< ᎣᏍᏛ ᎧᏃᎮᏛ ᎹᎦ ᎤᏬᏪᎳᏅᎯ 3 >

1 ᏔᎵᏁᏃ ᏭᏴᎴ ᏗᎦᎳᏫᎢᏍᏗᏱ; ᎾᎿᎭᏃ ᎡᏙᎮ ᎠᏍᎦᏯ ᎤᏬᏰᏂ ᎤᏩᎢᏎᎸᎯ.
अनन्तरं यीशुः पुन र्भजनगृहं प्रविष्टस्तस्मिन् स्थाने शुष्कहस्त एको मानव आसीत्।
2 ᎬᏩᏯᏫᏎᏃ ᎤᎾᏚᎵᏍᎨ ᎤᎾᏙᎴᎰᎯᏍᏗᏱ ᎬᏩᏓᏅᏬᏗ ᎨᏒ ᎤᎾᏙᏓᏆᏍᎬ ᎢᎦ, ᎾᏍᎩ ᎬᏩᏰᎢᎵᏓᏍᏗᏱ.
स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।
3 ᎯᎠᏃ ᏄᏪᏎᎴ ᎠᏍᎦᏯ ᎤᏬᏰᏂ ᎤᏩᎢᏎᎸᎯ; ᎠᏰᎵ ᎭᎴᎲᎦ.
तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ।
4 ᎯᎠᏃ ᏂᏚᏪᏎᎴᎢ, ᏚᏳᎪᏗᏍᎪ ᎣᏍᏛ ᏗᎦᎸᏫᏍᏓᏁᏗᏱ ᎤᎾᏙᏓᏆᏍᎬ ᎢᎦ, ᎤᏲᎨ ᏗᎦᎸᏫᏍᏓᏁᏗᏱ? ᎬᏅ ᎩᎶ ᎠᏍᏕᎸᎡᏗᏱ, ᎠᎯᏍᏗᏱᎨ? ᎡᎳᏪᏉᏃ ᎤᏅᏎᎢ.
ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं? किन्तु ते निःशब्दास्तस्थुः।
5 ᎤᏐᏅᏤᎯᏃ ᏕᎤᎧᎿᎭᏅ ᎾᏍᎩ ᎬᏩᏚᏫᏛ ᏄᎾᏛᏅ, ᎤᏕᏯᏔᏁᎲ ᏗᏍᏓᏱᏳ ᎨᏒ ᏧᏂᎾᏫ, ᎯᎠ ᏄᏪᏎᎴ ᎠᏍᎦᏯ; ᎭᏙᏯᏅᎯᏛ. ᎤᏙᏯᏅᎯᏕᏃ, ᎤᏬᏰᏂᏃ ᎬᏩᏃᏍᏛ ᏄᎵᏍᏔᏁ ᎾᏍᎩᏯ ᏐᎢ ᏄᏍᏛᎢ.
तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः।
6 ᎠᏂᏆᎵᏏᏃ ᎤᏂᏄᎪᏨ, ᎩᎳᏉ ᎢᏴᏛ ᏭᎾᎵᏃᎮᎴ ᎡᎶᏛ ᎬᏩᏍᏕᎵᏍᎩ ᎬᏩᏡᏗᏍᎬ, ᎾᏍᎩ ᎢᏳᏅᏁᏗᏱ ᎤᏂᎯᏍᏗᏱ.
अथ फिरूशिनः प्रस्थाय तं नाशयितुं हेरोदीयैः सह मन्त्रयितुमारेभिरे।
7 ᏥᏌᏃ ᎤᏓᏅᏎ ᏚᏘᏅᏎ ᎬᏩᏍᏓᏩᏗᏙᎯ ᎥᏓᎵ ᏭᏂᎶᏎᎢ; ᎤᏂᏣᏘᏃ ᎬᏩᏍᏓᏩᏛᏎᎢ, ᏅᏓᏳᏂᎶᏒᎯ ᎨᎵᎵ, ᎠᎴ ᏧᏗᏱ,
अतएव यीशुस्तत्स्थानं परित्यज्य शिष्यैः सह पुनः सागरसमीपं गतः;
8 ᎠᎴ ᏥᎷᏏᎵᎻ, ᎠᎴ ᎢᏙᎻᏱ, ᎠᎴ ᏦᏓᏂ ᎢᏍᎪᏂᏗᏢ; ᎠᎴ ᏓᏯ ᎠᎴ ᏌᏙᏂ ᎾᎥ ᏗᏁᎯ, ᎤᏣᏘ ᎠᏂᎪᏗᏳ, ᎾᏍᎩ ᎤᎾᏛᎦᏅ ᏂᎦᎥ ᎤᏍᏆᏂᎪᏗ ᏕᎤᎸᏫᏍᏓᏁᎸ, ᎬᏩᎷᏤᎴᎢ.
ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः।
9 ᏚᏁᏤᎴᏃ ᎬᏩᏍᏓᏩᏗᏙᎯ, ᎾᏍᎩ ᏥᏳ ᎤᎦᏘᏗᏍᏗᏱ, ᎤᏂᏣᏘ ᎨᏒ ᎢᏳᏍᏗ, ᎾᏍᎩ ᎬᏩᏁᏄᎳᏍᏙᏗᏱ ᏂᎨᏒᎾ.
तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।
10 ᎤᏂᏣᏖᏰᏃ ᏚᏅᏩᏁᎢ; ᎾᏍᎩ ᎢᏳᏍᏗ ᎬᏩᏁᏄᎳᏍᏗᏍᎨ ᎬᏩᏃᏟᏍᏙᏗᏱ ᎤᎾᏚᎵᏍᎨᎢ, ᏂᎦᏛ ᎪᎱᏍᏗ ᏗᎾᎵᏍᏗᏍᎩ.
यतोऽनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः।
11 ᎠᎴ ᏗᎦᏓᎭ ᏗᏓᏅᏙ, ᎢᏳᏃ ᎬᏩᎪᏩᏛ, ᎡᎳᏗ ᎬᏩᏓᏅᏁᎮ, ᎠᎴ ᎠᏁᎷᎲᏍᎨ, ᎯᎠ ᎾᏂᏪᏍᎨᎢ, ᎤᏁᎳᏅᎯ ᎤᏪᏥ ᏂᎯ.
अपरञ्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः।
12 ᎤᎵᏂᎩᏛᏃ ᏚᏁᏤᎴ ᎾᏍᎩ ᎬᏂᎨᏒ ᎢᎬᏩᏁᏗᏱ ᏂᎨᏒᎾ.
किन्तु स तान् दृढम् आज्ञाप्य स्वं परिचायितुं निषिद्धवान्।
13 ᎤᎿᎭᎷᏎᏃ ᎣᏓᎸᎢ, ᎠᎴ ᏚᏯᏅᎮ ᎾᏍᎩ ᎤᏚᎵᏍᎬ ᏧᏯᏅᏗᏱ; ᎠᎴ ᎬᏩᎷᏤᎮᎢ.
अनन्तरं स पर्व्वतमारुह्य यं यं प्रतिच्छा तं तमाहूतवान् ततस्ते तत्समीपमागताः।
14 ᎠᎴ ᏚᏑᏰᏎ ᏔᎳᏚ ᎢᏯᏂᏛ, ᎾᏍᎩ ᎬᏩᏍᏓᏩᏗᏓᏍᏗᏱ, ᎠᎴ ᎾᏍᎩ ᏧᏅᏍᏗᏱ ᎤᎾᎵᏥᏙᏂᏓᏍᏗᏱ,
तदा स द्वादशजनान् स्वेन सह स्थातुं सुसंवादप्रचाराय प्रेरिता भवितुं
15 ᎠᎴ ᏧᎵᏍᎪᎸᏓᏁᏗᏱ ᏚᏂᏢᎬ ᏧᏂᏅᏬᏗᏱ, ᎠᎴ ᎠᏂᏍᎩᎾ ᏧᏂᏄᎪᏫᏍᏗᏱ;
सर्व्वप्रकारव्याधीनां शमनकरणाय प्रभावं प्राप्तुं भूतान् त्याजयितुञ्च नियुक्तवान्।
16 ᏌᏩᏂᏃ ᏈᏓ ᏚᏬᎡᎢ.
तेषां नामानीमानि, शिमोन् सिवदिपुत्रो
17 ᎠᎴ ᏥᎻ ᏤᏈᏗ ᎤᏪᏥ, ᎠᎴ ᏣᏂ ᏥᎻ ᏗᎾᏓᏅᏟ; ᎠᎴ ᎾᏍᎩ ᏉᎠᎾᏥ ᏚᏬᎡᎢ, ᎾᏍᎩ ᎠᏴᏓᏆᎶᏍᎩ ᏧᏪᏥ ᎦᏛᎦ;
याकूब् तस्य भ्राता योहन् च आन्द्रियः फिलिपो बर्थलमयः,
18 ᎠᎴ ᎡᏂᏗ, ᎠᎴ ᏈᎵᎩ, ᎠᎴ ᏆᏙᎳᎻ, ᎠᎴ ᎹᏚ, ᎠᎴ ᏓᎻ, ᎠᎴ ᏥᎻ ᎡᎵᏈ ᎤᏪᏥ, ᎠᎴ ᏓᏗᏯ, ᎠᎴ ᏌᏩᏂ ᎠᎨᎾᏂᏗ,
मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।
19 ᎠᎴ ᏧᏓᏏ ᎢᏍᎦᎳᏗ, ᎾᏍᎩ ᏍᏉ ᏧᎶᏄᎮᎴᎢ; ᎠᏓᏁᎸᏃ ᏭᏂᎶᏎᎢ.
