< Revelation 15 >

1 I saw another great and marvelous sign in the sky: seven angels having the seven last plagues, for in them God’s wrath is finished.
ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।
2 I saw something like a sea of glass mixed with fire, and those who overcame the beast, his image, and the number of his name, standing on the sea of glass, having harps of God.
वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,
3 They sang the song of Moses, the servant of God, and the song of the Lamb, saying, “Great and marvelous are your works, Lord God, the Almighty! Righteous and true are your ways, you King of the nations.
ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।
4 Who wouldn’t fear you, Lord, and glorify your name? For you only are holy. For all the nations will come and worship before you. For your righteous acts have been revealed.”
हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥
5 After these things I looked, and the temple of the tabernacle of the testimony in heaven was opened.
तदनन्तरं मयि निरीक्षमाणे सति स्वर्गे साक्ष्यावासस्य मन्दिरस्य द्वारं मुक्तं।
6 The seven angels who had the seven plagues came out, clothed with pure, bright linen, and wearing golden sashes around their chests.
ये च सप्त दूताः सप्त दण्डान् धारयन्ति ते तस्मात् मन्दिरात् निरगच्छन्। तेषां परिच्छदा निर्म्मलशृभ्रवर्णवस्त्रनिर्म्मिता वक्षांसि च सुवर्णशृङ्खलै र्वेष्टितान्यासन्।
7 One of the four living creatures gave to the seven angels seven golden bowls full of the wrath of God, who lives forever and ever. (aiōn g165)
अपरं चतुर्णां प्राणिनाम् एकस्तेभ्यः सप्तदूतेभ्यः सप्तसुवर्णकंसान् अददात्। (aiōn g165)
8 The temple was filled with smoke from the glory of God and from his power. No one was able to enter into the temple until the seven plagues of the seven angels would be finished.
अनन्तरम् ईश्वरस्य तेजःप्रभावकारणात् मन्दिरं धूमेन परिपूर्णं तस्मात् तैः सप्तदूतैः सप्तदण्डानां समाप्तिं यावत् मन्दिरं केनापि प्रवेष्टुं नाशक्यत।

< Revelation 15 >