< प्रकाशितं 15 >

1 ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।
And I saw another sign in heaven, great and marvelous: seven agents having seven plagues, the last, because in them the wrath of God is ended.
2 वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,
And I saw like a glassy sea mingled with fire, and those who were victorious over the beast and over its image and over the number of its name, standing on the glassy sea, having harps of God.
3 ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।
And they sing the song of Moses the bondman of God, and the song of the Lamb, saying, Great and marvelous are thy works, Lord God Almighty, righteous and true are thy ways, thou King of the nations.
4 हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥
Who will, no, not fear thee, O Lord, and glorify thy name, because thou alone are holy? Because all the nations will come and worship before thee, because thy righteous deeds were made known.
5 तदनन्तरं मयि निरीक्षमाणे सति स्वर्गे साक्ष्यावासस्य मन्दिरस्य द्वारं मुक्तं।
And after these things I looked, and the temple of the tabernacle of the testimony in heaven was opened.
6 ये च सप्त दूताः सप्त दण्डान् धारयन्ति ते तस्मात् मन्दिरात् निरगच्छन्। तेषां परिच्छदा निर्म्मलशृभ्रवर्णवस्त्रनिर्म्मिता वक्षांसि च सुवर्णशृङ्खलै र्वेष्टितान्यासन्।
And the seven agents came forth from the temple having the seven plagues, who were clothed in pure bright linen, and golden belts girded around their breasts.
7 अपरं चतुर्णां प्राणिनाम् एकस्तेभ्यः सप्तदूतेभ्यः सप्तसुवर्णकंसान् अददात्। (aiōn g165)
And one of the four living creatures gave to the seven agents seven golden bowls containing the wrath of God who lives into the ages of the ages. (aiōn g165)
8 अनन्तरम् ईश्वरस्य तेजःप्रभावकारणात् मन्दिरं धूमेन परिपूर्णं तस्मात् तैः सप्तदूतैः सप्तदण्डानां समाप्तिं यावत् मन्दिरं केनापि प्रवेष्टुं नाशक्यत।
And the temple became full of vapor from the glory of God and from his power. And none was able to enter into the temple until the seven plagues of the seven agents were ended.

< प्रकाशितं 15 >