< प्रकाशितं 11 >

1 अनन्तरं परिमाणदण्डवद् एको नलो मह्यमदायि, स च दूत उपतिष्ठन् माम् अवदत्, उत्थायेश्वरस्य मन्दिरं वेदीं तत्रत्यसेवकांश्च मिमीष्व।
And there was given me a reed similar to a rod, saying, Rise, and measure the temple of God, and the altar, and those who worship in it.
2 किन्तु मन्दिरस्य बहिःप्राङ्गणं त्यज न मिमीष्व यतस्तद् अन्यजातीयेभ्यो दत्तं, पवित्रं नगरञ्च द्विचत्वारिंशन्मासान् यावत् तेषां चरणै र्मर्द्दिष्यते।
And leave out the court outside the temple, and do not measure it, because it has been given to the nations. And they will trample the holy city forty-two months.
3 पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।
And I will give to my two witnesses, and they will prophesy a thousand two hundred and sixty days clothed in sackcloth.
4 तावेव जगदीश्वरस्यान्तिके तिष्ठन्तौ जितवृक्षौ दीपवृक्षौ च।
These men are the two olive trees and the two lampstands, having stood before the Lord of the earth.
5 यदि केचित् तौ हिंसितुं चेष्टन्ते तर्हि तयो र्वदनाभ्याम् अग्नि र्निर्गत्य तयोः शत्रून् भस्मीकरिष्यति। यः कश्चित् तौ हिंसितुं चेष्टते तेनैवमेव विनष्टव्यं।
And if any man wants to harm them, fire comes out of their mouth and devours their enemies. And if any man wants to harm them, he must be killed this way.
6 तयो र्भविष्यद्वाक्यकथनदिनेषु यथा वृष्टि र्न जायते तथा गगनं रोद्धुं तयोः सामर्थ्यम् अस्ति, अपरं तोयानि शोणितरूपाणि कर्त्तुं निजाभिलाषात् मुहुर्मुहुः सर्व्वविधदण्डैः पृथिवीम् आहन्तुञ्च तयोः सामर्थ्यमस्ति।
These men have authority to shut the sky, so that it may not rain the days of their prophecy. And they have authority over the waters to turn them into blood, and to strike the earth with every plague, as often as they may desire.
7 अपरं तयोः साक्ष्ये समाप्ते सति रसातलाद् येनोत्थितव्यं स पशुस्ताभ्यां सह युद्ध्वा तौ जेष्यति हनिष्यति च। (Abyssos g12)
And when they have finished their testimony, the beast that ascends out of the abyss will make war with them, and he will overcome them and kill them. (Abyssos g12)
8 ततस्तयोः प्रभुरपि यस्यां महापुर्य्यां क्रुशे हतो ऽर्थतो यस्याः पारमार्थिकनामनी सिदोमं मिसरश्चेति तस्या महापुर्य्यांः सन्निवेशे तयोः कुणपे स्थास्यतः।
And their corpses are in the thoroughfare of the great city, which spiritually is called Sodom and Egypt, where also their Lord was crucified.
9 ततो नानाजातीया नानावंशीया नानाभाषावादिनो नानादेशीयाश्च बहवो मानवाः सार्द्धदिनत्रयं तयोः कुणपे निरीक्षिष्यन्ते, तयोः कुणपयोः श्मशाने स्थापनं नानुज्ञास्यन्ति।
And out of the peoples and tribes and tongues and nations they see their corpses three and a half days. And they will not allow their corpses to be put in a sepulcher.
10 पृथिवीनिवासिनश्च तयो र्हेतोरानन्दिष्यन्ति सुखभोगं कुर्व्वन्तः परस्परं दानानि प्रेषयिष्यन्ति च यतस्ताभ्यां भविष्यद्वादिभ्यां पृथिवीनिवासिनो यातनां प्राप्ताः।
And those who dwell upon the earth rejoice over them, and will celebrate, and will give gifts to each other, because these two prophets tormented those who dwell on the earth.
11 तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते ऽतीव त्रासयुक्ता अभवन्।
And after the three and a half days a spirit of life from God entered into them, and they stood upon their feet, and great fear fell upon those who watched them.
12 ततः परं तौ स्वर्गाद् उच्चैरिदं कथयन्तं रवम् अशृणुतां युवां स्थानम् एतद् आरोहतां ततस्तयोः शत्रुषु निरीक्षमाणेषु तौ मेघेन स्वर्गम् आरूढवन्तौ।
And I heard a great voice from heaven saying to them, Come up here. And they ascended up into heaven in the cloud, and their enemies watched them.
13 तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।
And in that day a great earthquake occurred, and the tenth part of the city fell. And seven thousand names of men were killed in the earthquake. And the rest became afraid, and gave glory to the God of heaven.
14 द्वितीयः सन्तापो गतः पश्य तृतीयः सन्तापस्तूर्णम् आगच्छति।
The second woe departed. Behold, the third woe comes quickly.
15 अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥ (aiōn g165)
And the seventh agent sounded, and great voices occurred in heaven, saying, The kingdom of the world has become of our Lord, and of his Christ, and he will reign into the ages of the ages. (aiōn g165)
16 अपरम् ईश्वरस्यान्तिके स्वकीयसिंहासनेषूपविष्टाश्चतुर्विंशतिप्राचीना भुवि न्यङ्भूखा भूत्वेश्वरं प्रणम्यावदन्,
And the twenty-four elders who sit before the throne of God, on their thrones, fell upon their faces and worshiped God,
17 हे भूत वर्त्तमानापि भविष्यंश्च परेश्वर। हे सर्व्वशक्तिमन् स्वामिन् वयं ते कुर्म्महे स्तवं। यत् त्वया क्रियते राज्यं गृहीत्वा ते महाबलं।
saying, We thank thee, Lord God Almighty, who is and was, because thou have taken thy great power and reigned.
18 विजातीयेषु कुप्यत्सु प्रादुर्भूता तव क्रुधा। मृतानामपि कालो ऽसौ विचारो भविता यदा। भृत्याश्च तव यावन्तो भविष्यद्वादिसाधवः। ये च क्षुद्रा महान्तो वा नामतस्ते हि बिभ्यति। यदा सर्व्वेभ्य एतेभ्यो वेतनं वितरिष्यते। गन्तव्यश्च यदा नाशो वसुधाया विनाशकैः॥
And the nations were angry. And thy wrath came, and the time of the dead to be judged, and to give the reward to thy bondmen the prophets, and to the sanctified, and to those who fear thy name, the small and the great, and to destroy those who destroy the earth.
19 अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।
And the temple of God was opened in heaven, and the ark of the covenant of the Lord was seen in his temple. And there occurred lightnings, and voices, and thunders, and great hail.

< प्रकाशितं 11 >