< यिहूदाः 1 >

1 यीशुख्रीष्टस्य दासो याकूबो भ्राता यिहूदास्तातेनेश्वरेण पवित्रीकृतान् यीशुख्रीष्टेन रक्षितांश्चाहूतान् लोकान् प्रति पत्रं लिखति।
Jude, a bondman of Jesus Christ, and brother of James, to the called, sanctified in God the Father, and kept for Jesus Christ:
2 कृपा शान्तिः प्रेम च बाहुल्यरूपेण युष्मास्वधितिष्ठतु।
Mercy to you and peace and love be multiplied.
3 हे प्रियाः, साधारणपरित्राणमधि युष्मान् प्रति लेखितुं मम बहुयत्ने जाते पूर्व्वकाले पवित्रलोकेषु समर्पितो यो धर्म्मस्तदर्थं यूयं प्राणव्ययेनापि सचेष्टा भवतेति विनयार्थं युष्मान् प्रति पत्रलेखनमावश्यकम् अमन्ये।
Beloved, making all diligence to write to you about the common salvation, I had need to write to you exhorting you to earnestly contend for the faith that was once for all delivered to the sanctified.
4 यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।
For certain men have sneaked in, those written about formerly for this condemnation, irreverent men, perverting the grace of our God into licentiousness, and denying our only Master God, and our Lord Jesus Christ.
5 तस्माद् यूयं पुरा यद् अवगतास्तत् पुन र्युष्मान् स्मारयितुम् इच्छामि, फलतः प्रभुरेककृत्वः स्वप्रजा मिसरदेशाद् उदधार यत् ततः परम् अविश्वासिनो व्यनाशयत्।
Now I want to remind you, ye having known this once, that the Lord, having saved a people out of the land of Egypt, afterward destroyed those who did not believe.
6 ये च स्वर्गदूताः स्वीयकर्तृत्वपदे न स्थित्वा स्ववासस्थानं परित्यक्तवन्तस्तान् स महादिनस्य विचारार्थम् अन्धकारमये ऽधःस्थाने सदास्थायिभि र्बन्धनैरबध्नात्। (aïdios g126)
And the agents who did not keep their own principality, but left their own habitation, he has kept reserved in eternal bonds under darkness for the judgment of the great day. (aïdios g126)
7 अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते। (aiōnios g166)
As Sodom and Gomorrah, and the cities around them, the same kind of way with these who indulged in fornication, and who went rear of queer flesh, are set forth an example, undergoing the punishment of eternal fire. (aiōnios g166)
8 तथैवेमे स्वप्नाचारिणोऽपि स्वशरीराणि कलङ्कयन्ति राजाधीनतां न स्वीकुर्व्वन्त्युच्चपदस्थान् निन्दन्ति च।
Nevertheless in the same way also these men who dream, indeed defile flesh, and reject lordship, and speak evil of dignities.
9 किन्तु प्रधानदिव्यदूतो मीखायेलो यदा मूससो देहे शयतानेन विवदमानः समभाषत तदा तिस्मन् निन्दारूपं दण्डं समर्पयितुं साहसं न कृत्वाकथयत् प्रभुस्त्वां भर्त्सयतां।
But Michael the arch-agent, when he disputed with the devil, contending about the body of Moses, dared not bring a railing judgment, but said, May the Lord rebuke thee.
10 किन्त्विमे यन्न बुध्यन्ते तन्निन्दन्ति यच्च निर्ब्बोधपशव इवेन्द्रियैरवगच्छन्ति तेन नश्यन्ति।
But these men indeed revile whatever they have not seen. But whatever they understand naturally, as the irrational beasts, in these things they are corrupted.
11 तान् धिक्, ते काबिलो मार्गे चरन्ति पारितोषिकस्याशातो बिलियमो भ्रान्तिमनुधावन्ति कोरहस्य दुर्म्मुखत्वेन विनश्यन्ति च।
Woe to them! Because they went in the way of Cain, and rushed to the error of Balaam's reward, and perished in the rebellion of Korah.
