< योहनः 20 >

1 अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।
Now on the first day of the week Mary Magdalene comes early, while it was still darkness, to the sepulcher, and sees the stone taken away from the sepulcher.
2 पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।
Therefore she runs and comes to Simon Peter, and to the other disciple whom Jesus loved, and says to them, They have taken away the Lord out of the sepulcher, and we know not where they have laid him.
3 अतः पितरः सोन्यशिष्यश्च बर्हि र्भुत्वा श्मशानस्थानं गन्तुम् आरभेतां।
Peter therefore went forth, and the other disciple, and they went toward the sepulcher.
4 उभयोर्धावतोः सोन्यशिष्यः पितरं पश्चात् त्यक्त्वा पूर्व्वं श्मशानस्थान उपस्थितवान्।
And the two men ran together, and the other disciple ran ahead quicker than Peter and came first to the sepulcher.
5 तदा प्रह्वीभूय स्थापितवस्त्राणि दृष्टवान् किन्तु न प्राविशत्।
And after stooping down, he sees the linen cloths lying, yet he entered not.
6 अपरं शिमोन्पितर आगत्य श्मशानस्थानं प्रविश्य
Simon Peter therefore comes following him, and he entered into the sepulcher. And he sees the linen cloths lying,
7 स्थापितवस्त्राणि मस्तकस्य वस्त्रञ्च पृथक् स्थानान्तरे स्थापितं दृष्टवान्।
and the face cloth that was on his head, not lying with the linen cloths, but wrapped up in one place separately.
8 ततः श्मशानस्थानं पूर्व्वम् आगतो योन्यशिष्यः सोपि प्रविश्य तादृशं दृष्टा व्यश्वसीत्।
Therefore then the other disciple who came first to the sepulcher, also entered in, and he saw and believed.
9 यतः श्मशानात् स उत्थापयितव्य एतस्य धर्म्मपुस्तकवचनस्य भावं ते तदा वोद्धुं नाशन्कुवन्।
For they had not yet known the scripture that he must rise from the dead.
10 अनन्तरं तौ द्वौ शिष्यौ स्वं स्वं गृहं परावृत्यागच्छताम्।
So the disciples departed again to themselves.
11 ततः परं मरियम् श्मशानद्वारस्य बहिः स्थित्वा रोदितुम् आरभत ततो रुदती प्रह्वीभूय श्मशानं विलोक्य
But Mary had stood outside near the sepulcher weeping. So, as she wept, she stooped down to the sepulcher.
12 यीशोः शयनस्थानस्य शिरःस्थाने पदतले च द्वयो र्दिशो द्वौ स्वर्गीयदूतावुपविष्टौ समपश्यत्।
And she sees two agents in white, sitting, one at the head and one at the feet, where the body of Jesus was lain.
13 तौ पृष्टवन्तौ हे नारि कुतो रोदिषि? सावदत् लोका मम प्रभुं नीत्वा कुत्रास्थापयन् इति न जानामि।
And those men say to her, Woman, why weep thou? She says to them, Because they have taken away my Lord, and I know not where they have laid him.
14 इत्युक्त्वा मुखं परावृत्य यीशुं दण्डायमानम् अपश्यत् किन्तु स यीशुरिति सा ज्ञातुं नाशक्नोत्।
And having said these things, she turned backward, and sees Jesus standing. And she had not known that it is Jesus.
15 तदा यीशुस्ताम् अपृच्छत् हे नारि कुतो रोदिषि? कं वा मृगयसे? ततः सा तम् उद्यानसेवकं ज्ञात्वा व्याहरत्, हे महेच्छ त्वं यदीतः स्थानात् तं नीतवान् तर्हि कुत्रास्थापयस्तद् वद तत्स्थानात् तम् आनयामि।
Jesus says to her, Woman, why weep thou? Whom seek thou? That woman, supposing that he is the gardener, says to him, Sir, if thou have taken him, tell me where thou have laid him, and I will take him away.
16 तदा यीशुस्ताम् अवदत् हे मरियम्। ततः सा परावृत्य प्रत्यवदत् हे रब्बूनी अर्थात् हे गुरो।
Jesus says to her, Mary. After turning around, that woman says to him, Rabboni, which says, Teacher.
17 तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।
Jesus says to her, Do not touch me, for I have not yet ascended to my Father. But go to my brothers, and say to them, I ascend to my Father and your Father, and my God and your God.
18 ततो मग्दलीनीमरियम् तत्क्षणाद् गत्वा प्रभुस्तस्यै दर्शनं दत्त्वा कथा एता अकथयद् इति वार्त्तां शिष्येभ्योऽकथयत्।
Mary Magdalene comes informing the disciples that she has seen the Lord, and he spoke these things to her.
19 ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।
Therefore being evening that day, the first day of the week, and the doors having been shut where the disciples were who assembled because of fear of the Jews, Jesus came and stood in the midst, and says to them, Peace to you.
20 इत्युक्त्वा निजहस्तं कुक्षिञ्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्।
And having said this, he showed them his hands and side. His disciples therefore rejoiced when they saw the Lord.
21 यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।
Jesus therefore said to them again, Peace to you. As the Father has sent me, I also send you.
22 इत्युक्त्वा स तेषामुपरि दीर्घप्रश्वासं दत्त्वा कथितवान् पवित्रम् आत्मानं गृह्लीत।
And after saying this, he breathed on them, and says to them, Receive ye the Holy Spirit.
23 यूयं येषां पापानि मोचयिष्यथ ते मोचयिष्यन्ते येषाञ्च पापाति न मोचयिष्यथ ते न मोचयिष्यन्ते।
If ye forgive the sins of any, they are forgiven them. If ye retain of any, they are retained.
24 द्वादशमध्ये गणितो यमजो थोमानामा शिष्यो यीशोरागमनकालै तैः सार्द्धं नासीत्।
But Thomas, one of the twelve, called Didymus, was not with them when Jesus came.
25 अतो वयं प्रभूम् अपश्यामेति वाक्येऽन्यशिष्यैरुक्ते सोवदत्, तस्य हस्तयो र्लौहकीलकानां चिह्नं न विलोक्य तच्चिह्नम् अङ्गुल्या न स्पृष्ट्वा तस्य कुक्षौ हस्तं नारोप्य चाहं न विश्वसिष्यामि।
The other disciples therefore said to him, We have seen the Lord. But he said to them, Unless I may see the mark of the nails in his hands, and put my finger into the mark of the nails, and put my hand into his side, I will, no, not believe.
26 अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।
And after eight days his disciples were again inside, and Thomas with them. Jesus comes, the doors being shut, and stood in the midst, and said, Peace to you.
27 पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।
Then he says to Thomas, Bring thy finger here, and see my hands, and bring thy hand, and put into my side, and do not become faithless, but believing.
28 तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर।
Thomas answered and said to him, My Lord and my God.
29 यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः।
Jesus says to him, Because thou have seen me, thou have believed. Blessed are those who have not seen, and have believed.
30 एतदन्यानि पुस्तकेऽस्मिन् अलिखितानि बहून्याश्चर्य्यकर्म्माणि यीशुः शिष्याणां पुरस्ताद् अकरोत्।
And indeed therefore many other signs Jesus did in the presence of his disciples, which are not written in this book.
31 किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।
But these are written, so that ye may believe that Jesus is the Christ, the Son of God, and that believing ye may have life in his name.

< योहनः 20 >