< Matthew 20 >

1 “For the Kingdom of Heaven is like a man who was the master of a household, who went out early in the morning to hire laborers for his vineyard.
स्वर्गराज्यम् एतादृशा केनचिद् गृहस्येन समं, योऽतिप्रभाते निजद्राक्षाक्षेत्रे कृषकान् नियोक्तुं गतवान्।
2 When he had agreed with the laborers for a denarius a day, he sent them into his vineyard.
पश्चात् तैः साकं दिनैकभृतिं मुद्राचतुर्थांशं निरूप्य तान् द्राक्षाक्षेत्रं प्रेरयामास।
3 He went out about the third hour, and saw others standing idle in the marketplace.
अनन्तरं प्रहरैकवेलायां गत्वा हट्टे कतिपयान् निष्कर्म्मकान् विलोक्य तानवदत्,
4 He said to them, ‘You also go into the vineyard, and whatever is right I will give you.’ So they went their way.
यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।
5 Again he went out about the sixth and the ninth hour, and did likewise.
पुनश्च स द्वितीयतृतीययोः प्रहरयो र्बहि र्गत्वा तथैव कृतवान्।
6 About the eleventh hour he went out and found others standing idle. He said to them, ‘Why do you stand here all day idle?’
ततो दण्डद्वयावशिष्टायां वेलायां बहि र्गत्वापरान् कतिपयजनान् निष्कर्म्मकान् विलोक्य पृष्टवान्, यूयं किमर्थम् अत्र सर्व्वं दिनं निष्कर्म्माणस्तिष्ठथ?
7 “They said to him, ‘Because no one has hired us.’ “He said to them, ‘You also go into the vineyard, and you will receive whatever is right.’
ते प्रत्यवदन्, अस्मान् न कोपि कर्ममणि नियुंक्ते। तदानीं स कथितवान्, यूयमपि मम द्राक्षाक्षेत्रं यात, तेन योग्यां भृतिं लप्स्यथ।
8 “When evening had come, the lord of the vineyard said to his manager, ‘Call the laborers and pay them their wages, beginning from the last to the first.’
तदनन्तरं सन्ध्यायां सत्यां सएव द्राक्षाक्षेत्रपतिरध्यक्षं गदिवान्, कृषकान् आहूय शेषजनमारभ्य प्रथमं यावत् तेभ्यो भृतिं देहि।
9 “When those who were hired at about the eleventh hour came, they each received a denarius.
तेन ये दण्डद्वयावस्थिते समायातास्तेषाम् एकैको जनो मुद्राचतुर्थांशं प्राप्नोत्।
10 When the first came, they supposed that they would receive more; and they likewise each received a denarius.
तदानीं प्रथमनियुक्ता जना आगत्यानुमितवन्तो वयमधिकं प्रप्स्यामः, किन्तु तैरपि मुद्राचतुर्थांशोऽलाभि।
11 When they received it, they murmured against the master of the household,
ततस्ते तं गृहीत्वा तेन क्षेत्रपतिना साकं वाग्युद्धं कुर्व्वन्तः कथयामासुः,
12 saying, ‘These last have spent one hour, and you have made them equal to us who have borne the burden of the day and the scorching heat!’
वयं कृत्स्नं दिनं तापक्लेशौ सोढवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेऽस्माभिः समानांशाः कृताः।
13 “But he answered one of them, ‘Friend, I am doing you no wrong. Didn’t you agree with me for a denarius?
ततः स तेषामेकं प्रत्युवाच, हे वत्स, मया त्वां प्रति कोप्यन्यायो न कृतः किं त्वया मत्समक्षं मुद्राचतुर्थांशो नाङ्गीकृतः?
14 Take that which is yours, and go your way. It is my desire to give to this last just as much as to you.
तस्मात् तव यत् प्राप्यं तदादाय याहि, तुभ्यं यति, पश्चातीयनियुक्तलोकायापि तति दातुमिच्छामि।
15 Isn’t it lawful for me to do what I want to with what I own? Or is your eye evil, because I am good?’
स्वेच्छया निजद्रव्यव्यवहरणं किं मया न कर्त्तव्यं? मम दातृत्वात् त्वया किम् ईर्ष्यादृष्टिः क्रियते?
16 So the last will be first, and the first last. For many are called, but few are chosen.”
इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।
17 As Jesus was going up to Jerusalem, he took the twelve disciples aside, and on the way he said to them,
तदनन्तरं यीशु र्यिरूशालम्नगरं गच्छन् मार्गमध्ये शिष्यान् एकान्ते वभाषे,
18 “Behold, we are going up to Jerusalem, and the Son of Man will be delivered to the chief priests and scribes, and they will condemn him to death,
पश्य वयं यिरूशालम्नगरं यामः, तत्र प्रधानयाजकाध्यापकानां करेषु मनुष्यपुत्रः समर्पिष्यते;
19 and will hand him over to the Gentiles to mock, to scourge, and to crucify; and the third day he will be raised up.”
ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
20 Then the mother of the sons of Zebedee came to him with her sons, kneeling and asking a certain thing of him.
तदानीं सिवदीयस्य नारी स्वपुत्रावादाय यीशोः समीपम् एत्य प्रणम्य कञ्चनानुग्रहं तं ययाचे।
21 He said to her, “What do you want?” She said to him, “Command that these, my two sons, may sit, one on your right hand and one on your left hand, in your Kingdom.”
तदा यीशुस्तां प्रोक्तवान्, त्वं किं याचसे? ततः सा बभाषे, भवतो राजत्वे ममानयोः सुतयोरेकं भवद्दक्षिणपार्श्वे द्वितीयं वामपार्श्व उपवेष्टुम् आज्ञापयतु।
22 But Jesus answered, “You don’t know what you are asking. Are you able to drink the cup that I am about to drink, and be baptized with the baptism that I am baptized with?” They said to him, “We are able.”
यीशुः प्रत्युवाच, युवाभ्यां यद् याच्यते, तन्न बुध्यते, अहं येन कंसेन पास्यामि युवाभ्यां किं तेन पातुं शक्यते? अहञ्च येन मज्जेनेन मज्जिष्ये, युवाभ्यां किं तेन मज्जयितुं शक्यते? ते जगदुः शक्यते।
23 He said to them, “You will indeed drink my cup, and be baptized with the baptism that I am baptized with; but to sit on my right hand and on my left hand is not mine to give, but it is for whom it has been prepared by my Father.”
तदा स उक्तवान्, युवां मम कंसेनावश्यं पास्यथः, मम मज्जनेन च युवामपि मज्जिष्येथे, किन्तु येषां कृते मत्तातेन निरूपितम् इदं तान् विहायान्यं कमपि मद्दक्षिणपार्श्वे वामपार्श्वे च समुपवेशयितुं ममाधिकारो नास्ति।
24 When the ten heard it, they were indignant with the two brothers.
एतां कथां श्रुत्वान्ये दशशिष्यास्तौ भ्रातरौ प्रति चुकुपुः।
25 But Jesus summoned them, and said, “You know that the rulers of the nations lord it over them, and their great ones exercise authority over them.
किन्तु यीशुः स्वसमीपं तानाहूय जगाद, अन्यदेशीयलोकानां नरपतयस्तान् अधिकुर्व्वन्ति, ये तु महान्तस्ते तान् शासति, इति यूयं जानीथ।
26 It shall not be so among you; but whoever desires to become great among you shall be your servant.
किन्तु युष्माकं मध्ये न तथा भवेत्, युष्माकं यः कश्चित् महान् बुभूषति, स युष्मान् सेवेत;
27 Whoever desires to be first among you shall be your bondservant,
यश्च युष्माकं मध्ये मुख्यो बुभूषति, स युष्माकं दासो भवेत्।
28 even as the Son of Man came not to be served, but to serve, and to give his life as a ransom for many.”
इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
29 As they went out from Jericho, a great multitude followed him.
अनन्तरं यिरीहोनगरात् तेषां बहिर्गमनसमये तस्य पश्चाद् बहवो लोका वव्रजुः।
30 Behold, two blind men sitting by the road, when they heard that Jesus was passing by, cried out, “Lord, have mercy on us, you son of David!”
अपरं वर्त्मपार्श्व उपविशन्तौ द्वावन्धौ तेन मार्गेण यीशो र्गमनं निशम्य प्रोच्चैः कथयामासतुः, हे प्रभो दायूदः सन्तान, आवयो र्दयां विधेहि।
31 The multitude rebuked them, telling them that they should be quiet, but they cried out even more, “Lord, have mercy on us, you son of David!”
ततो लोकाः सर्व्वे तुष्णीम्भवतमित्युक्त्वा तौ तर्जयामासुः; तथापि तौ पुनरुच्चैः कथयामासतुः हे प्रभो दायूदः सन्तान, आवां दयस्व।
32 Jesus stood still and called them, and asked, “What do you want me to do for you?”
तदानीं यीशुः स्थगितः सन् तावाहूय भाषितवान्, युवयोः कृते मया किं कर्त्तर्व्यं? युवां किं कामयेथे?
33 They told him, “Lord, that our eyes may be opened.”
तदा तावुक्तवन्तौ, प्रभो नेत्राणि नौ प्रसन्नानि भवेयुः।
34 Jesus, being moved with compassion, touched their eyes; and immediately their eyes received their sight, and they followed him.
तदानीं यीशुस्तौ प्रति प्रमन्नः सन् तयो र्नेत्राणि पस्पर्श, तेनैव तौ सुवीक्षाञ्चक्राते तत्पश्चात् जग्मुतुश्च।

< Matthew 20 >