< ᎪᎵᏂᏗᏱ ᎠᏁᎯ ᏔᎵᏁ ᎨᎪᏪᎳᏁᎸᎯ 7 >

1 ᎯᎠᏃ ᎾᏍᎩ ᏥᏄᏍᏗ ᎡᎩᏚᎢᏍᏓᏁᎸᎯ ᏥᎩ, ᎢᏨᎨᏳᎢ, ᎢᏓᏓᏅᎦᎸ ᎢᏗᎲᎾ ᏄᏓᎴᏒ ᎦᏓᎭ ᎨᏒ ᎢᎩᏇᏓᎸ, ᎠᎴ ᎢᎦᏓᏅᏙᎩᎯ, ᎢᏗᏍᏆᏗᏍᎨᏍᏗ ᏚᏳᎪᏛ ᎨᏒᎢ, ᎤᏁᎳᏅᎯ ᎡᏗᎾᏰᏍᎬᎢ.
अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।
2 ᏗᏍᎩᏯᏓᏂᎸᎩ; ᎥᏝ ᎩᎶ ᎤᏣᏘᏂ ᏱᏃᏨᏁᎸ, ᎥᏝ ᎩᎶ ᎠᏍᎦᎾ ᏱᏃᏨᏁᎸ, ᎥᏝ ᎩᎶ ᏲᏥᎶᏄᎡᎸ.
यूयम् अस्मान् गृह्लीत। अस्माभिः कस्याप्यन्यायो न कृतः कोऽपि न वञ्चितः।
3 ᎯᎠ ᎾᏍᎩ ᏥᏂᏥᏪᎭ ᎥᏝ ᏗᏨᏳᎪᏓᏁᏗᏱ ᏯᎩᏰᎸᎭ; ᎦᏳᎳᏰᏃ ᎯᎠ ᏥᏂᎠᎩᏪᏒ, ᏦᎩᎾᏫᏱ ᎢᏥᏯᎠ, ᎣᎦᏛᏅᎢᏍᏗᏉ ᎢᏧᎳᎭ ᏗᎩᏂᏲᎱᎯᏍᏗᏱ, ᎠᎴ ᎢᏧᎳᎭ ᎢᎦᏕᏗᏱ.
युष्मान् दोषिणः कर्त्तमहं वाक्यमेतद् वदामीति नहि युष्माभिः सह जीवनाय मरणाय वा वयं युष्मान् स्वान्तःकरणै र्धारयाम इति पूर्व्वं मयोक्तं।
4 ᎤᏣᏘ ᎢᏨᏲᎢᏳᎭ; ᎤᏣᏘ ᎢᏨᎸᏉᏗᏍᎪᎢ; ᎠᎩᎧᎵᏨᎯ ᎤᎦᎵᏍᏗ ᎨᏒᎢ; ᎤᏣᏔᏅᎯ ᎤᎵᎮᎵᏍᏗ ᎠᏆᏓᏅᏔᏩᏕᎪ ᏂᎦᎥ ᎣᏥᎩᎵᏲᏥᏙᎲᎢ.
युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।
5 ᎹᏏᏙᏂᏰᏃ ᏬᎩᎷᏨ, ᎥᏝ ᎣᎩᏇᏓᎸ ᎬᏩᏣᏪᏐᎸᏍᏙᏗ ᏱᎨᏎᎢ, ᎬᏩᏚᎾᏛᏍᎩᏂ ᎣᎦᏕᏯᏙᏗᎬᎩ; ᏙᏱᏗᏢ ᎠᎵᏛ ᎨᏒᎢ, ᎭᏫᏂᏃ ᎢᏗᏢ ᎣᏥᎾᏰᏍᎬᎢ.
