< James 4 >

1 Where do wars and fightings among you come from? Don’t they come from your pleasures that war in your members?
युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?
2 You lust, and don’t have. You murder and covet, and can’t obtain. You fight and make war. You don’t have, because you don’t ask.
यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।
3 You ask, and don’t receive, because you ask with wrong motives, so that you may spend it on your pleasures.
यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।
4 You adulterers and adulteresses, don’t you know that friendship with the world is hostility toward God? Whoever therefore wants to be a friend of the world makes himself an enemy of God.
हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।
5 Or do you think that the Scripture says in vain, “The Spirit who lives in us yearns jealously”?
यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?
6 But he gives more grace. Therefore it says, “God resists the proud, but gives grace to the humble.”
तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥
7 Be subject therefore to God. Resist the devil, and he will flee from you.
अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।
8 Draw near to God, and he will draw near to you. Cleanse your hands, you sinners. Purify your hearts, you double-minded.
ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
9 Lament, mourn, and weep. Let your laughter be turned to mourning and your joy to gloom.
यूयम् उद्विजध्वं शोचत विलपत च, युष्माकं हासः शोकाय, आनन्दश्च कातरतायै परिवर्त्तेतां।
10 Humble yourselves in the sight of the Lord, and he will exalt you.
प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।
11 Don’t speak against one another, brothers. He who speaks against a brother and judges his brother, speaks against the law and judges the law. But if you judge the law, you are not a doer of the law but a judge.
हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।
12 Only one is the lawgiver, who is able to save and to destroy. But who are you to judge another?
अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि?
13 Come now, you who say, “Today or tomorrow let’s go into this city and spend a year there, trade, and make a profit.”
अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत।
14 Yet you don’t know what your life will be like tomorrow. For what is your life? For you are a vapor that appears for a little time and then vanishes away.
श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं।
15 For you ought to say, “If the Lord wills, we will both live, and do this or that.”
तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।
16 But now you glory in your boasting. All such boasting is evil.
किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।
17 To him therefore who knows to do good and doesn’t do it, to him it is sin.
अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।

< James 4 >