< फिलिपिनः 2 >

1 ख्रीष्टाद् यदि किमपि सान्त्वनं कश्चित् प्रेमजातो हर्षः किञ्चिद् आत्मनः समभागित्वं काचिद् अनुकम्पा कृपा वा जायते तर्हि यूयं ममाह्लादं पूरयन्त
If, therefore, there is any consolation in Christ, if any comfort arising from love, if any participation of the Spirit, if any affections and mercies,
2 एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।
fulfill my joy, that you be of the same mind, having the same love, of one soul, of one mind;
3 विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
doing nothing in strife and vain glory, but in lowliness of mind let each esteem others better than himself.
4 केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।
Consider not each one his own gifts, but each one also the gifts of others.
5 ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।
Let this mind be in you, which was also in Christ Jesus,
6 स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत,
who, being in the form of God, did not think it an act of robbery to be equal with God;
7 किन्तु स्वं शून्यं कृत्वा दासरूपी बभूव नराकृतिं लेभे च।
but he divested himself by taking the form of a servant, and being made in the likeness of men:
8 इत्थं नरमूर्त्तिम् आश्रित्य नम्रतां स्वीकृत्य मृत्योरर्थतः क्रुशीयमृत्योरेव भोगायाज्ञाग्राही बभूव।
and being found in appearance as a man, he humbled himself by becoming obedient even to death, the death, indeed, of the cross.
9 तत्कारणाद् ईश्वरोऽपि तं सर्व्वोन्नतं चकार यच्च नाम सर्व्वेषां नाम्नां श्रेष्ठं तदेव तस्मै ददौ,
For which reason God has highly exalted him, and, also, bestowed on him a name that is above every name;
10 ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः,
that in the name of Jesus every knee should bow of those who are in heaven, and those who are on earth, and those who are under the earth;
11 तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं।
and that every tongue should confess that Jesus Christ is Lord, to the glory of God the Father.
12 अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।
So, then, my beloved, as you have always obeyed, not as in my presence only, but now much more in my absence, work out your own salvation with fear and trembling;
13 यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।
for it is God, who, of his good pleasure, works in you both the will and the power to perform.
14 यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला
Do all things without murmurings and disputings,
15 ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,
that you may be without reproach and Harmless, the children of God, without blame, in the midst of a wicked and perverse generation, among whom you shine as luminaries in the world,
16 यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि।
holding forth the word of life, that I may rejoice in the day of Christ, that I did not run in vain, nor labor in vain.
17 युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च।
But if I am poured out on the sacrifice and service of your faith, I rejoice, and rejoice with you all.
18 तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च।
In like manner do you also rejoice, and rejoice with me.
19 युष्माकम् अवस्थाम् अवगत्याहमपि यत् सान्त्वनां प्राप्नुयां तदर्थं तीमथियं त्वरया युष्मत्समीपं प्रेषयिष्यामीति प्रभौ प्रत्याशां कुर्व्वे।
But I trust in the Lord Jesus, to send Timothy shortly to you, that I also may be refreshed by knowing your condition;
20 यः सत्यरूपेण युष्माकं हितं चिन्तयति तादृश एकभावस्तस्मादन्यः कोऽपि मम सन्निधौ नास्ति।
for I have no one of a kindred spirit who will sincerely care for your condition:
21 यतोऽपरे सर्व्वे यीशोः ख्रीष्टस्य विषयान् न चिन्तयन्त आत्मविषयान् चिन्तयन्ति।
for all seek their own, not the things of Jesus Christ.
22 किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।
But you know his approved character, that as a son with a father he has served with me in the gospel.
23 अतएव मम भाविदशां ज्ञात्वा तत्क्षणात् तमेव प्रेषयितुं प्रत्याशां कुर्व्वे
Him, therefore, I hope to send immediately, as soon as I know how it may go with me.
24 स्वयम् अहमपि तूर्णं युष्मत्समीपं गमिष्यामीत्याशां प्रभुना कुर्व्वे।
But I trust in the Lord that I myself also will come shortly.
25 अपरं य इपाफ्रदीतो मम भ्राता कर्म्मयुद्धाभ्यां मम सहायश्च युष्माकं दूतो मदीयोपकाराय प्रतिनिधिश्चास्ति युष्मत्समीपे तस्य प्रेषणम् आवश्यकम् अमन्ये।
Yet I thought it necessary to send to you Epaphroditus my brother and companion in labor and fellow-soldier, but your apostle, who also ministered to my want,
26 यतः स युष्मान् सर्व्वान् अकाङ्क्षत युष्माभिस्तस्य रोगस्य वार्त्ताश्रावीति बुद्ध्वा पर्य्यशोचच्च।
because he longed after you all, and was much distressed, because you had heard that he was sick.
27 स पीडया मृतकल्पोऽभवदिति सत्यं किन्त्वीश्वरस्तं दयितवान् मम च दुःखात् परं पुनर्दुःखं यन्न भवेत् तदर्थं केवलं तं न दयित्वा मामपि दयितवान्।
And, indeed, he was sick near to death; but God had mercy on him, and not on him only, but on me also, that I might not have sorrow upon sorrow.
28 अतएव यूयं तं विलोक्य यत् पुनरानन्देत ममापि दुःखस्य ह्रासो यद् भवेत् तदर्थम् अहं त्वरया तम् अप्रेषयं।
I sent him, therefore, the sooner, that, by seeing him again, you might rejoice, and that I might be the less sorrowful.
29 अतो यूयं प्रभोः कृते सम्पूर्णेनानन्देन तं गृह्लीत तादृशान् लोकांश्चादरणीयान् मन्यध्वं।
Receive him, therefore, in the Lord with all joy, and regard such as worthy of honor;
30 यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्।
because for the work of the Christ he was near to death, not regarding his life, that he might supply that which was lacking in your service to me.

< फिलिपिनः 2 >