अस्मासु माकिदनियादेशम् आगतेष्वस्माकं शरीरस्य काचिदपि शान्ति र्नाभवत् किन्तु सर्व्वतो बहि र्विरोधेनान्तश्च भीत्या वयम् अपीड्यामहि।
6 ᎤᏁᎳᏅᎯᏍᎩᏂᏃᏅ ᏗᎦᎵᏍᏓᏗᏍᎩ ᎤᏪᎵᎯᏍᏗ ᎤᎾᏓᏅᏔᏩᏕᎩ, ᎣᎩᎦᎵᏍᏓᏗᏍᏔᏅᎩ ᏓᏓᏏ ᎤᎷᏨᎢ;
किन्तु नम्राणां सान्त्वयिता य ईश्वरः स तीतस्यागमनेनास्मान् असान्त्वयत्।
7 ᎥᏝᏍᎩᏂᏃᏅ ᎤᎷᏨᏉ ᎤᏩᏒ, ᎤᎦᎵᏍᏗᏍᎩᏂ ᎾᏍᏉ ᎤᏓᏅᏓᏛᎢ ᏂᎯ ᎨᏒ ᎢᏳᏍᏗ, ᎣᎩᏃᏁᎸ ᏂᎯ ᎤᏣᏘ ᎢᏣᏚᎵᏍᎬᎢ, ᎤᏲ ᎢᏥᏰᎸᏒᎯ, ᎤᏣᏘ ᏍᎩᎨᏳᎢᏳ ᎨᏒᎢ; ᎾᏍᎩ ᎢᏳᏍᏗ ᎤᏟ ᎢᎦᎢ ᎠᏆᎵᎮᎵᏨᎩ.
केवलं तस्यागमनेन तन्नहि किन्तु युष्मत्तो जातया तस्य सान्त्वनयापि, यतोऽस्मासु युष्माकं हार्द्दविलापासक्तत्वेष्वस्माकं समीपे वर्णितेषु मम महानन्दो जातः।
8 ᎤᏙᎯᏳᎯᏍᎩᏂᏃᏅ ᎤᏲ ᎢᏨᏯᏓᏅᏓᏗᏍᏔᏅᎩ ᎪᏪᎵ ᏫᏨᏅᏁᎸᎢ, ᎥᏝ ᎤᏲ ᏯᎩᏰᎸᎭ, ᎤᏲᏍᎩᏂᏃᏅ ᎠᎩᏰᎸᏒᎩ; ᎢᏥᎪᏩᏘᏰᏃ ᎾᏍᎩ ᎪᏪᎵ ᎤᏲ ᎢᏣᏓᏅᏓᏗᏍᏔᏅᎢ, ᎠᏎᏃ ᏞᎦᏉ.
अहं पत्रेण युष्मान् शोकयुक्तान् कृतवान् इत्यस्माद् अन्वतप्ये किन्त्वधुना नानुतप्ये। तेन पत्रेण यूयं क्षणमात्रं शोकयुक्तीभूता इति मया दृश्यते।
9 ᎪᎯᏃ ᏥᎩ ᎦᎵᎡᎵᎦ, ᎥᏝ ᎠᏗᎾ ᎤᏲ ᎢᏣᏓᏅᏓᏛ ᏱᏅᏗᎦᎵᏍᏙᏗᎭ, ᏅᏗᎦᎵᏍᏙᏗᎭᏍᎩᏂ ᏗᎨᏥᏁᏟᏴᏍᏗ ᏕᏣᏓ ᏅᏛ ᎢᏴᏛ ᎤᏲ ᎢᏣᏓᏅᏓᏛᎢ; ᎤᏲᏰᏃ ᎢᏣᏓᏅᏓᏛᎩ ᎾᏍᎩᏯ ᎤᏁᎳᏅᎯ ᏗᎬᏩᏓᏂᎸᎢᏍᏗ ᏥᎩ, ᎾᏍᎩ ᏅᏓᏳᎵᏍᏙᏗᏱ ᎪᎱᏍᏗ ᎡᏍᎦ ᎢᏨᏴᏁᏗᏱ ᏂᎨᏒᎾ.