स शिमोने पितर इत्युपनाम ददौ याकूब्योहन्भ्यां च बिनेरिगिश् अर्थतो मेघनादपुत्रावित्युपनाम ददौ।
20 ᎤᏂᏣᏘᏃ ᏔᎵᏁ ᏚᏂᎳᏫᏦᎴᎢ, ᏍᎩ ᎢᏳᏍᏗ ᎾᏍᏉ ᏂᎤᏟᏍᏕ ᎦᏚ ᎤᏂᎩᏍᏗᏱ.
अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।
21 ᎪᎱᏍᏗᏃ ᏧᏩᏅ ᎤᎾᏛᎦᏅ, ᎤᏁᏅᏎ ᎬᏩᏂᏴᎲᏎᎢ; ᎯᎠᏰᏃ ᎾᏂᏪᏍᎨᎢ, ᎤᎸᏃᏘᎭ.
ततस्तस्य सुहृल्लोका इमां वार्त्तां प्राप्य स हतज्ञानोभूद् इति कथां कथयित्वा तं धृत्वानेतुं गताः।
22 ᏗᏃᏪᎵᏍᎩᏃ ᏥᎷᏏᎵᎻ ᏅᏓᏳᏂᎶᏒᎯ, ᎯᎠ ᎾᏂᏪᏍᎨᎢ, ᏇᎵᏥᏆ ᎤᏪᎭ, ᎠᎴ ᎤᎬᏫᏳᎯ ᎠᏂᏍᎩᎾ ᎤᎾᏤᎵᎦ ᎬᏗᎭ ᏕᎦᏄᎪᏫᏍᎦ ᎠᏂᏍᎩᎾ.
अपरञ्च यिरूशालम आगता ये येऽध्यापकास्ते जगदुरयं पुरुषो भूतपत्याबिष्टस्तेन भूतपतिना भूतान् त्याजयति।
23 ᎾᏍᎩᏃ ᏫᏚᏯᏅᎲ, ᎯᎠ ᏂᏚᏪᏎᎴ ᏚᏟᎶᏍᏓᏁᎴᎢ, ᎦᏙ ᏱᎦᎵᏍᏙᏓ ᏎᏓᏂ ᏱᎦᏄᎪᏩ ᏎᏓᏂ?
ततस्तानाहूय यीशु र्दृष्टान्तैः कथां कथितवान् शैतान् कथं शैतानं त्याजयितुं शक्नोति?
24 ᎢᏳ ᎠᎴ ᎠᏰᎵ ᎪᏢᏒ ᏔᎵ ᏱᏄᏓᎠ, ᎤᏩᏒᏉ ᏯᏓᏡᏗᎭ, ᎥᏝ ᏰᎵ ᏱᏂᎬᏩᏍᏗᏉ ᎾᏍᎩ ᎠᏰᎵ ᎪᏢᏒᎢ.
किञ्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति।
25 ᎢᏳ ᎠᎴ ᏏᏓᏁᎸ ᎨᏒ ᏔᎵ ᏱᏄᏓᎠ, ᎤᏩᏒᏉ ᏯᏓᏡᏗᎭ, ᎾᏍᎩ ᏏᏓᏁᎸ ᎨᏒ ᎥᏝ ᏰᎵ ᏱᏂᎬᏩᏍᏗᏉ.
तथा कस्यापि परिवारो यदि परस्परं विरोधी भवति तर्हि सोपि परिवारः स्थिरं स्थातुं न शक्नोति।
26 ᎢᏳ ᎠᎴ ᏎᏓᏂ ᏱᏚᎴᏅ ᎤᏩᏒ ᏱᏚᏓᎦᏘᎴᏅ, ᎠᎴ ᏔᎵ ᏱᏄᏓᎠ, ᎥᏝ ᏰᎵ ᏱᏂᎬᏩᏍᏗᏉ, ᏱᏩᏍᏔᏉᏍᎩᏂ ᎡᎲᎢ.
तद्वत् शैतान् यदि स्वविपक्षतया उत्तिष्ठन् भिन्नो भवति तर्हि सोपि स्थिरं स्थातुं न शक्नोति किन्तूच्छिन्नो भवति।
27 ᎥᏝ ᎩᎶ ᎤᎵᏂᎩᏛ ᎠᏍᎦᏯ ᎦᏁᎸ ᏴᎬᏴᎭ, ᎠᎴ ᏴᎬᏬᏅ ᎤᎿᎭᎥᎢ, ᎬᏂ ᎢᎬᏱ ᏳᎸᎸ ᎾᏍᎩ ᎤᎵᏂᎩᏛ ᎠᏍᎦᏯ; ᎩᎳ ᎿᎭᏉ ᏯᏬᏅ ᎦᏁᎸ ᎤᎿᎭᎥᎢ.