12 युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,
These are reefs in your love-feasts, feasting together, fearlessly tending to themselves, waterless clouds carried along by winds, autumn trees without fruit, who died twice having being uprooted,
13 स्वकीयलज्जाफेणोद्वमकाः प्रचण्डाः सामुद्रतरङ्गाः सदाकालं यावत् घोरतिमिरभागीनि भ्रमणकारीणि नक्षत्राणि च भवन्ति। (aiōn g165)
wild waves of the sea foaming out their own shame, wandering stars for whom the gloom of darkness has been reserved into an age. (aiōn g165)
14 आदमतः सप्तमः पुरुषो यो हनोकः स तानुद्दिश्य भविष्यद्वाक्यमिदं कथितवान्, यथा, पश्य स्वकीयपुण्यानाम् अयुतै र्वेष्टितः प्रभुः।
And Enoch also, the seventh from Adam, prophesied about these men, saying, Behold, the Lord came with his holy myriads,
15 सर्व्वान् प्रति विचाराज्ञासाधनायागमिष्यति। तदा चाधार्म्मिकाः सर्व्वे जाता यैरपराधिनः। विधर्म्मकर्म्मणां तेषां सर्व्वेषामेव कारणात्। तथा तद्वैपरीत्येनाप्यधर्म्माचारिपापिनां। उक्तकठोरवाक्यानां सर्व्वेषामपि कारणात्। परमेशेन दोषित्वं तेषां प्रकाशयिष्यते॥
to execute judgment against all, and to convict all the irreverent of them about all the works of their own irreverence that they have done irreverently, and about all the harsh things that irreverent sinners spoke against him.
16 ते वाक्कलहकारिणः स्वभाग्यनिन्दकाः स्वेच्छाचारिणो दर्पवादिमुखविशिष्टा लाभार्थं मनुष्यस्तावकाश्च सन्ति।
These are grumblers, fault-finders, going according to their lusts, and their mouth speaks overblown things, marveling personages for the sake of advantage.
17 किन्तु हे प्रियतमाः, अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रेरितै र्यद् वाक्यं पूर्व्वं युष्मभ्यं कथितं तत् स्मरत,
But ye, beloved, remember the sayings previously spoken by the apostles of our Lord Jesus Christ,
18 फलतः शेषसमये स्वेच्छातो ऽधर्म्माचारिणो निन्दका उपस्थास्यन्तीति।
that they told you that there will be scoffers during the last time, going according to their own desires of irreverences.
19 एते लोकाः स्वान् पृथक् कुर्व्वन्तः सांसारिका आत्महीनाश्च सन्ति।
These are those who make divisions, world-soul men, not having Spirit.
20 किन्तु हे प्रियतमाः, यूयं स्वेषाम् अतिपवित्रविश्वासे निचीयमानाः पवित्रेणात्मना प्रार्थनां कुर्व्वन्त
But ye beloved, building up yourselves in your most holy faith, praying in the Holy Spirit,
21 ईश्वरस्य प्रेम्ना स्वान् रक्षत, अनन्तजीवनाय चास्माकं प्रभो र्यीशुख्रीष्टस्य कृपां प्रतीक्षध्वं। (aiōnios g166)
keep yourselves in the love of God, awaiting the mercy of our Lord Jesus Christ for eternal life. (aiōnios g166)
22 अपरं यूयं विविच्य कांश्चिद् अनुकम्पध्वं
And on some be ye merciful-being discerning.
23 कांश्चिद् अग्नित उद्धृत्य भयं प्रदर्श्य रक्षत, शारीरिकभावेन कलङ्कितं वस्त्रमपि ऋतीयध्वं।
And in fear save some, snatching them out of the fire, hating even the garment that was stained by the flesh.
24 अपरञ्च युष्मान् स्खलनाद् रक्षितुम् उल्लासेन स्वीयतेजसः साक्षात् निर्द्दोषान् स्थापयितुञ्च समर्थो
Now to him who is able to keep them non-stumbling, and to present before his glory, unblemished in gladness,
25 यो ऽस्माकम् अद्वितीयस्त्राणकर्त्ता सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा पराक्रमः कर्तृत्वञ्चेदानीम् अनन्तकालं यावद् भूयात्। आमेन्। (aiōn g165)
to the only wise God our Savior, is glory, majesty, dominion and power, both now and into all the ages. Truly. (aiōn g165)

< यिहूदाः 1 >