इत्यस्मिन् युष्माकं शोकेनाहं हृष्यामि तन्नहि किन्तु मनःपरिवर्त्तनाय युष्माकं शोकोऽभवद् इत्यनेन हृष्यामि यतोऽस्मत्तो युष्माकं कापि हानि र्यन्न भवेत् तदर्थं युष्माकम् ईश्वरीयः शोेको जातः।
10 ᎤᏲᏰᏃ ᎠᏓᏅᏓᏗᏍᏗ ᎤᏁᎳᏅᎯ ᏗᎬᏩᏓᏂᎸᎢᏍᏗ ᎨᏒ ᎦᏁᏟᏴᏍᏗ ᎨᏒ ᎣᏓᏅᏛ ᏩᎵᏰᎢᎶᎯᎭ ᎥᏓᏗᏍᏕᎸᏗᏱ ᏫᎦᎷᎩ, ᎾᏍᎩ ᎤᏲ ᎠᏰᎸᏗ ᏂᎨᏒᎾ; ᎡᎶᎯᏍᏗᏂ ᎡᎯ ᎤᏲ ᎠᏓᏅᏓᏗᏍᏗ ᎨᏒ ᎠᏲᎱᎯᏍᏗ ᎨᏒ ᏩᎵᏰᎢᎶᎯᎭ.
स ईश्वरीयः शोकः परित्राणजनकं निरनुतापं मनःपरिवर्त्तनं साधयति किन्तु सांसारिकः शोको मृत्युं साधयति।
11 ᎬᏂᏳᏉᏰᏃ ᎯᎠ ᎾᏍᎩ ᎤᏲ ᏥᏣᏓᏅᏓᏛᎩ ᎾᏍᎩ ᏗᎬᏩᏓᏂᎸᎢᏍᏗ ᎨᏒ ᎤᏁᎳᏅᎯ, ᏂᎦᎥ ᎢᏣᎵᏂᎬᏁᏗ ᎨᏒ ᏭᎵᏰᎢᎶᎸ; ᏂᎦᎥ ᏗᏣᏢᏫᏍᏙᏗ ᎢᏥᏲᎲᎢ, ᎥᎥ ᏂᎦᎥ ᎢᏥᏂᏆᏘᎲᎢ, ᎥᎥ, ᏂᎦᎥ ᎢᏥᎾᏰᏍᎬᎢ, ᎥᎥ, ᏂᎦᎥ ᎤᏣᏘ ᎢᏣᏑᎵᏍᎬᎢ, ᎥᎥᎢ, ᏂᎦᎥ ᎤᎵᏂᎩᏛ ᎢᏣᏓᏅᏛᎢ, ᎥᎥ, ᏂᎦᎥ ᎠᏓᏍᏛᏗᏍᏙᏗ ᎨᏒᎢ! ᏂᎦᎥ ᏧᏓᎴᏅᏛ ᎬᏂᎨᏒ ᏂᏨᏁᎸ ᏂᏥᏍᎦᏅᎾ ᎨᏒ ᎯᎠ ᎾᏍᎩ ᎧᏃᎮᏗ ᏥᎩ.
पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।
12 ᎾᏍᎩ ᏥᏄᏍᏗ ᎤᏙᎯᏳᎯᏍᎩᏂᏃᏅ ᏫᏨᏲᏪᎳᏁᎸᎩ, ᎠᏎᏃ ᎥᏝ ᎤᏣᏘᏂ ᎢᏳᏛᏁᎸᎯ ᏳᎬᏩᎴᎢ, ᎥᏝ ᎠᎴ Ꮎ ᎤᏣᏘᏂ ᎢᏯᎦᏛᏁᎸᎯ ᏳᎬᏩᎴᎢ; ᎠᏍᎩᏂ ᎢᏨᏍᏆᏂᎪᏗᏳ ᎨᏒ ᎤᏁᎳᏅᎯ ᎠᎦᏔᎲ ᎬᏂᎨᏒ ᎢᏣᎵᏍᏓᏁᏗᏱ.