अपरञ्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्ठयितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्ठयितुं शक्नोति।
28 ᎤᏙᎯᏳᎯᏯ ᎢᏨᏲᏎᎭ, ᏂᎦᎥ ᎠᏍᎦᏅᎢᏍᏗ ᎨᏒ, ᎦᎨᏥᏙᎵᏍᏗᏉ ᎨᏎᏍᏗ ᏴᏫ ᏧᏁᏥ, ᎠᎴ ᎠᏐᏢᎢᏍᏙᏗ ᎨᏒ, ᏂᎦᎥ ᎬᏩᏂᏐᏢᎢᏍᏙᏗ ᎨᏒᎢ;
अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति,
29 ᎩᎶᏍᎩᏂ ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ ᎠᏐᏢᎢᏍᏗᏍᎨᏍᏗ, ᎥᏝ ᎢᎸᎯᏳ ᎦᏰᏥᏙᎵᏍᏗ ᏱᎨᏎᏍᏗ, ᏗᎦᏰᎫᎪᏓᏁᏗᏉᏍᎩᏂ ᏫᎾᏍᏛᎾ ᎤᏍᏛᏗᏍᏗᏱ; (aiōn g165, aiōnios g166)
किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति। (aiōn g165, aiōnios g166)
30 ᏅᏗᎦᎵᏍᏙᏗᏍᎨᎢ, ᎦᏓᎭ ᎠᏓᏅᏙ ᎤᏯᎠ, ᎤᎾᏛᏅᎢ.
तस्यापवित्रभूतोऽस्ति तेषामेतत्कथाहेतोः स इत्थं कथितवान्।
31 ᎿᎭᏉᏃ ᎬᏩᎷᏤᎴ ᎠᎾᎵᏅᏟ, ᎠᎴ ᎤᏥ, ᎠᎴ ᏙᏱᏗᏢ ᏓᏂᏙᎨ, ᎤᎾᏓᏅᏎ ᏫᎬᏩᏯᏂᏍᎨᎢ.
अथ तस्य माता भ्रातृगणश्चागत्य बहिस्तिष्ठनतो लोकान् प्रेष्य तमाहूतवन्तः।
32 ᎤᏂᏣᏘᏃ ᎠᏂᏁ ᎬᏩᏓᏡᏫᏍᏕᎢ; ᎯᎠᏃ ᏂᎬᏩᏪᏎᎴᎢ, ᎬᏂᏳᏉ, ᏣᏥ ᎠᎴ ᎢᏣᎵᏅᏟ ᏙᏱᏗᏢ ᏗᎨᏣᏲᎭ.
ततस्तत्सन्निधौ समुपविष्टा लोकास्तं बभाषिरे पश्य बहिस्तव माता भ्रातरश्च त्वाम् अन्विच्छन्ति।
33 ᏚᏁᏤᎴᏃ ᎯᎠ ᏄᏪᏎᎢ, ᎦᎪ ᎡᏥ, ᎠᎴ ᎣᏣᎵᏅᏟ?
तदा स तान् प्रत्युवाच मम माता का भ्रातरो वा के? ततः परं स स्वमीपोपविष्टान् शिष्यान् प्रति अवलोकनं कृत्वा कथयामास
34 ᎬᏩᏚᏫᏛᏃ ᏚᎧᎿᎭᏂᏙᎸ ᎤᏬᎸ ᎾᎥ ᎠᏂᏂ ᏚᎧᎾᏅ ᎯᎠ ᏄᏪᏎᎢ; ᎬᏂᏳᏉ ᎡᏥ, ᎠᎴ ᎣᏣᎵᏅᏟ?
पश्यतैते मम माता भ्रातरश्च।
35 ᎩᎶᏰᏃ ᎤᏁᎳᏅᎯ ᎤᏚᎵᏍᎬ ᎾᏛᏁᎮᏍᏗ, ᎾᏍᎩ ᏦᏍᏓᏓᏅᏟ, ᎠᎴ ᎥᎩᏙ, ᎠᎴ ᎡᏥ.
यः कश्चिद् ईश्वरस्येष्टां क्रियां करोति स एव मम भ्राता भगिनी माता च।

< ᎣᏍᏛ ᎧᏃᎮᏛ ᎹᎦ ᎤᏬᏪᎳᏅᎯ 3 >