< प्रेरिताः 11 >

1 इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः।
Now the apostles and the brothers who were in Judea heard that the Gentiles also received the word of God.
2 ततः पितरे यिरूशालम्नगरं गतवति त्वक्छेदिनो लोकास्तेन सह विवदमाना अवदन्,
And when Peter came up to Jerusalem, the men of circumcision contended against him,
3 त्वम् अत्वक्छेदिलोकानां गृहं गत्वा तैः सार्द्धं भुक्तवान्।
saying, Thou went in to uncircumcised men, having also eaten with them.
4 ततः पितर आदितः क्रमशस्तत्कार्य्यस्य सर्व्ववृत्तान्तमाख्यातुम् आरब्धवान्।
But when Peter began, he expounded to them in order, saying,
5 याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्।
I was in the city of Joppa praying, and in a trance I saw a vision, a certain container descending, as a great sheet being lowered from heaven by four corners, and it came as far as to me,
6 पश्चात् तद् अनन्यदृष्ट्या दृष्ट्वा विविच्य तस्य मध्ये नानाप्रकारान् ग्राम्यवन्यपशून् उरोगामिखेचरांश्च दृष्टवान्;
having gazed at which, I was examining. And I saw the four footed things of the earth, and the wild beasts, and the creeping things, and the birds of the sky.
7 हे पितर त्वमुत्थाय गत्वा भुंक्ष्व मां सम्बोध्य कथयन्तं शब्दमेकं श्रुतवांश्च।
And I heard a voice saying to me, Having risen, Peter, kill and eat.
8 ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः किञ्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्।
But I said, Not so, Lord, because nothing profane or unclean has ever entered into my mouth.
9 अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता।
But a voice answered me for a second time out of heaven, What God has cleansed, thou shall not make profane.
10 त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं।
And this happened thrice, and all were drawn up again into heaven.
11 पश्चात् कैसरियानगरात् त्रयो जना मन्निकटं प्रेषिता यत्र निवेशने स्थितोहं तस्मिन् समये तत्रोपातिष्ठन्।
And behold, immediately three men stood at the house in which I was, who were sent from Caesarea to me.
12 तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।
And the Spirit told me to go with them, doubting nothing. And these six brothers also went with me, and we entered into the man's house.
13 सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;
And he informed us how he saw the agent in his house, who stood and said to him, Send forth men to Joppa, and summon Simon, the man surnamed Peter,
14 ततस्तव त्वदीयपरिवाराणाञ्च येन परित्राणं भविष्यति तत् स उपदेक्ष्यति।
who will speak sayings to thee, by which thou will be saved, thou and all thy house.
15 अहं तां कथामुत्थाप्य कथितवान् तेन प्रथमम् अस्माकम् उपरि यथा पवित्र आत्मावरूढवान् तथा तेषामप्युपरि समवरूढवान्।
And as I began to speak, the Holy Spirit fell on them, just as also on us at the beginning.
16 तेन योहन् जले मज्जितवान् इति सत्यं किन्तु यूयं पवित्र आत्मनि मज्जिता भविष्यथ, इति यद्वाक्यं प्रभुरुदितवान् तत् तदा मया स्मृतम्।
And I remembered the saying of the Lord, how he said, John indeed immersed in water, but ye will be immersed in the Holy Spirit.
17 अतः प्रभा यीशुख्रीष्टे प्रत्ययकारिणो ये वयम् अस्मभ्यम् ईश्वरो यद् दत्तवान् तत् तेभ्यो लोकेभ्योपि दत्तवान् ततः कोहं? किमहम् ईश्वरं वारयितुं शक्नोमि?
If then God gave to them the identical gift as also to us who believed in the Lord Jesus Christ, but what power was I to hinder God?
18 कथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्।
And when they heard these things, they relaxed and glorified God, saying, Then God has also granted to the Gentiles repentance to life.
19 स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।
Indeed therefore those who were scattered abroad from the persecution that occurred against Stephen passed through as far as Phoenicia and Cyprus and Antioch, speaking the word to none except Jews only.
20 अपरं तेषां कुप्रीयाः कुरीनीयाश्च कियन्तो जना आन्तियखियानगरं गत्वा यूनानीयलोकानां समीपेपि प्रभोर्यीशोः कथां प्राचारयन्।
And some of them were men, Cyprians and Cyrenians, who, having come to Antioch, spoke to the Hellenists, preaching good news, the Lord Jesus.
21 प्रभोः करस्तेषां सहाय आसीत् तस्माद् अनेके लोका विश्वस्य प्रभुं प्रति परावर्त्तन्त।
And the hand of the Lord was with them, and a great number who believed turned to the Lord.
22 इति वार्त्तायां यिरूशालमस्थमण्डलीयलोकानां कर्णगोचरीभूतायाम् आन्तियखियानगरं गन्तु ते बर्णब्बां प्रैरयन्।
And the word about them was heard in the ears of the church at Jerusalem, and they dispatched Barnabas to pass through as far as Antioch,
23 ततो बर्णब्बास्तत्र उपस्थितः सन् ईश्वरस्यानुग्रहस्य फलं दृष्ट्वा सानन्दो जातः,
who, having arrived, and having seen the grace of God, rejoiced. And he encouraged all, with purpose of heart, to remain in the Lord.
24 स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।
Because he was a good man, and full of the Holy Spirit and of faith. And a considerable multitude was added to the Lord.
25 शेषे शौलं मृगयितुं बर्णब्बास्तार्षनगरं प्रस्थितवान्। तत्र तस्योद्देशं प्राप्य तम् आन्तियखियानगरम् आनयत्;
And Barnabas departed to Tarsus to seek Saul,
26 ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।
and when he found him, he brought him to Antioch. And it came to pass a whole year for them to be assembled in the congregation, and to teach a considerable multitude, and to call the disciples Christians, first at Antioch.
27 ततः परं भविष्यद्वादिगणे यिरूशालम आन्तियखियानगरम् आगते सति
Now in these days prophets came down from Jerusalem to Antioch.
28 आगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति ज्ञापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्।
And one of them named Agabus, after standing up, signified by the Spirit there was going be a great famine in the whole world, which also happened under Claudius Caesar.
29 तस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य
And the disciples, as any man prospered, determined, each of them regarding aid, to send to the brothers who dwell in Judea,
30 बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः।
which also they did, having sent it to the elders by the hand of Barnabas and Saul.

< प्रेरिताः 11 >