येनापराद्धं तस्य कृते किंवा यस्यापराद्धं तस्य कृते मया पत्रम् अलेखि तन्नहि किन्तु युष्मानध्यस्माकं यत्नो यद् ईश्वरस्य साक्षाद् युष्मत्समीपे प्रकाशेत तदर्थमेव।
13 ᎾᏍᎩ ᎢᏳᏍᏗ ᏂᎯ ᎤᎦᎵᏍᏗ ᎢᏣᏓᏅᏛ ᎠᏴ ᎣᎩᎦᎵᏍᏓᏛᎩ; ᎥᎥ, ᎠᎴ ᎤᏟ ᎢᎦᎢ ᎣᎦᎵᎮᎵᏍᏗ ᏄᎵᏍᏔᏅᎩ, ᏓᏓᏏ ᎠᎵᎮᎵᎬ ᎢᏳᏍᏗ, ᏅᏓᎦᎵᏍᏙᏗᏍᎬᎩ ᎾᏍᎩ ᎤᏓᏅᏙ ᏂᏥᎥ ᎡᏥᎦᎵᏍᏓᏕᎸᎢ.
उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः।
14 ᎢᏳᏰᏃ ᏥᏯᏢᏈᏎᎸᎯ ᎨᏎᏍᏗ, ᏂᎯ ᎢᏨᏁᎢᏍᏗᏍᎬᎢ, ᎥᏝ ᏱᎦᏕᎣᏍᎦ; ᏂᎦᏗᏳᏍᎩᏂ ᏧᏓᎴᏅᏛ ᎢᏨᏬᏁᏔᏅᎢ ᎤᏙᎯᏳᎯᏯ ᏥᎩ, ᎾᏍᎩᏯᏉ ᎣᎦᏢᏆᏒᎢ, ᎾᏍᎩ ᏓᏓᏏ ᎣᏣᏢᏆᏎᎸᎢ, ᎤᏙᎯᏳᎯᏯ ᏄᎵᏍᏔᏅ.
पूर्व्वं तस्य समीपेऽहं युष्माभिर्यद् अश्लाघे तेन नालज्जे किन्तु वयं यद्वद् युष्मान् प्रति सत्यभावेन सकलम् अभाषामहि तद्वत् तीतस्य समीपेऽस्माकं श्लाघनमपि सत्यं जातं।
15 ᎠᎴ ᎤᎾᏫᏱ ᎢᏥᎨᏳᎯᏳ ᎨᏒ ᎤᏣᏘ ᎤᏁᏉᏨ, ᎤᏅᏓᏛ ᎢᏦᎯᏳᎯᏳ ᎨᏒ ᏂᏥᎥᎢ, ᎾᏍᎩ ᎢᏥᎾᏰᏍᎩ ᎠᎴ ᏗᏥᎾᏫᏍᎩ ᏕᏣᏓᏂᎸᏨᎢ.
यूयं कीदृक् तस्याज्ञा अपालयत भयकम्पाभ्यां तं गृहीतवन्तश्चैतस्य स्मरणाद् युष्मासु तस्य स्नेहो बाहुल्येन वर्त्तते।
16 ᎾᏍᎩ ᎢᏳᏍᏗ ᎦᎵᎡᎵᎦ, ᎨᏨᏲᎢᏳᏗ ᎨᏒ ᏄᏓᎴᏒ ᎪᎱᏍᏗ ᎤᎬᏩᎵ.
युष्मास्वहं सर्व्वमाशंसे, इत्यस्मिन् ममाह्लादो जायते।

< ᎪᎵᏂᏗᏱ ᎠᏁᎯ ᏔᎵᏁ ᎨᎪᏪᎳᏁᎸᎯ 7 >