थं समर्पितोऽस्माकं पुण्यप्राप्त्यर्थञ्चोत्थापितोऽभवत् योऽस्माकं प्रभु र्यीशुस्तस्योत्थापयितरीश्वरे
也是為我們將來得算為義之人寫的,就是我們這信上帝使我們的主耶穌從死裏復活的人。
25 यदि वयं विश्वसामस्तर्ह्यस्माकमपि सएव विश्वासः पुण्यमिव गणयिष्यते।
耶穌被交給人,是為我們的過犯;復活,是為叫我們稱義。

< रोमिणः 4 >