< इफिषिणः 1 >

1 ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौल इफिषनगरस्थान् पवित्रान् ख्रीष्टयीशौ विश्वासिनो लोकान् प्रति पत्रं लिखति।
Paul, an apostle of Jesus Christ through the will of God, to the sanctified who are at Ephesus, and faithful in Christ Jesus:
2 अस्माकं तातस्येश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
Grace to you and peace from God our Father and the Lord Jesus Christ.
3 अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।
Blessed is the God and Father of our Lord Jesus Christ, who has blessed us with every spiritual blessing in the heavenly things in Christ.
4 वयं यत् तस्य समक्षं प्रेम्ना पवित्रा निष्कलङ्काश्च भवामस्तदर्थं स जगतः सृष्टे पूर्व्वं तेनास्मान् अभिरोचितवान्, निजाभिलषितानुरोधाच्च
Just as he chose us in him before the foundation of the world, for us to be holy and unblemished before him in love.
5 यीशुना ख्रीष्टेन स्वस्य निमित्तं पुत्रत्वपदेऽस्मान् स्वकीयानुग्रहस्य महत्त्वस्य प्रशंसार्थं पूर्व्वं नियुक्तवान्।
Who predestined us for sonship through Jesus Christ for himself, according to the desire of his will,
6 तस्माद् अनुग्रहात् स येन प्रियतमेन पुत्रेणास्मान् अनुगृहीतवान्,
for appreciation of the glory of his grace, by which he blessed us in him who is beloved.
7 वयं तस्य शोणितेन मुक्तिम् अर्थतः पापक्षमां लब्धवन्तः।
In whom we have redemption through his blood, the forgiveness of transgressions, according to the wealth of his grace,
8 तस्य य ईदृशोऽनुग्रहनिधिस्तस्मात् सोऽस्मभ्यं सर्व्वविधं ज्ञानं बुद्धिञ्च बाहुल्यरूपेण वितरितवान्।
which he abounded for us in all wisdom and intelligence.
9 स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा
Having made known to us the mystery of his will according to his desire, which he purposed within himself
10 तेन कृतो यो मनोरथः सम्पूर्णतां गतवत्सु समयेषु साधयितव्यस्तमधि स स्वकीयाभिलाषस्य निगूढं भावम् अस्मान् ज्ञापितवान्।
for an administration of the fullness of the times. To gather together all things in the Christ, things in the heavens and things upon the earth,
11 पूर्व्वं ख्रीष्टे विश्वासिनो ये वयम् अस्मत्तो यत् तस्य महिम्नः प्रशंसा जायते,
in him in whom also we obtained an inheritance. Having been predestined according to the purpose of him who works all things according to the deliberation of his will,
12 तदर्थं यः स्वकीयेच्छायाः मन्त्रणातः सर्व्वाणि साधयति तस्य मनोरथाद् वयं ख्रीष्टेन पूर्व्वं निरूपिताः सन्तोऽधिकारिणो जाताः।
for us to be for appreciation of his glory, men who have first hoped in the Christ.
13 यूयमपि सत्यं वाक्यम् अर्थतो युष्मत्परित्राणस्य सुसंवादं निशम्य तस्मिन्नेव ख्रीष्टे विश्वसितवन्तः प्रतिज्ञातेन पवित्रेणात्मना मुद्रयेवाङ्किताश्च।
In whom ye also, having heard the word of the truth, the good news of your salvation, in whom also having believed, ye were sealed with the Holy Spirit of the promise,
14 यतस्तस्य महिम्नः प्रकाशाय तेन क्रीतानां लोकानां मुक्ति र्यावन्न भविष्यति तावत् स आत्मास्माकम् अधिकारित्वस्य सत्यङ्कारस्य पणस्वरूपो भवति।
which is a pledge of our inheritance, for the redemption of the acquired possession, for appreciation of his glory.
15 प्रभौ यीशौ युष्माकं विश्वासः सर्व्वेषु पवित्रलोकेषु प्रेम चास्त इति वार्त्तां श्रुत्वाहमपि
Because of this I also, having heard of your faith in the Lord Jesus, and love for all the sanctified,
16 युष्मानधि निरन्तरम् ईश्वरं धन्यं वदन् प्रार्थनासमये च युष्मान् स्मरन् वरमिमं याचामि।
I cease not expressing thanks for you, making remembrance of you in my prayers.
17 अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।
So that the God of our Lord Jesus Christ, the Father of glory, may give you a spirit of wisdom and revelation in knowledge of him,
18 युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य
having the eyes of your heart enlightened. For you to know what is the hope of his calling, and what is the wealth of the glory of his inheritance in the sanctified,
19 तदीयमहापराक्रमस्य महत्वं कीदृग् अनुपमं तत् सर्व्वं युष्मान् ज्ञापयतु।
and what is the transcending greatness of his power toward us who believe, according to the working of the dominion of his might,
20 यतः स यस्याः शक्तेः प्रबलतां ख्रीष्टे प्रकाशयन् मृतगणमध्यात् तम् उत्थापितवान्,
which he wrought in the Christ, having raised him from the dead and seated at his right hand in the heavenly things,
21 अधिपतित्वपदं शासनपदं पराक्रमो राजत्वञ्चेतिनामानि यावन्ति पदानीह लोके परलोके च विद्यन्ते तेषां सर्व्वेषाम् ऊर्द्ध्वे स्वर्गे निजदक्षिणपार्श्वे तम् उपवेशितवान्, (aiōn g165)
far above every principle office, and position of authority, and power, and lordship, and every name that is named, not only in this age, but also in that which is coming. (aiōn g165)
22 सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा
And he subordinated all things under his feet, and appointed him head over all things for the church,
23 सर्व्वेषाम् उपर्य्युपरि नियुक्तवांश्च सैव शक्तिरस्मास्वपि तेन प्रकाश्यते।
which is his body, the fulfillment of him who fills all in all.

< इफिषिणः 1 >